chevron_left शल्य पर्व अध्याय ५
सञ्जय़ उवाच:
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः |
१ क
सञ्जय़ उवाच:
सर्व एव महाराज योधास्तत्र समागताः ||
१ ख
सञ्जय़ उवाच:
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः |
२ क
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ||
२ ख
सञ्जय़ उवाच:
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् |
३ क
सञ्जय़ उवाच:
जय़त्सेनश्च राजानस्ते रात्रिमुषितास्ततः ||
३ ख
सञ्जय़ उवाच:
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः |
४ क
सञ्जय़ उवाच:
नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ||
४ ख
सञ्जय़ उवाच:
तेऽव्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ |
५ क
सञ्जय़ उवाच:
कृतय़त्ना रणे राजन्सम्पूज्य विधिवत्तदा ||
५ ख
सञ्जय़ उवाच:
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि |
६ क
सञ्जय़ उवाच:
येनाभिगुप्ताः सङ्ग्रामे जय़ेमासुहृदो वय़म् ||
६ ख
सञ्जय़ उवाच:
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् |
७ क
सञ्जय़ उवाच:
सर्वय़ुद्धविभागज्ञमन्तकप्रतिमं युधि ||
७ ख
सञ्जय़ उवाच:
स्वङ्गं प्रच्छन्नशिरसं कम्वुग्रीवं प्रिय़ंवदम् |
८ क
सञ्जय़ उवाच:
व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् ||
८ ख
सञ्जय़ उवाच:
स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः |
९ क
सञ्जय़ उवाच:
पुष्टश्लिष्टाय़तभुजं सुविस्तीर्णघनोरसम् ||
९ ख
सञ्जय़ उवाच:
जवे वले च सदृशमरुणानुजवातय़ोः |
१० क
सञ्जय़ उवाच:
आदित्यस्य त्विषा तुल्यं वुद्ध्या चोशनसा समम् ||
१० ख
सञ्जय़ उवाच:
कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् |
११ क
सञ्जय़ उवाच:
काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम् ||
११ ख
सञ्जय़ उवाच:
सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् |
१२ क
सञ्जय़ उवाच:
स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् ||
१२ ख
सञ्जय़ उवाच:
सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम् |
१३ क
सञ्जय़ उवाच:
जेतारं तरसारीणामजेय़ं शत्रुभिर्वलात् ||
१३ ख
सञ्जय़ उवाच:
दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः |
१४ क
सञ्जय़ उवाच:
साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् ||
१४ ख
सञ्जय़ उवाच:
आराध्य त्र्यम्वकं यत्नाद्व्रतैरुग्रैर्महातपाः |
१५ क
सञ्जय़ उवाच:
अय़ोनिजाय़ामुत्पन्नो द्रोणेनाय़ोनिजेन यः ||
१५ ख
सञ्जय़ उवाच:
तमप्रतिमकर्माणं रूपेणासदृशं भुवि |
१६ क
सञ्जय़ उवाच:
पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् |
१६ ख
सञ्जय़ उवाच:
तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमव्रवीत् ||
१६ ग
सञ्जय़ उवाच:
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् |
१७ क
सञ्जय़ उवाच:
गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः |
१७ ख
सञ्जय़ उवाच:
भवांस्तस्मान्निय़ोगात्ते कोऽस्तु सेनापतिर्मम ||
१७ ग
द्रौणिरु उवाच:
अय़ं कुलेन वीर्येण तेजसा यशसा श्रिय़ा |
१८ क
द्रौणिरु उवाच:
सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ||
१८ ख
द्रौणिरु उवाच:
भागिनेय़ान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः |
१९ क
द्रौणिरु उवाच:
महासेनो महावाहुर्महासेन इवापरः ||
१९ ख
द्रौणिरु उवाच:
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम |
२० क
द्रौणिरु उवाच:
शक्यः प्राप्तुं जय़ोऽस्माभिर्देवैः स्कन्दमिवाजितम् ||
२० ख
द्रौणिरु उवाच:
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः |
२१ क
द्रौणिरु उवाच:
परिवार्य स्थिताः शल्यं जय़शव्दांश्च चक्रिरे |
२१ ख
द्रौणिरु उवाच:
युद्धाय़ च मतिं चक्रूरावेशं च परं यय़ुः ||
२१ ग
द्रौणिरु उवाच:
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् |
२२ क
द्रौणिरु उवाच:
उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ||
२२ ख
द्रौणिरु उवाच:
अय़ं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल |
२३ क
द्रौणिरु उवाच:
यत्र मित्रममित्रं वा परीक्षन्ते वुधा जनाः ||
२३ ख
द्रौणिरु उवाच:
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे |
२४ क
द्रौणिरु उवाच:
रणं च याते भवति पाण्डवा मन्दचेतसः |
२४ ख
द्रौणिरु उवाच:
भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ||
२४ ग
शल्य उवाच:
यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् |
२५ क
शल्य उवाच:
त्वत्प्रिय़ार्थं हि मे सर्वं प्राणा राज्यं धनानि च ||
२५ ख
दुर्योधन उवाच:
सेनापत्येन वरय़े त्वामहं मातुलातुलम् |
२६ क
दुर्योधन उवाच:
सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ||
२६ ख
दुर्योधन उवाच:
अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः |
२७ क
दुर्योधन उवाच:
जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ||
२७ ख