सञ्जय़ उवाच:
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं वलम् |
१ क
सञ्जय़ उवाच:
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ||
१ ख
सञ्जय़ उवाच:
ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् |
२ क
सञ्जय़ उवाच:
उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ||
२ ख
सञ्जय़ उवाच:
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् |
३ क
सञ्जय़ उवाच:
हंसवर्णान्हय़ाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ||
३ ख
सञ्जय़ उवाच:
ते प्रेषिता महाराज शल्येनाहवशोभिना |
४ क
सञ्जय़ उवाच:
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ||
४ ख
सञ्जय़ उवाच:
दृष्ट्वा कर्णं समाय़ान्तं भीमः क्रोधसमन्वितः |
५ क
सञ्जय़ उवाच:
मतिं दध्रे विनाशाय़ कर्णस्य भरतर्षभ ||
५ ख
सञ्जय़ उवाच:
सोऽव्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् |
६ क
सञ्जय़ उवाच:
एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् |
६ ख
सञ्जय़ उवाच:
संशय़ान्महतो मुक्तं कथञ्चित्प्रेक्षतो मम ||
६ ग
सञ्जय़ उवाच:
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः |
७ क
सञ्जय़ उवाच:
दुर्योधनस्य प्रीत्यर्थं राधेय़ेन दुरात्मना ||
७ ख
सञ्जय़ उवाच:
अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत |
८ क
सञ्जय़ उवाच:
हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति |
८ ख
सञ्जय़ उवाच:
सङ्ग्रामेण सुघोरेण सत्यमेतद्व्रवीमि वः ||
८ ग
सञ्जय़ उवाच:
राजानमद्य भवतां न्यासभूतं ददामि वै |
९ क
सञ्जय़ उवाच:
अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ||
९ ख
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुः प्राय़ादाधिरथिं प्रति |
१० क
सञ्जय़ उवाच:
सिंहनादेन महता सर्वाः संनादय़न्दिशः ||
१० ख
सञ्जय़ उवाच:
दृष्ट्वा त्वरितमाय़ान्तं भीमं युद्धाभिनन्दिनम् |
११ क
सञ्जय़ उवाच:
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ||
११ ख
सञ्जय़ उवाच:
पश्य कर्ण महावाहुं क्रुद्धं पाण्डवनन्दनम् |
१२ क
सञ्जय़ उवाच:
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वय़ि ध्रुवम् ||
१२ ख
सञ्जय़ उवाच:
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन |
१३ क
सञ्जय़ उवाच:
अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ||
१३ ख
सञ्जय़ उवाच:
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे |
१४ क
सञ्जय़ उवाच:
विभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ||
१४ ख
सञ्जय़ उवाच:
इति व्रुवति राधेय़ं मद्राणामीश्वरे नृप |
१५ क
सञ्जय़ उवाच:
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ||
१५ ख
सञ्जय़ उवाच:
तथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम् |
१६ क
सञ्जय़ उवाच:
अव्रवीद्वचनं शल्यं राधेय़ः प्रहसन्निव ||
१६ ख
सञ्जय़ उवाच:
यदुक्तं वचनं मेऽद्य त्वय़ा मद्रजनेश्वर |
१७ क
सञ्जय़ उवाच:
भीमसेनं प्रति विभो तत्सत्यं नात्र संशय़ः ||
१७ ख
सञ्जय़ उवाच:
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः |
१८ क
सञ्जय़ उवाच:
निरपेक्षः शरीरे च प्राणतश्च वलाधिकः ||
१८ ख
सञ्जय़ उवाच:
अज्ञातवासं वसता विराटनगरे तदा |
१९ क
सञ्जय़ उवाच:
द्रौपद्याः प्रिय़कामेन केवलं वाहुसंश्रय़ात् |
१९ ख
सञ्जय़ उवाच:
गूढभावं समाश्रित्य कीचकः सगणो हतः ||
१९ ग
सञ्जय़ उवाच:
सोऽद्य सङ्ग्रामशिरसि संनद्धः क्रोधमूर्च्छितः |
२० क
सञ्जय़ उवाच:
किङ्करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ||
२० ख
सञ्जय़ उवाच:
चिरकालाभिलषितो ममाय़ं तु मनोरथः |
२१ क
सञ्जय़ उवाच:
अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जय़ः |
२१ ख
सञ्जय़ उवाच:
स मे कदाचिदद्यैव भवेद्भीमसमागमात् ||
२१ ग
सञ्जय़ उवाच:
निहते भीमसेने तु यदि वा विरथीकृते |
