chevron_left आश्वमेधिक पर्व अध्याय ५१
वैशम्पाय़न उवाच:
ततोऽभ्यचोदय़त्कृष्णो युज्यतामिति दारुकम् |
१ क
वैशम्पाय़न उवाच:
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ||
१ ख
वैशम्पाय़न उवाच:
तथैव चानुय़ात्राणि चोदय़ामास पाण्डवः |
२ क
वैशम्पाय़न उवाच:
सज्जय़ध्वं प्रय़ास्यामो नगरं गजसाह्वय़म् ||
२ ख
वैशम्पाय़न उवाच:
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते |
३ क
वैशम्पाय़न उवाच:
आचख्युः सज्जमित्येव पार्थाय़ामिततेजसे ||
३ ख
वैशम्पाय़न उवाच:
ततस्तौ रथमास्थाय़ प्रय़ातौ कृष्णपाण्डवौ |
४ क
वैशम्पाय़न उवाच:
विकुर्वाणौ कथाश्चित्राः प्रीय़माणौ विशां पते ||
४ ख
वैशम्पाय़न उवाच:
रथस्थं तु महातेजा वासुदेवं धनञ्जय़ः |
५ क
वैशम्पाय़न उवाच:
पुनरेवाव्रवीद्वाक्यमिदं भरतसत्तम ||
५ ख
वैशम्पाय़न उवाच:
त्वत्प्रसादाज्जय़ः प्राप्तो राज्ञा वृष्णिकुलोद्वह |
६ क
वैशम्पाय़न उवाच:
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ||
६ ख
वैशम्पाय़न उवाच:
नाथवन्तश्च भवता पाण्डवा मधुसूदन |
७ क
वैशम्पाय़न उवाच:
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ||
७ ख
वैशम्पाय़न उवाच:
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव |
८ क
वैशम्पाय़न उवाच:
यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ||
८ ख
वैशम्पाय़न उवाच:
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन |
९ क
वैशम्पाय़न उवाच:
रतिः क्रीडामय़ी तुभ्यं माय़ा ते रोदसी विभो ||
९ ख
वैशम्पाय़न उवाच:
त्वय़ि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् |
१० क
वैशम्पाय़न उवाच:
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ||
१० ख
वैशम्पाय़न उवाच:
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् |
११ क
वैशम्पाय़न उवाच:
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रिय़ान्वय़ाः ||
११ ख
वैशम्पाय़न उवाच:
प्राणो वाय़ुः सततगः क्रोधो मृत्युः सनातनः |
१२ क
वैशम्पाय़न उवाच:
प्रसादे चापि पद्मा श्रीर्नित्यं त्वय़ि महामते ||
१२ ख
वैशम्पाय़न उवाच:
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वय़ि चेदं चराचरम् |
१३ क
वैशम्पाय़न उवाच:
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ||
१३ ख
वैशम्पाय़न उवाच:
सुदीर्घेणापि कालेन न ते शक्या गुणा मय़ा |
१४ क
वैशम्पाय़न उवाच:
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ||
१४ ख
वैशम्पाय़न उवाच:
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा |
१५ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नाच्चैव तथा कुरुपितामहात् ||
१५ ख
वैशम्पाय़न उवाच:
त्वय़ि सर्वं समासक्तं त्वमेवैको जनेश्वरः |
१६ क
वैशम्पाय़न उवाच:
यच्चानुग्रहसंय़ुक्तमेतदुक्तं त्वय़ानघ ||
१६ ख
वैशम्पाय़न उवाच:
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन |
१७ क
वैशम्पाय़न उवाच:
इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रिय़ेप्सय़ा ||
१७ ख
वैशम्पाय़न उवाच:
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः |
१८ क
वैशम्पाय़न उवाच:
त्वय़ा दग्धं हि तत्सैन्यं मय़ा विजितमाहवे ||
१८ ख
वैशम्पाय़न उवाच:
भवता तत्कृतं कर्म येनावाप्तो जय़ो मय़ा |
१९ क
वैशम्पाय़न उवाच:
दुर्योधनस्य सङ्ग्रामे तव वुद्धिपराक्रमैः ||
१९ ख
वैशम्पाय़न उवाच:
कर्णस्य च वधोपाय़ो यथावत्सम्प्रदर्शितः |
२० क
वैशम्पाय़न उवाच:
सैन्धवस्य च पापस्य भूरिश्रवस एव च ||
२० ख
वैशम्पाय़न उवाच:
अहं च प्रीय़माणेन त्वय़ा देवकिनन्दन |
२१ क
वैशम्पाय़न उवाच:
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ||
२१ ख
वैशम्पाय़न उवाच:
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् |
२२ क
वैशम्पाय़न उवाच:
चोदय़िष्यामि धर्मज्ञ गमनार्थं तवानघ ||
२२ ख
वैशम्पाय़न उवाच:
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो |
२३ क
वैशम्पाय़न उवाच:
अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन |
२३ ख
वैशम्पाय़न उवाच:
वलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुङ्गवान् ||
२३ ग
वैशम्पाय़न उवाच:
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वय़म् |
२४ क
वैशम्पाय़न उवाच:
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ||
