युधिष्ठिर उवाच:
एवं व्रुवति कौरव्ये धर्मराजे युधिष्ठिरे |
४९ क
युधिष्ठिर उवाच:
वासुदेवो वरः पुंसामिदं वचनमव्रवीत् ||
४९ ख
युधिष्ठिर उवाच:
तवैव रत्नानि धनं च केवल; म्धरा च कृत्स्ना तु महाभुजाद्य वै |
५० क
युधिष्ठिर उवाच:
यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः ||
५० ख
युधिष्ठिर उवाच:
तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान् |
५१ क
युधिष्ठिर उवाच:
पितृष्वसामभ्यवदद्यथाविधि; सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ||
५१ ख
युधिष्ठिर उवाच:
तय़ा स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः |
५२ क
युधिष्ठिर उवाच:
विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः ||
५२ ख
युधिष्ठिर उवाच:
रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः |
५३ क
युधिष्ठिर उवाच:
पितृष्वसाय़ाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः ||
५३ ख
युधिष्ठिर उवाच:
तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि |
५४ क
युधिष्ठिर उवाच:
अगाधवुद्धिर्विदुरश्च माधवं; स्वय़ं च भीमो गजराजविक्रमः ||
५४ ख
युधिष्ठिर उवाच:
निवर्तय़ित्वा कुरुराष्ट्रवर्धनां; स्ततः स सर्वान्विदुरं च वीर्यवान् |
५५ क
युधिष्ठिर उवाच:
जनार्दनो दारुकमाह सत्वरः; प्रचोदय़ाश्वानिति सात्यकिस्तदा ||
५५ ख
युधिष्ठिर उवाच:
ततो यय़ौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः |
५६ क
युधिष्ठिर उवाच:
यथा निहत्यारिगणाञ्शतक्रतु; र्दिवं तथानर्तपुरीं प्रतापवान् ||
५६ ख