वैशम्पाय़न उवाच:
ततः प्राय़ाद्विदुरोऽश्वैरुदारै; र्महाजवैर्वलिभिः साधुदान्तैः |
१ क
वैशम्पाय़न उवाच:
वलान्निय़ुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् ||
१ ख
वैशम्पाय़न उवाच:
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् |
२ क
वैशम्पाय़न उवाच:
प्रविवेश महावुद्धिः पूज्यमानो द्विजातिभिः ||
२ ख
वैशम्पाय़न उवाच:
स राजगृहमासाद्य कुवेरभवनोपमम् |
३ क
वैशम्पाय़न उवाच:
अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ||
३ ख
वैशम्पाय़न उवाच:
तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत् |
४ क
वैशम्पाय़न उवाच:
पूजापूर्वं प्रतिगृह्याजमीढ; स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ||
४ ख
युधिष्ठिर उवाच:
विज्ञाय़ते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि |
५ क
युधिष्ठिर उवाच:
कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् ||
५ ख
विदुर उवाच:
राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः |
६ क
विदुर उवाच:
प्रीतो राजन्पुत्रगणैर्विनीतै; र्विशोक एवात्मरतिर्दृढात्मा ||
६ ख
विदुर उवाच:
इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च |
७ क
विदुर उवाच:
इय़ं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र ||
७ ख
विदुर उवाच:
समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रिय़तां रम्यतां च |
८ क
विदुर उवाच:
प्रीय़ामहे भवतः सङ्गमेन; समागताः कुरवश्चैव सर्वे ||
८ ख
विदुर उवाच:
दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा |
९ क
विदुर उवाच:
तान्द्रक्ष्यसे कितवान्संनिविष्टा; नित्यागतोऽहं नृपते तज्जुषस्व ||
९ ख
युधिष्ठिर उवाच:
द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचय़ेद्वुध्यमानः |
१० क
युधिष्ठिर उवाच:
किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म ||
१० ख
विदुर उवाच:
जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मय़ा निवारणे |
११ क
विदुर उवाच:
राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय़ इहाचरस्व ||
११ ख
युधिष्ठिर उवाच:
के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः |
१२ क
युधिष्ठिर उवाच:
पृच्छामि त्वां विदुर व्रूहि नस्ता; न्यैर्दीव्यामः शतशः संनिपत्य ||
१२ ख
विदुर उवाच:
गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः |
१३ क
विदुर उवाच:
विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जय़श्च ||
१३ ख
युधिष्ठिर उवाच:
महाभय़ाः कितवाः संनिविष्टा; माय़ोपधा देवितारोऽत्र सन्ति |
१४ क
युधिष्ठिर उवाच:
धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे ||
१४ ख
युधिष्ठिर उवाच:
नाहं राज्ञो धृतराष्ट्रस्य शासना; न्न गन्तुमिच्छामि कवे दुरोदरम् |
१५ क
युधिष्ठिर उवाच:
इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा ||
१५ ख
युधिष्ठिर उवाच:
न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वय़िता सभाय़ाम् |
१६ क
युधिष्ठिर उवाच:
आहूतोऽहं न निवर्ते कदा चि; त्तदाहितं शाश्वतं वै व्रतं मे ||
१६ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा विदुरं धर्मराजः; प्राय़ात्रिकं सर्वमाज्ञाप्य तूर्णम् |
१७ क
वैशम्पाय़न उवाच:
प्राय़ाच्छ्वोभूते सगणः सानुय़ात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा ||
१७ ख
वैशम्पाय़न उवाच:
दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् |
१८ क
वैशम्पाय़न उवाच:
धातुश्च वशमन्वेति पाशैरिव नरः सितः ||
१८ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा प्रय़यौ राजा सह क्षत्त्रा युधिष्ठिरः |
१९ क
वैशम्पाय़न उवाच:
अमृष्यमाणस्तत्पार्थः समाह्वानमरिन्दमः ||
१९ ख
वैशम्पाय़न उवाच:
वाह्लिकेन रथं दत्तमास्थाय़ परवीरहा |
२० क
वैशम्पाय़न उवाच:
परिच्छन्नो यय़ौ पार्थो भ्रातृभिः सह पाण्डवः ||
२० ख
वैशम्पाय़न उवाच:
राजश्रिय़ा दीप्यमानो यय़ौ व्रह्मपुरःसरः |
२१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रेण चाहूतः कालस्य समय़ेन च ||
२१ ख
वैशम्पाय़न उवाच:
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं यय़ौ |
२२ क
वैशम्पाय़न उवाच:
समिय़ाय़ च धर्मात्मा धृतराष्ट्रेण पाण्डवः ||
२२ ख
वैशम्पाय़न उवाच:
तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च |
२३ क
वैशम्पाय़न उवाच:
समिय़ाय़ यथान्याय़ं द्रौणिना च विभुः सह ||
२३ ख
वैशम्पाय़न उवाच:
समेत्य च महावाहुः सोमदत्तेन चैव ह |
२४ क
वैशम्पाय़न उवाच:
दुर्योधनेन शल्येन सौवलेन च वीर्यवान् ||
२४ ख
वैशम्पाय़न उवाच:
ये चान्ये तत्र राजानः पूर्वमेव समागताः |
२५ क
वैशम्पाय़न उवाच:
जय़द्रथेन च तथा कुरुभिश्चापि सर्वशः ||
२५ ख
वैशम्पाय़न उवाच:
ततः सर्वैर्महावाहुर्भ्रातृभिः परिवारितः |
२६ क
वैशम्पाय़न उवाच:
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ||
२६ ख
वैशम्पाय़न उवाच:
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् |
२७ क
वैशम्पाय़न उवाच:
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ||
२७ ख
वैशम्पाय़न उवाच:
अभिवाद्य स गान्धारीं तय़ा च प्रतिनन्दितः |
२८ क
वैशम्पाय़न उवाच:
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ||
२८ ख
वैशम्पाय़न उवाच:
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः |
२९ क
वैशम्पाय़न उवाच:
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ||
२९ ख
वैशम्पाय़न उवाच:
ततो हर्षः समभवत्कौरवाणां विशां पते |
३० क
वैशम्पाय़न उवाच:
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रिय़दर्शनान् ||
३० ख
वैशम्पाय़न उवाच:
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ |
३१ क
वैशम्पाय़न उवाच:
ददृशुश्चोपय़ातास्तान्द्रौपदीप्रमुखाः स्त्रिय़ः ||
३१ ख
वैशम्पाय़न उवाच:
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव |
३२ क
वैशम्पाय़न उवाच:
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ||
३२ ख
वैशम्पाय़न उवाच:
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् |
३३ क
वैशम्पाय़न उवाच:
कृत्वा व्याय़ामपूर्वाणि कृत्यानि प्रतिकर्म च ||
३३ ख
वैशम्पाय़न उवाच:
ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः |
३४ क
वैशम्पाय़न उवाच:
कल्याणमनसश्चैव व्राह्मणान्स्वस्ति वाच्य च ||
३४ ख
वैशम्पाय़न उवाच:
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ |
३५ क
वैशम्पाय़न उवाच:
उपगीय़माना नारीभिरस्वपन्कुरुनन्दनाः ||
३५ ख
वैशम्पाय़न उवाच:
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् |
३६ क
वैशम्पाय़न उवाच:
स्तूय़मानाश्च विश्रान्ताः काले निद्रामथात्यजन् ||
३६ ख
वैशम्पाय़न उवाच:
सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः |
३७ क
वैशम्पाय़न उवाच:
सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ||
३७ ख