ऋषय़ ऊचुः:
प्रजापतेरुत्तरवेदिरुच्यते; सनातना राम समन्तपञ्चकम् |
१ क
ऋषय़ ऊचुः:
समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः ||
१ ख
ऋषय़ ऊचुः:
पुरा च राजर्षिवरेण धीमता; वहूनि वर्षाण्यमितेन तेजसा |
२ क
ऋषय़ ऊचुः:
प्रकृष्टमेतत्कुरुणा महात्मना; ततः कुरुक्षेत्रमितीह पप्रथे ||
२ ख
राम उवाच:
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना |
३ क
राम उवाच:
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ||
३ ख
ऋषय़ ऊचुः:
पुरा किल कुरुं राम कृषन्तं सततोत्थितम् |
४ क
ऋषय़ ऊचुः:
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ||
४ ख
ऋषय़ ऊचुः:
किमिदं वर्तते राजन्प्रय़त्नेन परेण च |
५ क
ऋषय़ ऊचुः:
राजर्षे किमभिप्रेतं येनेय़ं कृष्यते क्षितिः ||
५ ख
कुरुरु उवाच:
इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो |
६ क
कुरुरु उवाच:
ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान् ||
६ ख
कुरुरु उवाच:
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः |
७ क
कुरुरु उवाच:
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ||
७ ख
कुरुरु उवाच:
आगम्यागम्य चैवैनं भूय़ो भूय़ोऽवहस्य च |
८ क
कुरुरु उवाच:
शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह ||
८ ख
कुरुरु उवाच:
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः |
९ क
कुरुरु उवाच:
ततः शक्रोऽव्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ||
९ ख
कुरुरु उवाच:
तच्छ्रुत्वा चाव्रुवन्देवाः सहस्राक्षमिदं वचः |
१० क
कुरुरु उवाच:
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ||
१० ख
कुरुरु उवाच:
यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः |
११ क
कुरुरु उवाच:
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ||
११ ख
कुरुरु उवाच:
आगम्य च ततः शक्रस्तदा राजर्षिमव्रवीत् |
१२ क
कुरुरु उवाच:
अलं खेदेन भवतः क्रिय़तां वचनं मम ||
१२ ख
कुरुरु उवाच:
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः |
१३ क
कुरुरु उवाच:
युधि वा निहताः सम्यगपि तिर्यग्गता नृप ||
१३ ख
कुरुरु उवाच:
ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते |
१४ क
कुरुरु उवाच:
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ||
१४ ख
कुरुरु उवाच:
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना |
१५ क
कुरुरु उवाच:
जगाम त्रिदिवं भूय़ः क्षिप्रं वलनिषूदनः ||
१५ ख
कुरुरु उवाच:
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा |
१६ क
कुरुरु उवाच:
शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम् ||
१६ ख
कुरुरु उवाच:
अपि चात्र स्वय़ं शक्रो जगौ गाथां सुराधिपः |
१७ क
कुरुरु उवाच:
कुरुक्षेत्रे निवद्धां वै तां शृणुष्व हलाय़ुध ||
१७ ख
कुरुरु उवाच:
पांसवोऽपि कुरुक्षेत्राद्वाय़ुना समुदीरिताः |
१८ क
कुरुरु उवाच:
अपि दुष्कृतकर्माणं नय़न्ति परमां गतिम् ||
१८ ख
कुरुरु उवाच:
सुरर्षभा व्राह्मणसत्तमाश्च; तथा नृगाद्या नरदेवमुख्याः |
१९ क
कुरुरु उवाच:
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह; संन्यस्य देहान्सुगतिं प्रपन्नाः ||
१९ ख
कुरुरु उवाच:
तरन्तुकारन्तुकय़ोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य |
२० क
कुरुरु उवाच:
एतत्कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेरुत्तरवेदिरुच्यते ||
२० ख
कुरुरु उवाच:
शिवं महत्पुण्यमिदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम् |
२१ क
कुरुरु उवाच:
अतश्च सर्वेऽपि वसुन्धराधिपा; हता गमिष्यन्ति महात्मनां गतिम् ||
२१ ख