chevron_left शान्ति पर्व अध्याय ५२
वैशम्पाय़न उवाच:
ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् |
१ क
वैशम्पाय़न उवाच:
श्रुत्वा शान्तनवो भीष्मः प्रत्युवाच कृताञ्जलिः ||
१ ख
वैशम्पाय़न उवाच:
लोकनाथ महावाहो शिव नाराय़णाच्युत |
२ क
वैशम्पाय़न उवाच:
तव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः ||
२ ख
वैशम्पाय़न उवाच:
किं चाहमभिधास्यामि वाक्पते तव संनिधौ |
३ क
वैशम्पाय़न उवाच:
यदा वाचोगतं सर्वं तव वाचि समाहितम् ||
३ ख
वैशम्पाय़न उवाच:
यद्धि किञ्चित्कृतं लोके कर्तव्यं क्रिय़ते च यत् |
४ क
वैशम्पाय़न उवाच:
त्वत्तस्तन्निःसृतं देव लोका वुद्धिमय़ा हि ते ||
४ ख
वैशम्पाय़न उवाच:
कथय़ेद्देवलोकं यो देवराजसमीपतः |
५ क
वैशम्पाय़न उवाच:
धर्मकामार्थशास्त्राणां सोऽर्थान्व्रूय़ात्तवाग्रतः ||
५ ख
वैशम्पाय़न उवाच:
शराभिघाताद्व्यथितं मनो मे मधुसूदन |
६ क
वैशम्पाय़न उवाच:
गात्राणि चावसीदन्ति न च वुद्धिः प्रसीदति ||
६ ख
वैशम्पाय़न उवाच:
न च मे प्रतिभा काचिदस्ति किञ्चित्प्रभाषितुम् |
७ क
वैशम्पाय़न उवाच:
पीड्यमानस्य गोविन्द विषानलसमैः शरैः ||
७ ख
वैशम्पाय़न उवाच:
वलं मेधाः प्रजरति प्राणाः सन्त्वरय़न्ति च |
८ क
वैशम्पाय़न उवाच:
मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च ||
८ ख
वैशम्पाय़न उवाच:
दौर्वल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे |
९ क
वैशम्पाय़न उवाच:
साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन ||
९ ख
वैशम्पाय़न उवाच:
तत्क्षमस्व महावाहो न व्रूय़ां किञ्चिदच्युत |
१० क
वैशम्पाय़न उवाच:
त्वत्संनिधौ च सीदेत वाचस्पतिरपि व्रुवन् ||
१० ख
वैशम्पाय़न उवाच:
न दिशः सम्प्रजानामि नाकाशं न च मेदिनीम् |
११ क
वैशम्पाय़न उवाच:
केवलं तव वीर्येण तिष्ठामि मधुसूदन ||
११ ख
वैशम्पाय़न उवाच:
स्वय़मेव प्रभो तस्माद्धर्मराजस्य यद्धितम् |
१२ क
वैशम्पाय़न उवाच:
तद्व्रवीह्याशु सर्वेषामागमानां त्वमागमः ||
१२ ख
वैशम्पाय़न उवाच:
कथं त्वय़ि स्थिते लोके शाश्वते लोककर्तरि |
१३ क
वैशम्पाय़न उवाच:
प्रव्रूय़ान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ||
१३ ख
वासुदेव उवाच:
उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे |
१४ क
वासुदेव उवाच:
महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि ||
१४ ख
वासुदेव उवाच:
यच्च मामात्थ गाङ्गेय़ वाणघातरुजं प्रति |
१५ क
वासुदेव उवाच:
गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो ||
१५ ख
वासुदेव उवाच:
न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा |
१६ क
वासुदेव उवाच:
प्रभविष्यन्ति गाङ्गेय़ क्षुत्पिपासे न चाप्युत ||
१६ ख
वासुदेव उवाच:
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ |
१७ क
वासुदेव उवाच:
न च ते क्वचिदासक्तिर्वुद्धेः प्रादुर्भविष्यति ||
१७ ख
वासुदेव उवाच:
सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति |
