युधिष्ठिर उवाच:
त्वय़ि याते महावाहो संशप्तकवलं प्रति |
१ क
युधिष्ठिर उवाच:
प्रय़त्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ||
१ ख
युधिष्ठिर उवाच:
व्याढानीकं वय़ं द्रोणं वरय़ामः स्म सर्वशः |
२ क
युधिष्ठिर उवाच:
प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ||
२ ख
युधिष्ठिर उवाच:
स वार्यमाणो रथिभी रक्षितेन मय़ा तथा |
३ क
युधिष्ठिर उवाच:
अस्मानपि जघानाशु पीडय़न्निशितैः शरैः ||
३ ख
युधिष्ठिर उवाच:
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः |
४ क
युधिष्ठिर उवाच:
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ||
४ ख
युधिष्ठिर उवाच:
वय़ं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् |
५ क
युधिष्ठिर उवाच:
उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ||
५ ख
युधिष्ठिर उवाच:
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् |
६ क
युधिष्ठिर उवाच:
असह्यमपि तं भारं वोढुमेवोपचक्रमे ||
६ ख
युधिष्ठिर उवाच:
स तवास्त्रोपदेशेन वीर्येण च समन्वितः |
७ क
युधिष्ठिर उवाच:
प्राविशत्तद्वलं वालः सुपर्ण इव सागरम् ||
७ ख
युधिष्ठिर उवाच:
तेऽनुय़ाता वय़ं वीरं सात्वतीपुत्रमाहवे |
८ क
युधिष्ठिर उवाच:
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ||
८ ख
युधिष्ठिर उवाच:
ततः सैन्धवको राजा क्षुद्रस्तात जय़द्रथः |
९ क
युधिष्ठिर उवाच:
वरदानेन रुद्रस्य सर्वान्नः समवारय़त् ||
९ ख
युधिष्ठिर उवाच:
ततो द्रोणः कृपः कर्णो द्रौणिश्च स वृहद्वलः |
१० क
युधिष्ठिर उवाच:
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारय़न् ||
१० ख
युधिष्ठिर उवाच:
परिवार्य तु तैः सर्वैर्युधि वालो महारथैः |
११ क
युधिष्ठिर उवाच:
यतमानः परं शक्त्या वहुभिर्विरथीकृतः ||
११ ख
युधिष्ठिर उवाच:
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् |
१२ क
युधिष्ठिर उवाच:
संशय़ं परमं प्राप्य दिष्टान्तेनाभ्ययोजय़त् ||
१२ ख
युधिष्ठिर उवाच:
स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् |
१३ क
युधिष्ठिर उवाच:
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्वहून् ||
१३ ख
युधिष्ठिर उवाच:
वृहद्वलं च राजानं स्वर्गेणाजौ प्रय़ोज्य ह |
१४ क
युधिष्ठिर उवाच:
ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ||
१४ ख
युधिष्ठिर उवाच:
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् |
१५ क
युधिष्ठिर उवाच:
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ||
१५ ख
सञ्जय़ उवाच:
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् |
१६ क
सञ्जय़ उवाच:
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ||
१६ ख
सञ्जय़ उवाच:
विषण्णवदनाः सर्वे परिगृह्य धनञ्जय़म् |
१७ क
सञ्जय़ उवाच:
नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् ||
१७ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्छितः |
१८ क
सञ्जय़ उवाच:
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ||
१८ ख
सञ्जय़ उवाच:
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् |
१९ क
सञ्जय़ उवाच:
उन्मत्त इव विप्रेक्षन्निदं वचनमव्रवीत् ||
१९ ख
सञ्जय़ उवाच:
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जय़द्रथम् |
२० क
सञ्जय़ उवाच:
न चेद्वधभय़ाद्भीतो धार्तराष्ट्रान्प्रहास्यति ||
२० ख
सञ्जय़ उवाच:
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् |
२१ क
सञ्जय़ उवाच:
भवन्तं वा महाराज श्वोऽस्मि हन्ता जय़द्रथम् ||
२१ ख
सञ्जय़ उवाच:
धार्तराष्ट्रप्रिय़करं मय़ि विस्मृतसौहृदम् |
२२ क
सञ्जय़ उवाच:
पापं वालवधे हेतुं श्वोऽस्मि हन्ता जय़द्रथम् ||
२२ ख
सञ्जय़ उवाच:
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन |
२३ क
सञ्जय़ उवाच:
अपि द्रोणकृपौ वीरौ छादय़िष्यामि ताञ्शरैः ||
२३ ख
सञ्जय़ उवाच:
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः |
