सञ्जय़ उवाच:
ते नित्यमुदिता जेतुं युद्धे शत्रूनरिन्दमाः |
९८ क
सञ्जय़ उवाच:
न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ||
९८ ख
सञ्जय़ उवाच:
तेषामापततां शूरः पाञ्चालानां तरस्विनाम् |
९९ क
सञ्जय़ उवाच:
आदत्तेऽसूञ्शरैः कर्णः पतङ्गानामिवानलः ||
९९ ख
सञ्जय़ उवाच:
तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् |
१०० क
सञ्जय़ उवाच:
क्षय़ं नय़ति राधेय़ः पाञ्चालाञ्शतशो रणे ||
१०० ख
सञ्जय़ उवाच:
अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् |
१०१ क
सञ्जय़ उवाच:
यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ||
१०१ ख
सञ्जय़ उवाच:
तापनं सर्वसैन्यानां घोररूपं सुदारुणम् |
१०२ क
सञ्जय़ उवाच:
समावृत्य महासेनां ज्वलति स्वेन तेजसा ||
१०२ ख
सञ्जय़ उवाच:
एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः |
१०३ क
सञ्जय़ उवाच:
भ्रमराणामिव व्रातास्तापय़न्तः स्म तावकान् ||
१०३ ख
सञ्जय़ उवाच:
एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत |
१०४ क
सञ्जय़ उवाच:
कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ||
१०४ ख
सञ्जय़ उवाच:
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः |
१०५ क
सञ्जय़ उवाच:
सृञ्जय़ैर्योधय़न्कर्णं पीड्यते स्म शितैः शरैः ||
१०५ ख
सञ्जय़ उवाच:
पाण्डवान्सृञ्जय़ांश्चैव पाञ्चालांश्चैव भारत |
१०६ क
सञ्जय़ उवाच:
हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ||
१०६ ख
सञ्जय़ उवाच:
नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे वले |
१०७ क
सञ्जय़ उवाच:
यः समासाद्य राधेय़ं स्वस्तिमानाव्रजेद्गृहम् ||
१०७ ख
सञ्जय़ उवाच:
तमद्य निशितैर्वाणैर्निहत्य भरतर्षभ |
१०८ क
सञ्जय़ उवाच:
यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ||
१०८ ख
सञ्जय़ उवाच:
त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् |
१०९ क
सञ्जय़ उवाच:
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्व्रवीमि ते ||
१०९ ख
सञ्जय़ उवाच:
एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् |
११० क
सञ्जय़ उवाच:
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ||
११० ख