chevron_left शल्य पर्व अध्याय ५१
जनमेजय़ उवाच:
कथं कुमारी भगवंस्तपोय़ुक्ता ह्यभूत्पुरा |
१ क
जनमेजय़ उवाच:
किमर्थं च तपस्तेपे को वास्या निय़मोऽभवत् ||
१ ख
जनमेजय़ उवाच:
सुदुष्करमिदं व्रह्मंस्त्वत्तः श्रुतमनुत्तमम् |
२ क
जनमेजय़ उवाच:
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ||
२ ख
वैशम्पाय़न उवाच:
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महाय़शाः |
३ क
वैशम्पाय़न उवाच:
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः |
३ ख
वैशम्पाय़न उवाच:
मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ||
३ ग
वैशम्पाय़न उवाच:
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महाय़शाः |
४ क
वैशम्पाय़न उवाच:
जगाम त्रिदिवं राजन्सन्त्यज्येह कलेवरम् ||
४ ख
वैशम्पाय़न उवाच:
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा |
५ क
वैशम्पाय़न उवाच:
महता तपसोग्रेण कृत्वाश्रममनिन्दिता ||
५ ख
वैशम्पाय़न उवाच:
उपवासैः पूजय़न्ती पितॄन्देवांश्च सा पुरा |
६ क
वैशम्पाय़न उवाच:
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ||
६ ख
वैशम्पाय़न उवाच:
सा पित्रा दीय़मानापि भर्त्रे नैच्छदनिन्दिता |
७ क
वैशम्पाय़न उवाच:
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ||
७ ख
वैशम्पाय़न उवाच:
ततः सा तपसोग्रेण पीडय़ित्वात्मनस्तनुम् |
८ क
वैशम्पाय़न उवाच:
पितृदेवार्चनरता वभूव विजने वने ||
८ ख
वैशम्पाय़न उवाच:
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता |
९ क
वैशम्पाय़न उवाच:
वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता ||
९ ख
वैशम्पाय़न उवाच:
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वय़म् |
१० क
वैशम्पाय़न उवाच:
चकार गमने वुद्धिं परलोकाय़ वै तदा ||
१० ख
वैशम्पाय़न उवाच:
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽव्रवीत् |
११ क
वैशम्पाय़न उवाच:
असंस्कृताय़ाः कन्याय़ाः कुतो लोकास्तवानघे ||
११ ख
वैशम्पाय़न उवाच:
एवं हि श्रुतमस्माभिर्देवलोके महाव्रते |
१२ क
वैशम्पाय़न उवाच:
तपः परमकं प्राप्तं न तु लोकास्त्वय़ा जिताः ||
१२ ख
वैशम्पाय़न उवाच:
तन्नारदवचः श्रुत्वा साव्रवीदृषिसंसदि |
१३ क
वैशम्पाय़न उवाच:
तपसोऽर्धं प्रय़च्छामि पाणिग्राहस्य सत्तमाः ||
१३ ख
वैशम्पाय़न उवाच:
इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः |
१४ क
वैशम्पाय़न उवाच:
ऋषिः प्राक्षृङ्गवान्नाम समय़ं चेदमव्रवीत् ||
१४ ख
वैशम्पाय़न उवाच:
समय़ेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने |
१५ क
वैशम्पाय़न उवाच:
यद्येकरात्रं वस्तव्यं त्वय़ा सह मय़ेति ह ||
१५ ख
वैशम्पाय़न उवाच:
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा |
१६ क
वैशम्पाय़न उवाच:
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ||
१६ ख
वैशम्पाय़न उवाच:
सा रात्रावभवद्राजंस्तरुणी देववर्णिनी |
१७ क
वैशम्पाय़न उवाच:
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना ||
१७ ख
वैशम्पाय़न उवाच:
तां दृष्ट्वा गालविः प्रीतो दीपय़न्तीमिवात्मना |
१८ क
वैशम्पाय़न उवाच:
उवास च क्षपामेकां प्रभाते साव्रवीच्च तम् ||
१८ ख
वैशम्पाय़न उवाच:
यस्त्वय़ा समय़ो विप्र कृतो मे तपतां वर |
१९ क
वैशम्पाय़न उवाच:
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ||
१९ ख
वैशम्पाय़न उवाच:
सानुज्ञाताव्रवीद्भूय़ो योऽस्मिंस्तीर्थे समाहितः |
२० क
वैशम्पाय़न उवाच:
वत्स्यते रजनीमेकां तर्पय़ित्वा दिवौकसः ||
२० ख
वैशम्पाय़न उवाच:
चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् |
२१ क
वैशम्पाय़न उवाच:
यो व्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः |
२१ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ||
२१ ग
वैशम्पाय़न उवाच:
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तय़न् |
२२ क
वैशम्पाय़न उवाच:
समय़ेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ||
२२ ख
वैशम्पाय़न उवाच:
साधय़ित्वा तदात्मानं तस्याः स गतिमन्वय़ात् |
२३ क
वैशम्पाय़न उवाच:
दुःखितो भरतश्रेष्ठ तस्या रूपवलात्कृतः |
२३ ख
वैशम्पाय़न उवाच:
एतत्ते वृद्धकन्याय़ा व्याख्यातं चरितं महत् ||
२३ ग
वैशम्पाय़न उवाच:
तत्रस्थश्चापि शुश्राव हतं शल्यं हलाय़ुधः |
२४ क
वैशम्पाय़न उवाच:
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तप |
२४ ख
वैशम्पाय़न उवाच:
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ||
२४ ग
वैशम्पाय़न उवाच:
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः |
२५ क
वैशम्पाय़न उवाच:
पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् ||
२५ ख
वैशम्पाय़न उवाच:
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो |
२६ क
वैशम्पाय़न उवाच:
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ||
२६ ख