chevron_left द्रोण पर्व अध्याय ५३
अर्जुन उवाच:
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ |
५० क
अर्जुन उवाच:
त्वं च यन्ता हृषीकेश किं नु स्यादजितं मय़ा ||
५० ख
अर्जुन उवाच:
यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् |
५१ क
अर्जुन उवाच:
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ||
५१ ख
अर्जुन उवाच:
मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् |
५२ क
अर्जुन उवाच:
मावमंस्था वलं वाह्वोर्मावमंस्था धनञ्जय़म् ||
५२ ख
अर्जुन उवाच:
यथा हि यात्वा सङ्ग्रामे न जीय़े विजय़ामि च |
५३ क
अर्जुन उवाच:
तेन सत्येन सङ्ग्रामे हतं विद्धि जय़द्रथम् ||
५३ ख
अर्जुन उवाच:
ध्रुवं वै व्राह्मणे सत्यं ध्रुवा साधुषु संनतिः |
५४ क
अर्जुन उवाच:
श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नाराय़णे जय़ः ||
५४ ख
सञ्जय़ उवाच:
एवमुक्त्वा हृषीकेशं स्वय़मात्मानमात्मना |
५५ क
सञ्जय़ उवाच:
सन्दिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ||
५५ ख
सञ्जय़ उवाच:
यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम |
५६ क
सञ्जय़ उवाच:
तथा कार्यं त्वय़ा कृष्ण कार्यं हि महदुद्यतम् ||
५६ ख