१८ क
वासुदेव उवाच:
रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् ||
१८ ख
वासुदेव उवाच:
यद्यच्च धर्मसंय़ुक्तमर्थय़ुक्तमथापि वा |
१९ क
वासुदेव उवाच:
चिन्तय़िष्यसि तत्राग्र्या वुद्धिस्तव भविष्यति ||
१९ ख
वासुदेव उवाच:
इमं च राजशार्दूल भूतग्रामं चतुर्विधम् |
२० क
वासुदेव उवाच:
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ||
२० ख
वासुदेव उवाच:
चतुर्विधं प्रजाजालं संय़ुक्तो ज्ञानचक्षुषा |
२१ क
वासुदेव उवाच:
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ||
२१ ख
वैशम्पाय़न उवाच:
ततस्ते व्याससहिताः सर्व एव महर्षय़ः |
२२ क
वैशम्पाय़न उवाच:
ऋग्यजुःसामसंय़ुक्तैर्वचोभिः कृष्णमर्चय़न् ||
२२ ख
वैशम्पाय़न उवाच:
ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् |
२३ क
वैशम्पाय़न उवाच:
पपात यत्र वार्ष्णेय़ः सगाङ्गेय़ः सपाण्डवः ||
२३ ख
वैशम्पाय़न उवाच:
वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः |
२४ क
वैशम्पाय़न उवाच:
न चाहितमनिष्टं वा किञ्चित्तत्र व्यदृश्यत ||
२४ ख
वैशम्पाय़न उवाच:
ववौ शिवः सुखो वाय़ुः सर्वगन्धवहः शुचिः |
२५ क
वैशम्पाय़न उवाच:
शान्ताय़ां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः ||
२५ ख
वैशम्पाय़न उवाच:
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः |
२६ क
वैशम्पाय़न उवाच:
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ||
२६ ख
वैशम्पाय़न उवाच:
ततो महर्षय़ः सर्वे समुत्थाय़ जनार्दनम् |
२७ क
वैशम्पाय़न उवाच:
भीष्ममामन्त्रय़ां चक्रू राजानं च युधिष्ठिरम् ||
२७ ख
वैशम्पाय़न उवाच:
ततः प्रणाममकरोत्केशवः पाण्डवस्तथा |
२८ क
वैशम्पाय़न उवाच:
सात्यकिः सञ्जय़श्चैव स च शारद्वतः कृपः ||
२८ ख
वैशम्पाय़न उवाच:
ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः |
२९ क
वैशम्पाय़न उवाच:
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता यय़ुः ||
२९ ख
वैशम्पाय़न उवाच:
तथैवामन्त्र्य गाङ्गेय़ं केशवस्ते च पाण्डवाः |
३० क
वैशम्पाय़न उवाच:
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ||
३० ख
वैशम्पाय़न उवाच:
ततो रथैः काञ्चनदन्तकूवरै; र्महीधराभैः समदैश्च दन्तिभिः |
३१ क
वैशम्पाय़न उवाच:
हय़ैः सुपर्णैरिव चाशुगामिभिः; पदातिभिश्चात्तशरासनादिभिः ||
३१ ख
वैशम्पाय़न उवाच:
यय़ौ रथानां पुरतो हि सा चमू; स्तथैव पश्चादतिमात्रसारिणी |
३२ क
वैशम्पाय़न उवाच:
पुरश्च पश्चाच्च यथा महानदी; पुरर्क्षवन्तं गिरिमेत्य नर्मदा ||
३२ ख
वैशम्पाय़न उवाच:
ततः पुरस्ताद्भगवान्निशाकरः; समुत्थितस्तामभिहर्षय़ंश्चमूम् |
३३ क
वैशम्पाय़न उवाच:
दिवाकरापीतरसास्तथौषधीः; पुनः स्वकेनैव गुणेन योजय़न् ||
३३ ख
वैशम्पाय़न उवाच:
ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास्तदा |
३४ क
वैशम्पाय़न उवाच:
यथोचितान्भवनवरान्समाविश; ञ्श्रमान्विता मृगपतय़ो गुहा इव ||
३४ ख