२४ क
सञ्जय़ उवाच:
मा स्म पुण्यकृतां लोकान्प्राप्नुय़ां शूरसंमतान् ||
२४ ख
सञ्जय़ उवाच:
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् |
२५ क
सञ्जय़ उवाच:
गुरुदारगामिनां ये च पिशुनानां च ये तथा ||
२५ ख
सञ्जय़ उवाच:
साधूनसूय़तां ये च ये चापि परिवादिनाम् |
२६ क
सञ्जय़ उवाच:
ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ||
२६ ख
सञ्जय़ उवाच:
भुक्तपूर्वां स्त्रिय़ं ये च निन्दतामघशंसिनाम् |
२७ क
सञ्जय़ उवाच:
व्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ||
२७ ख
सञ्जय़ उवाच:
पाय़सं वा यवान्नं वा शाकं कृसरमेव वा |
२८ क
सञ्जय़ उवाच:
संय़ावापूपमांसानि ये च लोका वृथाश्नताम् |
२८ ख
सञ्जय़ उवाच:
तानह्नैवाधिगच्छेय़ं न चेद्धन्यां जय़द्रथम् ||
२८ ग
सञ्जय़ उवाच:
वेदाध्याय़िनमत्यर्थं संशितं वा द्विजोत्तमम् |
२९ क
सञ्जय़ उवाच:
अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् ||
२९ ख
सञ्जय़ उवाच:
स्पृशतां व्राह्मणं गां च पादेनाग्निं च यां लभेत् |
३० क
सञ्जय़ उवाच:
याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः |
३० ख
सञ्जय़ उवाच:
तां गच्छेय़ं गतिं घोरां न चेद्धन्यां जय़द्रथम् ||
३० ग
सञ्जय़ उवाच:
नग्नस्य स्नाय़मानस्य या च वन्ध्यातिथेर्गतिः |
३१ क
सञ्जय़ उवाच:
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः |
३१ ख
सञ्जय़ उवाच:
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ||
३१ ग
सञ्जय़ उवाच:
भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा |
३२ क
सञ्जय़ उवाच:
असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् |
३२ ख
सञ्जय़ उवाच:
तां गच्छेय़ं गतिं घोरां न चेद्धन्यां जय़द्रथम् ||
३२ ग
सञ्जय़ उवाच:
संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् |
३३ क
सञ्जय़ उवाच:
न विभर्ति नृशंसात्मा निन्दते चोपकारिणम् ||
३३ ख
सञ्जय़ उवाच:
अर्हते प्रातिवेश्याय़ श्राद्धं यो न ददाति च |
३४ क
सञ्जय़ उवाच:
अनर्हते च यो दद्याद्वृषलीपत्युरेव च ||
३४ ख
सञ्जय़ उवाच:
मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः |
३५ क
सञ्जय़ उवाच:
तेषां गतिमिय़ां क्षिप्रं न चेद्धन्यां जय़द्रथम् ||
३५ ख
सञ्जय़ उवाच:
धर्मादपेता ये चान्ये मय़ा नात्रानुकीर्तिताः |
३६ क
सञ्जय़ उवाच:
ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुय़ाम् |
३६ ख
सञ्जय़ उवाच:
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जय़द्रथम् ||
३६ ग
सञ्जय़ उवाच:
इमां चाप्यपरां भूय़ः प्रतिज्ञां मे निवोधत |
३७ क
सञ्जय़ उवाच:
यद्यस्मिन्नहते पापे सूर्योऽस्तमुपय़ास्यति |
३७ ख
सञ्जय़ उवाच:
इहैव सम्प्रवेष्टाहं ज्वलितं जातवेदसम् ||
३७ ग
सञ्जय़ उवाच:
असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा व्रह्मदेवर्षय़ो वा |
३८ क
सञ्जय़ उवाच:
चरमचरमपीदं यत्परं चापि तस्मा; त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ||
३८ ख
सञ्जय़ उवाच:
यदि विशति रसातलं तदग्र्यं; विय़दपि देवपुरं दितेः पुरं वा |
३९ क
सञ्जय़ उवाच:
तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता ||
३९ ख
सञ्जय़ उवाच:
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् |
४० क
सञ्जय़ उवाच:
तस्य शव्दमतिक्रम्य धनुःशव्दोऽस्पृशद्दिवम् ||
४० ख
सञ्जय़ उवाच:
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः |
४१ क
सञ्जय़ उवाच:
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जय़ः ||
४१ ख
सञ्जय़ उवाच:
स पाञ्चजन्योऽच्युतवक्त्रवाय़ुना; भृशं सुपूर्णोदरनिःसृतध्वनिः |
४२ क
सञ्जय़ उवाच:
जगत्सपातालविय़द्दिगीश्वरं; प्रकम्पय़ामास युगात्यये यथा ||
४२ ख
सञ्जय़ उवाच:
ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः |
४३ क
सञ्जय़ उवाच:
सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना ||
४३ ख