वैशम्पाय़न उवाच:
तथा प्रय़ान्तं वार्ष्णेय़ं द्वारकां भरतर्षभाः |
१ क
वैशम्पाय़न उवाच:
परिष्वज्य न्यवर्तन्त सानुय़ात्राः परन्तपाः ||
१ ख
वैशम्पाय़न उवाच:
पुनः पुनश्च वार्ष्णेय़ं पर्यष्वजत फल्गुनः |
२ क
वैशम्पाय़न उवाच:
आ चक्षुर्विषय़ाच्चैनं ददर्श च पुनः पुनः ||
२ ख
वैशम्पाय़न उवाच:
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् |
३ क
वैशम्पाय़न उवाच:
सञ्जहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ||
३ ख
वैशम्पाय़न उवाच:
तस्य प्रय़ाणे यान्यासन्निमित्तानि महात्मनः |
४ क
वैशम्पाय़न उवाच:
वहून्यद्भुतरूपाणि तानि मे गदतः शृणु ||
४ ख
वैशम्पाय़न उवाच:
वाय़ुर्वेगेन महता रथस्य पुरतो ववौ |
५ क
वैशम्पाय़न उवाच:
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ||
५ ख
वैशम्पाय़न उवाच:
ववर्ष वासवश्चापि तोय़ं शुचि सुगन्धि च |
६ क
वैशम्पाय़न उवाच:
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ||
६ ख
वैशम्पाय़न उवाच:
स प्रय़ातो महावाहुः समेषु मरुधन्वसु |
७ क
वैशम्पाय़न उवाच:
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ||
७ ख
वैशम्पाय़न उवाच:
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः |
८ क
वैशम्पाय़न उवाच:
पूजितस्तेन च तदा पर्यपृच्छदनामय़म् ||
८ ख
वैशम्पाय़न उवाच:
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् |
९ क
वैशम्पाय़न उवाच:
उत्तङ्को व्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ||
९ ख
वैशम्पाय़न उवाच:
कच्चिच्छौरे त्वय़ा गत्वा कुरुपाण्डवसद्म तत् |
१० क
वैशम्पाय़न उवाच:
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ||
१० ख
वैशम्पाय़न उवाच:
अभिसन्धाय़ तान्वीरानुपावृत्तोऽसि केशव |
११ क
वैशम्पाय़न उवाच:
सम्वन्धिनः सुदय़ितान्सततं वृष्णिपुङ्गव ||
११ ख
वैशम्पाय़न उवाच:
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः |
१२ क
वैशम्पाय़न उवाच:
लोकेषु विहरिष्यन्ति त्वय़ा सह परन्तप ||
१२ ख
वैशम्पाय़न उवाच:
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् |
१३ क
वैशम्पाय़न उवाच:
कौरवेषु प्रशान्तेषु त्वय़ा नाथेन माधव ||
१३ ख
वैशम्पाय़न उवाच:
या मे सम्भावना तात त्वय़ि नित्यमवर्तत |
१४ क
वैशम्पाय़न उवाच:
अपि सा सफला कृष्ण कृता ते भरतान्प्रति ||
१४ ख
वासुदेव उवाच:
कृतो यत्नो मय़ा व्रह्मन्सौभ्रात्रे कौरवान्प्रति |
१५ क
वासुदेव उवाच:
न चाशक्यन्त सन्धातुं तेऽधर्मरुचय़ो मय़ा ||
१५ ख
वासुदेव उवाच:
ततस्ते निधनं प्राप्ताः सर्वे ससुतवान्धवाः |
१६ क
वासुदेव उवाच:
न दिष्टमभ्यतिक्रान्तुं शक्यं वुद्ध्या वलेन वा |
१६ ख
वासुदेव उवाच:
महर्षे विदितं नूनं सर्वमेतत्तवानघ ||
१६ ग
वासुदेव उवाच:
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च |
१७ क
वासुदेव उवाच:
ततो यमक्षय़ं जग्मुः समासाद्येतरेतरम् ||
१७ ख
वासुदेव उवाच:
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः |
१८ क
वासुदेव उवाच:
धार्तराष्ट्राश्च निहताः सर्वे ससुतवान्धवाः ||
१८ ख
वासुदेव उवाच:
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः |
१९ क
वासुदेव उवाच:
उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ||
१९ ख
वासुदेव उवाच:
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः |
२० क
वासुदेव उवाच:
सम्वन्धिनः प्रिय़ास्तस्माच्छप्स्येऽहं त्वामसंशय़म् ||
२० ख
वासुदेव उवाच:
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः |
२१ क
वासुदेव उवाच:
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ||
२१ ख
वासुदेव उवाच:
त्वय़ा हि शक्तेन सता मिथ्याचारेण माधव |
२२ क
वासुदेव उवाच:
उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ||
२२ ख
वासुदेव उवाच:
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन |
२३ क
वासुदेव उवाच:
गृहाणानुनय़ं चापि तपस्वी ह्यसि भार्गव ||
२३ ख
वासुदेव उवाच:
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै |
२४ क
वासुदेव उवाच:
न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ||
२४ ख
वासुदेव उवाच:
न च ते तपसो नाशमिच्छामि जपतां वर |
२५ क
वासुदेव उवाच:
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ||
२५ ख
वासुदेव उवाच:
कौमारं व्रह्मचर्यं ते जानामि द्विजसत्तम |
२६ क
वासुदेव उवाच:
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ||
२६ ख