२२ क
सञ्जय़ उवाच:
अभिय़ास्यति मां पार्थस्तन्मे साधु भविष्यति |
२२ ख
सञ्जय़ उवाच:
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय़ ||
२२ ग
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु वचनं राधेय़स्य महात्मनः |
२३ क
सञ्जय़ उवाच:
उवाच वचनं शल्यः सूतपुत्रं तथागतम् ||
२३ ख
सञ्जय़ उवाच:
अभिय़ासि महावाहो भीमसेनं महावलम् |
२४ क
सञ्जय़ उवाच:
निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ||
२४ ख
सञ्जय़ उवाच:
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः |
२५ क
सञ्जय़ उवाच:
स वै सम्पत्स्यते कर्ण सत्यमेतद्व्रवीमि ते ||
२५ ख
सञ्जय़ उवाच:
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत |
२६ क
सञ्जय़ उवाच:
हन्ताहमर्जुनं सङ्ख्ये मां वा हन्ता धनञ्जय़ः |
२६ ख
सञ्जय़ उवाच:
युद्धे मनः समाधाय़ याहि याहीत्यचोदय़त् ||
२६ ग
सञ्जय़ उवाच:
ततः प्राय़ाद्रथेनाशु शल्यस्तत्र विशां पते |
२७ क
सञ्जय़ उवाच:
यत्र भीमो महेष्वासो व्यद्रावय़त वाहिनीम् ||
२७ ख
सञ्जय़ उवाच:
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः |
२८ क
सञ्जय़ उवाच:
उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ||
२८ ख
सञ्जय़ उवाच:
भीमसेनोऽथ सङ्क्रुद्धस्तव सैन्यं दुरासदम् |
२९ क
सञ्जय़ उवाच:
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावय़द्वली ||
२९ ख
सञ्जय़ उवाच:
स संनिपातस्तुमुलो भीमरूपो विशां पते |
३० क
सञ्जय़ उवाच:
आसीद्रौद्रो महाराज कर्णपाण्डवय़ोर्मृधे |
३० ख
सञ्जय़ उवाच:
ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ||
३० ग
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः |
३१ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे |
३१ ख
सञ्जय़ उवाच:
पुनश्चैनममेय़ात्मा शरवर्षैरवाकिरत् ||
३१ ग
सञ्जय़ उवाच:
स विद्धः सूतपुत्रेण छादय़ामास पत्रिभिः |
३२ क
सञ्जय़ उवाच:
विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ||
३२ ख
सञ्जय़ उवाच:
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा |
३३ क
सञ्जय़ उवाच:
अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे |
३३ ख
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ||
३३ ग
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ सूतपुत्रं वृकोदरः |
३४ क
सञ्जय़ उवाच:
राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः |
३४ ख
सञ्जय़ उवाच:
ननाद वलवन्नादं कम्पय़न्निव रोदसी ||
३४ ग
सञ्जय़ उवाच:
तं कर्णः पञ्चविंशत्या नाराचानां समार्दय़त् |
३५ क
सञ्जय़ उवाच:
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ||
३५ ख
सञ्जय़ उवाच:
ततः साय़कभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः |
३६ क
सञ्जय़ उवाच:
संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छय़ा ||
३६ ख
सञ्जय़ उवाच:
स कार्मुके महावेगं भारसाधनमुत्तमम् |
३७ क
सञ्जय़ उवाच:
गिरीणामपि भेत्तारं साय़कं समय़ोजय़त् ||
३७ ख
सञ्जय़ उवाच:
विकृष्य वलवच्चापमा कर्णादतिमारुतिः |
३८ क
सञ्जय़ उवाच:
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसय़ा ||
३८ ख
सञ्जय़ उवाच:
स विसृष्टो वलवता वाणो वज्राशनिस्वनः |
३९ क
सञ्जय़ उवाच:
अदारय़द्रणे कर्णं वज्रवेग इवाचलम् ||
३९ ख
सञ्जय़ उवाच:
स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह |
४० क
सञ्जय़ उवाच:
निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः ||
४० ख
सञ्जय़ उवाच:
ततो मद्राधिपो दृष्ट्वा विसञ्ज्ञं सूतनन्दनम् |
४१ क
सञ्जय़ उवाच:
अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ||
४१ ख
सञ्जय़ उवाच:
ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् |
४२ क
सञ्जय़ उवाच:
व्यद्रावय़द्भीमसेनो यथेन्द्रो दानवीं चमूम् ||
४२ ख