सञ्जय़ उवाच:
गतापराह्णभूय़िष्ठे तस्मिन्नहनि भारत |
१ क
सञ्जय़ उवाच:
रथनागाश्वपत्तीनां सादिनां च महाक्षय़े ||
१ ख
सञ्जय़ उवाच:
द्रोणपुत्रेण शल्येन कृपेण च महात्मना |
२ क
सञ्जय़ उवाच:
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ||
२ ख
सञ्जय़ उवाच:
स लोकविदितानश्वान्निजघान महावलः |
३ क
सञ्जय़ उवाच:
द्रौणेः पाञ्चालदाय़ादः शितैर्दशभिराशुगैः ||
३ ख
सञ्जय़ उवाच:
ततः शल्यरथं तूर्णमास्थाय़ हतवाहनः |
४ क
सञ्जय़ उवाच:
द्रौणिः पाञ्चालदाय़ादमभ्यवर्षदथेषुभिः ||
४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत |
५ क
सञ्जय़ उवाच:
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ||
५ ख
सञ्जय़ उवाच:
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः |
६ क
सञ्जय़ उवाच:
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ||
६ ख
सञ्जय़ उवाच:
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा |
७ क
सञ्जय़ उवाच:
शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ||
७ ख
सञ्जय़ उवाच:
लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् |
८ क
सञ्जय़ उवाच:
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ||
८ ख
सञ्जय़ उवाच:
दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः |
९ क
सञ्जय़ उवाच:
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ||
९ ख
सञ्जय़ उवाच:
अभिमन्युस्तु सङ्क्रुद्धो भ्रातरं भरतर्षभ |
१० क
सञ्जय़ उवाच:
शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ||
१० ख
सञ्जय़ उवाच:
लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा |
११ क
सञ्जय़ उवाच:
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः ||
११ ख
सञ्जय़ उवाच:
तद्विहाय़ धनुश्छिन्नं सौभद्रः परवीरहा |
१२ क
सञ्जय़ उवाच:
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ||
१२ ख
सञ्जय़ उवाच:
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ |
१३ क
सञ्जय़ उवाच:
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ||
१३ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् |
१४ क
सञ्जय़ उवाच:
पीडितं तव पौत्रेण प्राय़ात्तत्र जनेश्वरः ||
१४ ख
सञ्जय़ उवाच:
संनिवृत्ते तव सुते सर्व एव जनाधिपाः |
१५ क
सञ्जय़ उवाच:
आर्जुनिं रथवंशेन समन्तात्पर्यवारय़न् ||
१५ ख
सञ्जय़ उवाच:
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जय़ैः |
१६ क
सञ्जय़ उवाच:
न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ||
१६ ख
सञ्जय़ उवाच:
सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जय़ः |
१७ क
सञ्जय़ उवाच:
अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् ||
१७ ख
सञ्जय़ उवाच:
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः |
१८ क
सञ्जय़ उवाच:
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ||
१८ ख
सञ्जय़ उवाच:
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः |
१९ क
सञ्जय़ उवाच:
दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ||
१९ ख
सञ्जय़ उवाच:
तानि नागसहस्राणि भूमिपालशतानि च |
२० क
सञ्जय़ उवाच:
तस्य वाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ||
२० ख
सञ्जय़ उवाच:
प्रणेदुः सर्वभूतानि वभूवुस्तिमिरा दिशः |
२१ क
सञ्जय़ उवाच:
कुरूणामनय़स्तीव्रः समदृश्यत दारुणः ||
२१ ख
सञ्जय़ उवाच:
