chevron_left वन पर्व अध्याय ५२
वृहदश्व उवाच:
तेभ्यः प्रतिज्ञाय़ नलः करिष्य इति भारत |
१ क
वृहदश्व उवाच:
अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ||
१ ख
वृहदश्व उवाच:
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः |
२ क
वृहदश्व उवाच:
किं च तत्र मय़ा कार्यं कथय़ध्वं यथातथम् ||
२ ख
वृहदश्व उवाच:
एवमुक्ते नैषधेन मघवान्प्रत्यभाषत |
३ क
वृहदश्व उवाच:
अमरान्वै निवोधास्मान्दमय़न्त्यर्थमागतान् ||
३ ख
वृहदश्व उवाच:
अहमिन्द्रोऽय़मग्निश्च तथैवाय़मपाम्पतिः |
४ क
वृहदश्व उवाच:
शरीरान्तकरो नॄणां यमोऽय़मपि पार्थिव ||
४ ख
वृहदश्व उवाच:
स वै त्वमागतानस्मान्दमय़न्त्यै निवेदय़ |
५ क
वृहदश्व उवाच:
लोकपालाः सहेन्द्रास्त्वां समाय़ान्ति दिदृक्षवः ||
५ ख
वृहदश्व उवाच:
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः |
६ क
वृहदश्व उवाच:
तेषामन्यतमं देवं पतित्वे वरय़स्व ह ||
६ ख
वृहदश्व उवाच:
एवमुक्तः स शक्रेण नलः प्राञ्जलिरव्रवीत् |
७ क
वृहदश्व उवाच:
एकार्थसमवेतं मां न प्रेषय़ितुमर्हथ ||
७ ख
देवा ऊचुः:
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध |
८ क
देवा ऊचुः:
न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ||
८ ख
वृहदश्व उवाच:
एवमुक्तः स देवैस्तैर्नैषधः पुनरव्रवीत् |
९ क
वृहदश्व उवाच:
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ||
९ ख
वृहदश्व उवाच:
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत |
१० क
वृहदश्व उवाच:
जगाम स तथेत्युक्त्वा दमय़न्त्या निवेशनम् ||
१० ख
वृहदश्व उवाच:
ददर्श तत्र वैदर्भीं सखीगणसमावृताम् |
११ क
वृहदश्व उवाच:
देदीप्यमानां वपुषा श्रिय़ा च वरवर्णिनीम् ||
११ ख
वृहदश्व उवाच:
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् |
१२ क
वृहदश्व उवाच:
आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ||
१२ ख
वृहदश्व उवाच:
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् |
१३ क
वृहदश्व उवाच:
सत्यं चिकीर्षमाणस्तु धारय़ामास हृच्छय़म् ||
१३ ख
वृहदश्व उवाच:
ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः |
१४ क
वृहदश्व उवाच:
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ||
१४ ख
वृहदश्व उवाच:
प्रशशंसुश्च सुप्रीता नलं ता विस्मय़ान्विताः |
१५ क
वृहदश्व उवाच:
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तय़न् ||
१५ ख
वृहदश्व उवाच:
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः |
१६ क
वृहदश्व उवाच:
कोऽय़ं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ||
१६ ख
वृहदश्व उवाच:
न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन |
१७ क
वृहदश्व उवाच:
तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ||
१७ ख
वृहदश्व उवाच:
अथैनं स्मय़मानेव स्मितपूर्वाभिभाषिणी |
१८ क
वृहदश्व उवाच:
दमय़न्ती नलं वीरमभ्यभाषत विस्मिता ||
१८ ख
वृहदश्व उवाच:
कस्त्वं सर्वानवद्याङ्ग मम हृच्छय़वर्धन |
१९ क
वृहदश्व उवाच:
प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ||
१९ ख
वृहदश्व उवाच:
कथमागमनं चेह कथं चासि न लक्षितः |
२० क
वृहदश्व उवाच:
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ||
२० ख
वृहदश्व उवाच:
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह |
२१ क
वृहदश्व उवाच:
नलं मां विद्धि कल्याणि देवदूतमिहागतम् ||
२१ ख
वृहदश्व उवाच:
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः |
२२ क
वृहदश्व उवाच:
तेषामन्यतमं देवं पतिं वरय़ शोभने ||
२२ ख
वृहदश्व उवाच:
तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः |
२३ क
वृहदश्व उवाच:
प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारय़त् ||
२३ ख
वृहदश्व उवाच:
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः |
२४ क
वृहदश्व उवाच:
एतच्छ्रुत्वा शुभे वुद्धिं प्रकुरुष्व यथेच्छसि ||
२४ ख