वैशम्पाय़न उवाच:
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः |
१ क
वैशम्पाय़न उवाच:
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः |
१ ख
वैशम्पाय़न उवाच:
अर्जुनं प्रति संय़ोद्धुं युद्धार्थी स महारथः ||
१ ग
वैशम्पाय़न उवाच:
तौ रथौ सूर्यसङ्काशौ योत्स्यमानौ महावलौ |
२ क
वैशम्पाय़न उवाच:
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ||
२ ख
वैशम्पाय़न उवाच:
पार्थोऽपि विश्रुतं लोके गाण्डीवं परमाय़ुधम् |
३ क
वैशम्पाय़न उवाच:
विकृष्य चिक्षेप वहून्नाराचान्मर्मभेदिनः ||
३ ख
वैशम्पाय़न उवाच:
तानप्राप्ताञ्शितैर्वाणैर्नाराचान्रक्तभोजनान् |
४ क
वैशम्पाय़न उवाच:
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ||
४ ख
वैशम्पाय़न उवाच:
ततः पार्थश्च सङ्क्रुद्धश्चित्रान्मार्गान्प्रदर्शय़न् |
५ क
वैशम्पाय़न उवाच:
दिशः सञ्छादय़न्वाणैः प्रदिशश्च महारथः ||
५ ख
वैशम्पाय़न उवाच:
एकच्छाय़मिवाकाशं प्रकुर्वन्सर्वतः प्रभुः |
६ क
वैशम्पाय़न उवाच:
प्रच्छादय़दमेय़ात्मा पार्थः शरशतैः कृपम् ||
६ ख
वैशम्पाय़न उवाच:
स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः |
७ क
वैशम्पाय़न उवाच:
तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् |
७ ख
वैशम्पाय़न उवाच:
अर्पय़ित्वा महात्मानं ननाद समरे कृपः ||
७ ग
वैशम्पाय़न उवाच:
ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः |
८ क
वैशम्पाय़न उवाच:
त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः |
८ ख
वैशम्पाय़न उवाच:
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ||
८ ग
वैशम्पाय़न उवाच:
ते हय़ा निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः |
९ क
वैशम्पाय़न उवाच:
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ||
९ ख
वैशम्पाय़न उवाच:
च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः |
१० क
वैशम्पाय़न उवाच:
नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ||
१० ख
वैशम्पाय़न उवाच:
स तु लव्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् |
११ क
वैशम्पाय़न उवाच:
विव्याध दशभिर्वाणैस्त्वरितः कङ्कपत्रिभिः ||
११ ख
वैशम्पाय़न उवाच:
ततः पार्थो धनुस्तस्य भल्लेन निशितेन च |
१२ क
वैशम्पाय़न उवाच:
चिच्छेदैकेन भूय़श्च हस्ताच्चापमथाहरत् ||
१२ ख
वैशम्पाय़न उवाच:
अथास्य कवचं वाणैर्निशितैर्मर्मभेदिभिः |
१३ क
वैशम्पाय़न उवाच:
व्यधमन्न च पार्थोऽस्य शरीरमवपीडय़त् ||
१३ ख
वैशम्पाय़न उवाच:
तस्य निर्मुच्यमानस्य कवचात्काय़ आवभौ |
१४ क
वैशम्पाय़न उवाच:
समय़े मुच्यमानस्य सर्पस्येव तनुर्यथा ||
१४ ख
वैशम्पाय़न उवाच:
छिन्ने धनुषि पार्थेन सोऽन्यदादाय़ कार्मुकम् |
१५ क
वैशम्पाय़न उवाच:
चकार गौतमः सज्यं तदद्भुतमिवाभवत् ||
१५ ख
वैशम्पाय़न उवाच:
स तदप्यस्य कौन्तेय़श्चिच्छेद नतपर्वणा |
१६ क
वैशम्पाय़न उवाच:
एवमन्यानि चापानि वहूनि कृतहस्तवत् |
१६ ख
वैशम्पाय़न उवाच:
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ||
१६ ग
वैशम्पाय़न उवाच:
स छिन्नधनुरादाय़ अथ शक्तिं प्रतापवान् |
१७ क
वैशम्पाय़न उवाच:
प्राहिणोत्पाण्डुपुत्राय़ प्रदीप्तामशनीमिव ||
१७ ख
वैशम्पाय़न उवाच:
तामर्जुनस्तदाय़ान्तीं शक्तिं हेमविभूषिताम् |
१८ क
वैशम्पाय़न उवाच:
विय़द्गतां महोल्काभां चिच्छेद दशभिः शरैः |
१८ ख
वैशम्पाय़न उवाच:
सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ||
१८ ग
वैशम्पाय़न उवाच:
युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः |
१९ क
वैशम्पाय़न उवाच:
तमाशु निशितैः पार्थं विभेद दशभिः शरैः ||
१९ ख
वैशम्पाय़न उवाच:
ततः पार्थो महातेजा विशिखानग्नितेजसः |
२० क
वैशम्पाय़न उवाच:
चिक्षेप समरे क्रुद्धस्त्रय़ोदश शिलाशितान् ||
२० ख
वैशम्पाय़न उवाच:
अथास्य युगमेकेन चतुर्भिश्चतुरो हय़ान् |
२१ क
वैशम्पाय़न उवाच:
षष्ठेन च शिरः काय़ाच्छरेण रथसारथेः ||
२१ ख
वैशम्पाय़न उवाच:
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महावलः |
२२ क
वैशम्पाय़न उवाच:
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ||
२२ ख
वैशम्पाय़न उवाच:
ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव |
२३ क
वैशम्पाय़न उवाच:
त्रय़ोदशेनेन्द्रसमः कृपं वक्षस्यताडय़त् ||
२३ ख
वैशम्पाय़न उवाच:
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
२४ क
वैशम्पाय़न उवाच:
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ||
२४ ख
वैशम्पाय़न उवाच:
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता |
२५ क
वैशम्पाय़न उवाच:
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ||
२५ ख
वैशम्पाय़न उवाच:
ततो योधाः परीप्सन्तः शारद्वतममर्षणम् |
२६ क
वैशम्पाय़न उवाच:
सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ||
२६ ख
वैशम्पाय़न उवाच:
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः |
२७ क
वैशम्पाय़न उवाच:
यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारय़त् ||
२७ ख
वैशम्पाय़न उवाच:
ततः कृपमुपादाय़ विरथं ते नरर्षभाः |
२८ क
वैशम्पाय़न उवाच:
अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनञ्जय़ात् ||
२८ ख