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः |
२२ क
सञ्जय़ उवाच:
प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः ||
२२ ख
सञ्जय़ उवाच:
सादितध्वजनागास्तु हताश्वा रथिनो भृशम् |
२३ क
सञ्जय़ उवाच:
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथय़ूथपाः ||
२३ ख
सञ्जय़ उवाच:
विरथा रथिनश्चान्ये धावमानाः समन्ततः |
२४ क
सञ्जय़ उवाच:
तत्र तत्रैव दृश्यन्ते साय़ुधाः साङ्गदैर्भुजैः ||
२४ ख
सञ्जय़ उवाच:
हय़ारोहा हय़ांस्त्यक्त्वा गजारोहाश्च दन्तिनः |
२५ क
सञ्जय़ उवाच:
अर्जुनस्य भय़ाद्राजन्समन्ताद्विप्रदुद्रुवुः ||
२५ ख
सञ्जय़ उवाच:
रथेभ्यश्च गजेभ्यश्च हय़ेभ्यश्च नराधिपाः |
२६ क
सञ्जय़ उवाच:
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ||
२६ ख
सञ्जय़ उवाच:
सगदानुद्यतान्वाहून्सखड्गांश्च विशां पते |
२७ क
सञ्जय़ उवाच:
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ||
२७ ख
सञ्जय़ उवाच:
साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् |
२८ क
सञ्जय़ उवाच:
निचकर्त शरैरुग्रै रौद्रं विभ्रद्वपुस्तदा ||
२८ ख
सञ्जय़ उवाच:
परिघाणां प्रवृद्धानां मुद्गराणां च मारिष |
२९ क
सञ्जय़ उवाच:
प्रासानां भिण्डिपालानां निस्त्रिंशानां च संय़ुगे ||
२९ ख
सञ्जय़ उवाच:
परश्वधानां तीक्ष्णानां तोमराणां च भारत |
३० क
सञ्जय़ उवाच:
वर्मणां चापविद्धानां कवचानां च भूतले ||
३० ख
सञ्जय़ उवाच:
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः |
३१ क
सञ्जय़ उवाच:
छत्राणां हेमदण्डानां चामराणां च भारत ||
३१ ख
सञ्जय़ उवाच:
प्रतोदानां कशानां च योक्त्राणां चैव मारिष |
३२ क
सञ्जय़ उवाच:
राशय़श्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ||
३२ ख
सञ्जय़ उवाच:
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत |
३३ क
सञ्जय़ उवाच:
योऽर्जुनं समरे शूरं प्रत्युद्याय़ात्कथञ्चन ||
३३ ख
सञ्जय़ उवाच:
यो यो हि समरे पार्थं पत्युद्याति विशां पते |
३४ क
सञ्जय़ उवाच:
स स वै विशिखैस्तीक्ष्णैः परलोकाय़ नीय़ते ||
३४ ख
सञ्जय़ उवाच:
तेषु विद्रवमाणेषु तव योधेषु सर्वशः |
३५ क
सञ्जय़ उवाच:
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ||
३५ ख
सञ्जय़ उवाच:
तत्प्रभग्नं वलं दृष्ट्वा पिता देवव्रतस्तव |
३६ क
सञ्जय़ उवाच:
अव्रवीत्समरे शूरं भारद्वाजं स्मय़न्निव ||
३६ ख
सञ्जय़ उवाच:
एष पाण्डुसुतो वीरः कृष्णेन सहितो वली |
३७ क
सञ्जय़ उवाच:
तथा करोति सैन्यानि यथा कुर्याद्धनञ्जय़ः ||
३७ ख
सञ्जय़ उवाच:
न ह्येष समरे शक्यो जेतुमद्य कथञ्चन |
३८ क
सञ्जय़ उवाच:
यथास्य दृश्यते रूपं कालान्तकय़मोपमम् ||
३८ ख
सञ्जय़ उवाच:
न निवर्तय़ितुं चापि शक्येय़ं महती चमूः |
३९ क
सञ्जय़ उवाच:
अन्योन्यप्रेक्षय़ा पश्य द्रवतीय़ं वरूथिनी ||
३९ ख
सञ्जय़ उवाच:
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते |
४० क
सञ्जय़ उवाच:
वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ||
४० ख
सञ्जय़ उवाच:
तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ |
४१ क
सञ्जय़ उवाच:
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ||
४१ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् |
४२ क
सञ्जय़ उवाच:
अवहारमथो चक्रे तावकानां महारथः ||
४२ ख
सञ्जय़ उवाच:
ततोऽवहारः सैन्यानां तव तेषां च भारत |
४३ क
सञ्जय़ उवाच:
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ||
४३ ख