२४ ख
वैशम्पाय़न उवाच:
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् |
२५ क
वैशम्पाय़न उवाच:
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ||
२५ ख
वैशम्पाय़न उवाच:
विदुरं च महावुद्धिं राजानं च युधिष्ठिरम् |
२६ क
वैशम्पाय़न उवाच:
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ |
२६ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रमुपासीनं युय़ुत्सुं चापराजितम् ||
२६ ग
वैशम्पाय़न उवाच:
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् |
२७ क
वैशम्पाय़न उवाच:
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रिय़स्तथा |
२७ ख
वैशम्पाय़न उवाच:
ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ||
२७ ग
वैशम्पाय़न उवाच:
ततः समेत्य राजानं धृतराष्ट्रमरिन्दमौ |
२८ क
वैशम्पाय़न उवाच:
निवेद्य नामधेय़े स्वे तस्य पादावगृह्णताम् ||
२८ ख
वैशम्पाय़न उवाच:
गान्धार्याश्च पृथाय़ाश्च धर्मराज्ञस्तथैव च |
२९ क
वैशम्पाय़न उवाच:
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ||
२९ ख
वैशम्पाय़न उवाच:
क्षत्तारं चापि सम्पूज्य पृष्ट्वा कुशलमव्ययम् |
३० क
वैशम्पाय़न उवाच:
तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ||
३० ख
वैशम्पाय़न उवाच:
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् |
३१ क
वैशम्पाय़न उवाच:
जनार्दनं च मेधावी व्यसर्जय़त वै गृहान् ||
३१ ख
वैशम्पाय़न उवाच:
तेऽनुज्ञाता नृपतिना यय़ुः स्वं स्वं निवेशनम् |
३२ क
वैशम्पाय़न उवाच:
धनञ्जय़गृहानेव यय़ौ कृष्णस्तु वीर्यवान् ||
३२ ख
वैशम्पाय़न उवाच:
तत्रार्चितो यथान्याय़ं सर्वकामैरुपस्थितः |
३३ क
वैशम्पाय़न उवाच:
कृष्णः सुष्वाप मेधावी धनञ्जय़सहाय़वान् ||
३३ ख
वैशम्पाय़न उवाच:
प्रभाताय़ां तु शर्वर्यां कृतपूर्वाह्णिकक्रिय़ौ |
३४ क
वैशम्पाय़न उवाच:
धर्मराजस्य भवनं जग्मतुः परमार्चितौ |
३४ ख
वैशम्पाय़न उवाच:
यत्रास्ते स सहामात्यो धर्मराजो महामनाः ||
३४ ग
वैशम्पाय़न उवाच:
ततस्तौ तत्प्रविश्याथ ददृशाते महावलौ |
३५ क
वैशम्पाय़न उवाच:
धर्मराजानमासीनं देवराजमिवाश्विनौ ||
३५ ख
वैशम्पाय़न उवाच:
तौ समासाद्य राजानं वार्ष्णेय़कुरुपुङ्गवौ |
३६ क
वैशम्पाय़न उवाच:
निषीदतुरनुज्ञातौ प्रीय़माणेन तेन वै ||
३६ ख
वैशम्पाय़न उवाच:
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ |
३७ क
वैशम्पाय़न उवाच:
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ||
३७ ख
वैशम्पाय़न उवाच:
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ |
३८ क
वैशम्पाय़न उवाच:
व्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ||
३८ ख
वैशम्पाय़न उवाच:
इत्युक्ते फल्गुनस्तत्र धर्मराजानमव्रवीत् |
३९ क
वैशम्पाय़न उवाच:
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ||
३९ ख
वैशम्पाय़न उवाच:
अय़ं चिरोषितो राजन्वासुदेवः प्रतापवान् |
४० क
वैशम्पाय़न उवाच:
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ||
४० ख
वैशम्पाय़न उवाच:
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे |
४१ क
वैशम्पाय़न उवाच:
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ||
४१ ख
युधिष्ठिर उवाच:
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन |
४२ क
युधिष्ठिर उवाच:
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ||
४२ ख
युधिष्ठिर उवाच:
रोचते मे महावाहो गमनं तव केशव |
४३ क
युधिष्ठिर उवाच:
मातुलश्चिरदृष्टो मे त्वय़ा देवी च देवकी ||
४३ ख
युधिष्ठिर उवाच:
मातुलं वसुदेवं त्वं वलदेवं च माधव |
४४ क
युधिष्ठिर उवाच:
पूजय़ेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ||
४४ ख
युधिष्ठिर उवाच:
स्मरेथाश्चापि मां नित्यं भीमं च वलिनां वरम् |
४५ क
युधिष्ठिर उवाच:
फल्गुनं नकुलं चैव सहदेवं च माधव ||
४५ ख
युधिष्ठिर उवाच:
आनर्तानवलोक्य त्वं पितरं च महाभुज |
४६ क
युधिष्ठिर उवाच:
वृष्णींश्च पुनरागच्छेर्हय़मेधे ममानघ ||
४६ ख
युधिष्ठिर उवाच:
स गच्छ रत्नान्यादाय़ विविधानि वसूनि च |
४७ क
युधिष्ठिर उवाच:
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ||
४७ ख
युधिष्ठिर उवाच:
इय़ं हि वसुधा सर्वा प्रसादात्तव माधव |
४८ क
युधिष्ठिर उवाच:
अस्मानुपगता वीर निहताश्चापि शत्रवः ||
४८ ख