वैशम्पाय़न उवाच:
श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः |
१ क
वैशम्पाय़न उवाच:
किञ्चिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
नमस्ते भगवन्विष्णो लोकानां निधनोद्भव |
२ क
वैशम्पाय़न उवाच:
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ||
२ ख
वैशम्पाय़न उवाच:
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |
३ क
वैशम्पाय़न उवाच:
अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ||
३ ख
वैशम्पाय़न उवाच:
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु |
४ क
वैशम्पाय़न उवाच:
योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपराय़णम् ||
४ ख
वैशम्पाय़न उवाच:
मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम |
५ क
वैशम्पाय़न उवाच:
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु ||
५ ख
वैशम्पाय़न उवाच:
तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् |
६ क
वैशम्पाय़न उवाच:
सप्त मार्गा निरुद्धास्ते वाय़ोरमिततेजसः ||
६ ख
वैशम्पाय़न उवाच:
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा |
७ क
वैशम्पाय़न उवाच:
दिशो भुजौ रविश्चक्षुर्वीर्ये शक्रः प्रतिष्ठितः ||
७ ख
वैशम्पाय़न उवाच:
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् |
८ क
वैशम्पाय़न उवाच:
वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः ||
८ ख
वैशम्पाय़न उवाच:
त्वत्प्रपन्नाय़ भक्ताय़ गतिमिष्टां जिगीषवे |
९ क
वैशम्पाय़न उवाच:
यच्छ्रेय़ः पुण्डरीकाक्ष तद्ध्याय़स्व सुरोत्तम ||
९ ख
वासुदेव उवाच:
यतः खलु परा भक्तिर्मय़ि ते पुरुषर्षभ |
१० क
वासुदेव उवाच:
ततो वपुर्मय़ा दिव्यं तव राजन्प्रदर्शितम् ||
१० ख
वासुदेव उवाच:
न ह्यभक्ताय़ राजेन्द्र भक्ताय़ानृजवे न च |
११ क
वासुदेव उवाच:
दर्शय़ाम्यहमात्मानं न चादान्ताय़ भारत ||
११ ख
वासुदेव उवाच:
भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः |
१२ क
वासुदेव उवाच:
दमे तपसि सत्ये च दाने च निरतः शुचिः ||
१२ ख
वासुदेव उवाच:
अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव |
१३ क
वासुदेव उवाच:
तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः ||
१३ ख
वासुदेव उवाच:
पञ्चाशतं षट्च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य |
१४ क
वासुदेव उवाच:
ततः शुभैः कर्मफलोदय़ैस्त्वं; समेष्यसे भीष्म विमुच्य देहम् ||
१४ ख
वासुदेव उवाच:
एते हि देवा वसवो विमाना; न्यास्थाय़ सर्वे ज्वलिताग्निकल्पाः |
१५ क
वासुदेव उवाच:
अन्तर्हितास्त्वां प्रतिपालय़न्ति; काष्ठां प्रपद्यन्तमुदक्पतङ्गम् ||
१५ ख
वासुदेव उवाच:
व्यावृत्तमात्रे भगवत्युदीचीं; सूर्ये दिशं कालवशात्प्रपन्ने |
१६ क
वासुदेव उवाच:
गन्तासि लोकान्पुरुषप्रवीर; नावर्तते यानुपलभ्य विद्वान् ||
१६ ख
वासुदेव उवाच:
अमुं च लोकं त्वय़ि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्यखिलेन वीर |
१७ क
वासुदेव उवाच:
अतः स्म सर्वे त्वय़ि संनिकर्षं; समागता धर्मविवेचनाय़ ||
१७ ख
वासुदेव उवाच:
तज्ज्ञातिशोकोपहतश्रुताय़; सत्याभिसन्धाय़ युधिष्ठिराय़ |
१८ क
वासुदेव उवाच:
प्रव्रूहि धर्मार्थसमाधिय़ुक्त; मर्थ्यं वचोऽस्यापनुदास्य शोकम् ||
१८ ख