chevron_left विराट पर्व अध्याय ५१
वैशम्पाय़न उवाच:
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् |
१ क
वैशम्पाय़न उवाच:
संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः ||
१ ख
वैशम्पाय़न उवाच:
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः |
२ क
वैशम्पाय़न उवाच:
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ||
२ ख
वैशम्पाय़न उवाच:
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् |
३ क
वैशम्पाय़न उवाच:
सहोपाय़ात्तदा राजन्विश्वाश्विमरुतां गणैः ||
३ ख
वैशम्पाय़न उवाच:
तद्देवय़क्षगन्धर्वमहोरगसमाकुलम् |
४ क
वैशम्पाय़न उवाच:
शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् ||
४ ख
वैशम्पाय़न उवाच:
अस्त्राणां च वलं तेषां मानुषेषु प्रय़ुज्यताम् |
५ क
वैशम्पाय़न उवाच:
तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे ||
५ ख
वैशम्पाय़न उवाच:
शतं शतसहस्राणां यत्र स्थूणा हिरण्मय़ाः |
६ क
वैशम्पाय़न उवाच:
मणिरत्नमय़ाश्चान्याः प्रासादमुपधारय़न् ||
६ ख
वैशम्पाय़न उवाच:
तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् |
७ क
वैशम्पाय़न उवाच:
विमानं देवराजस्य शुशुभे खेचरं तदा ||
७ ख
वैशम्पाय़न उवाच:
तत्र देवास्त्रय़स्त्रिंशत्तिष्ठन्ति सहवासवाः |
८ क
वैशम्पाय़न उवाच:
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ||
८ ख
वैशम्पाय़न उवाच:
तथा राजा वसुमना वलाक्षः सुप्रतर्दनः |
९ क
वैशम्पाय़न उवाच:
अष्टकश्च शिविश्चैव यय़ातिर्नहुषो गय़ः ||
९ ख
वैशम्पाय़न उवाच:
मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः |
१० क
वैशम्पाय़न उवाच:
विमाने देवराजस्य समदृश्यन्त सुप्रभाः ||
१० ख
वैशम्पाय़न उवाच:
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः |
११ क
वैशम्पाय़न उवाच:
तथा धातुर्विधातुश्च कुवेरस्य यमस्य च ||
११ ख
वैशम्पाय़न उवाच:
अलम्वुसोग्रसेनस्य गन्धर्वस्य च तुम्वुरोः |
१२ क
वैशम्पाय़न उवाच:
यथाभागं यथोद्देशं विमानानि चकाशिरे ||
१२ ख
वैशम्पाय़न उवाच:
सर्वदेवनिकाय़ाश्च सिद्धाश्च परमर्षय़ः |
१३ क
वैशम्पाय़न उवाच:
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ||
१३ ख
वैशम्पाय़न उवाच:
दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः |
१४ क
वैशम्पाय़न उवाच:
प्रससार वसन्ताग्रे वनानामिव पुष्पिताम् ||
१४ ख
वैशम्पाय़न उवाच:
रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् |
१५ क
वैशम्पाय़न उवाच:
आतपत्राणि वासांसि स्रजश्च व्यजनानि च ||
१५ ख
वैशम्पाय़न उवाच:
उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः |
१६ क
वैशम्पाय़न उवाच:
दिव्यान्गन्धानुपादाय़ वाय़ुर्योधानसेवत ||
१६ ख
वैशम्पाय़न उवाच:
प्रभासितमिवाकाशं चित्ररूपमलङ्कृतम् |
१७ क
वैशम्पाय़न उवाच:
सम्पतद्भिः स्थितैश्चैव नानारत्नावभासितैः |
१७ ख
वैशम्पाय़न उवाच:
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ||
१७ ग