chevron_left कर्ण पर्व अध्याय ५२
सञ्जय़ उवाच:
स केशवस्य वीभत्सुः श्रुत्वा भारत भाषितम् |
१ क
सञ्जय़ उवाच:
विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत ||
१ ख
सञ्जय़ उवाच:
ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः |
२ क
सञ्जय़ उवाच:
दध्रे कर्णविनाशाय़ केशवं चाभ्यभाषत ||
२ ख
सञ्जय़ उवाच:
त्वय़ा नाथेन गोविन्द ध्रुव एष जय़ो मम |
३ क
सञ्जय़ उवाच:
प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ||
३ ख
सञ्जय़ उवाच:
त्वत्सहाय़ो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् |
४ क
सञ्जय़ उवाच:
प्रापय़ेय़ं परं लोकं किमु कर्णं महारणे ||
४ ख
सञ्जय़ उवाच:
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन |
५ क
सञ्जय़ उवाच:
पश्यामि कर्णं समरे विचरन्तमभीतवत् ||
५ ख
सञ्जय़ उवाच:
भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः |
६ क
सञ्जय़ उवाच:
सृष्टं कर्णेन वार्ष्णेय़ शक्रेणेव महाशनिम् ||
६ ख
सञ्जय़ उवाच:
अय़ं खलु स सङ्ग्रामो यत्र कृष्ण मय़ा कृतम् |
७ क
सञ्जय़ उवाच:
कथय़िष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ||
७ ख
सञ्जय़ उवाच:
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे |
८ क
सञ्जय़ उवाच:
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ||
८ ख
सञ्जय़ उवाच:
अद्य राजा धृतराष्ट्रः स्वां वुद्धिमवमंस्यते |
९ क
सञ्जय़ उवाच:
दुर्योधनमराज्यार्हं यय़ा राज्येऽभ्यषेचय़त् ||
९ ख
सञ्जय़ उवाच:
अद्य राज्यात्सुखाच्चैव श्रिय़ो राष्ट्रात्तथा पुरात् |
१० क
सञ्जय़ उवाच:
पुत्रेभ्यश्च महावाहो धृतराष्ट्रो विय़ोक्ष्यते ||
१० ख
सञ्जय़ उवाच:
अद्य दुर्योधनो राजा जीविताच्च निराशकः |
११ क
सञ्जय़ उवाच:
भविष्यति हते कर्णे कृष्ण सत्यं व्रवीमि ते ||
११ ख
सञ्जय़ उवाच:
अद्य दृष्ट्वा मय़ा कर्णं शरैर्विशकलीकृतम् |
१२ क
सञ्जय़ उवाच:
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ||
१२ ख
सञ्जय़ उवाच:
अद्यासौ सौवलः कृष्ण ग्लहं जानातु वै शरान् |
१३ क
सञ्जय़ उवाच:
दुरोदरं च गाण्डीवं मण्डलं च रथं मम ||
१३ ख
सञ्जय़ उवाच:
योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते |
१४ क
सञ्जय़ उवाच:
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् |
१४ ख
सञ्जय़ उवाच:
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ||
१४ ग
सञ्जय़ उवाच:
अद्य तप्स्यति राधेय़ः पाञ्चालीं यत्तदाव्रवीत् |
१५ क
सञ्जय़ उवाच:
सभामध्ये वचः क्रूरं कुत्सय़न्पाण्डवान्प्रति ||
१५ ख
सञ्जय़ उवाच:
ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः |
१६ क
सञ्जय़ उवाच:
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ||
१६ ख
सञ्जय़ उवाच:
अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदव्रवीत् |
१७ क
सञ्जय़ उवाच:
अनृतं तत्करिष्यन्ति मामका निशिताः शराः ||
१७ ख
सञ्जय़ उवाच:
हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽव्रवीत् |
१८ क
सञ्जय़ उवाच:
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ||
१८ ख
सञ्जय़ उवाच:
यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो वृहन्मनाः |
१९ क
सञ्जय़ उवाच:
अवामन्यत दुर्वुद्धिर्नित्यमस्मान्दुरात्मवान् |
१९ ख
सञ्जय़ उवाच:
तमद्य कर्णं राधेय़ं हन्तास्मि मधुसूदन ||
१९ ग
सञ्जय़ उवाच:
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः |
२० क
सञ्जय़ उवाच:
विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ||
२० ख
सञ्जय़ उवाच:
अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् |
२१ क
सञ्जय़ उवाच:
हते कर्णे मय़ा सङ्ख्ये सपुत्रे ससुहृज्जने ||
२१ ख
सञ्जय़ उवाच:
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः |
२२ क
सञ्जय़ उवाच:
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ||
२२ ख
सञ्जय़ उवाच:
अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् |
२३ क
सञ्जय़ उवाच:
क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ||
२३ ख
सञ्जय़ उवाच:
अद्य दुःखमहं मोक्ष्ये त्रय़ोदशसमार्जितम् |
२४ क
सञ्जय़ उवाच:
हत्वा कर्णं रणे कृष्ण शम्वरं मघवानिव ||
२४ ख
सञ्जय़ उवाच:
अद्य कर्णे हते युद्धे सोमकानां महारथाः |
२५ क
सञ्जय़ उवाच:
कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ||
२५ ख
सञ्जय़ उवाच:
न जाने च कथं प्रीतिः शैनेय़स्याद्य माधव |
२६ क
सञ्जय़ उवाच:
भविष्यति हते कर्णे मय़ि चापि जय़ाधिके ||
२६ ख
सञ्जय़ उवाच:
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् |
२७ क
सञ्जय़ उवाच:
प्रीतिं दास्यामि भीमस्य यमय़ोः सात्यकेरपि ||
२७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव |
२८ क
सञ्जय़ उवाच:
अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ||
२८ ख
सञ्जय़ उवाच:
अद्य पश्यन्तु सङ्ग्रामे धनञ्जय़ममर्षणम् |
२९ क
सञ्जय़ उवाच:
युध्यन्तं कौरवान्सङ्ख्ये पातय़न्तं च सूतजम् |
२९ ख
सञ्जय़ उवाच:
भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ||
२९ ग
सञ्जय़ उवाच:
धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः |
३० क
सञ्जय़ उवाच:
को वाप्यन्यो मत्समोऽस्ति क्षमाय़ां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ||
३० ख
सञ्जय़ उवाच:
अहं धनुष्मानसुरान्सुरांश्च; सर्वाणि भूतानि च सङ्गतानि |
३१ क
सञ्जय़ उवाच:
स्ववाहुवीर्याद्गमय़े पराभवं; मत्पौरुषं विद्धि परः परेभ्यः ||
३१ ख
सञ्जय़ उवाच:
शरार्चिषा गाण्डिवेनाहमेकः; सर्वान्कुरून्वाह्लिकांश्चाभिपत्य |
३२ क
सञ्जय़ उवाच:
हिमात्यये कक्षगतो यथाग्नि; स्तहा दहेय़ं सगणान्प्रसह्य ||
३२ ख
सञ्जय़ उवाच:
पाणौ पृषत्का लिखिता ममैते; धनुश्च सव्ये निहितं सवाणम् |
३३ क
सञ्जय़ उवाच:
पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जय़न्ति ||
३३ ख