chevron_left शान्ति पर्व अध्याय ५३
वैशम्पाय़न उवाच:
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः |
१ क
वैशम्पाय़न उवाच:
याममात्रावशेषाय़ां यामिन्यां प्रत्यवुध्यत ||
१ ख
वैशम्पाय़न उवाच:
स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः |
२ क
वैशम्पाय़न उवाच:
अवलोक्य ततः पश्चाद्दध्यौ व्रह्म सनातनम् ||
२ ख
वैशम्पाय़न उवाच:
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः |
३ क
वैशम्पाय़न उवाच:
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ||
३ ख
वैशम्पाय़न उवाच:
पठन्ति पाणिस्वनिकास्तथा गाय़न्ति गाय़नाः |
४ क
वैशम्पाय़न उवाच:
शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ||
४ ख
वैशम्पाय़न उवाच:
वीणापणववेणूनां स्वनश्चातिमनोरमः |
५ क
वैशम्पाय़न उवाच:
प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ||
५ ख
वैशम्पाय़न उवाच:
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः |
६ क
वैशम्पाय़न उवाच:
उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ||
६ ख
वैशम्पाय़न उवाच:
तत उत्थाय़ दाशार्हः स्नातः प्राञ्जलिरच्युतः |
७ क
वैशम्पाय़न उवाच:
जप्त्वा गुह्यं महावाहुरग्नीनाश्रित्य तस्थिवान् ||
७ ख
वैशम्पाय़न उवाच:
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा |
८ क
वैशम्पाय़न उवाच:
गवां सहस्रेणैकैकं वाचय़ामास माधवः ||
८ ख
वैशम्पाय़न उवाच:
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च |
९ क
वैशम्पाय़न उवाच:
आदर्शे विमले कृष्णस्ततः सात्यकिमव्रवीत् ||
९ ख
वैशम्पाय़न उवाच:
गच्छ शैनेय़ जानीहि गत्वा राजनिवेशनम् |
१० क
वैशम्पाय़न उवाच:
अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ||
१० ख
वैशम्पाय़न उवाच:
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो यय़ौ |
११ क
वैशम्पाय़न उवाच:
उपगम्य च राजानं युधिष्ठिरमुवाच ह ||
११ ख
वैशम्पाय़न उवाच:
युक्तो रथवरो राजन्वासुदेवस्य धीमतः |
१२ क
वैशम्पाय़न उवाच:
समीपमापगेय़स्य प्रय़ास्यति जनार्दनः ||
१२ ख
वैशम्पाय़न उवाच:
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते |
१३ क
वैशम्पाय़न उवाच:
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ||
१३ ख
युधिष्ठिर उवाच:
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते |
१४ क
युधिष्ठिर उवाच:
न सैनिकैश्च यातव्यं यास्यामो वय़मेव हि ||
१४ ख
युधिष्ठिर उवाच:
न च पीडय़ितव्यो मे भीष्मो धर्मभृतां वरः |
१५ क
युधिष्ठिर उवाच:
अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय़ ||
१५ ख
युधिष्ठिर उवाच:
अद्यप्रभृति गाङ्गेय़ः परं गुह्यं प्रवक्ष्यति |
१६ क
युधिष्ठिर उवाच:
ततो नेच्छामि कौन्तेय़ पृथग्जनसमागमम् ||
१६ ख
वैशम्पाय़न उवाच:
तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनञ्जय़ः |
१७ क
वैशम्पाय़न उवाच:
युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ||
१७ ख
वैशम्पाय़न उवाच:
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि |
१८ क
वैशम्पाय़न उवाच:
भूतानीव समस्तानि यय़ुः कृष्णनिवेशनम् ||
१८ ख
वैशम्पाय़न उवाच:
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु |
१९ क
वैशम्पाय़न उवाच:
शैनेय़सहितो धीमान्रथमेवान्वपद्यत ||
१९ ख
वैशम्पाय़न उवाच:
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् |
२० क
वैशम्पाय़न उवाच:
मेघघोषै रथवरैः प्रय़युस्ते महारथाः ||
२० ख
वैशम्पाय़न उवाच:
मेघपुष्पं वलाहं च सैन्यं सुग्रीवमेव च |
२१ क
वैशम्पाय़न उवाच:
दारुकश्चोदय़ामास वासुदेवस्य वाजिनः ||
२१ ख
वैशम्पाय़न उवाच:
ते हय़ा वासुदेवस्य दारुकेण प्रचोदिताः |
२२ क
वैशम्पाय़न उवाच:
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रय़युस्तदा ||
२२ ख
वैशम्पाय़न उवाच:
ते ग्रसन्त इवाकाशं वेगवन्तो महावलाः |
२३ क
वैशम्पाय़न उवाच:
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ||
२३ ख
वैशम्पाय़न उवाच:
ततो यय़ुर्यत्र भीष्मः शरतल्पगतः प्रभुः |
२४ क
वैशम्पाय़न उवाच:
आस्ते व्रह्मर्षिभिः सार्धं व्रह्मा देवगणैर्यथा ||
२४ ख
वैशम्पाय़न उवाच:
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः |
२५ क
वैशम्पाय़न उवाच:
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च |
२५ ख
वैशम्पाय़न उवाच:
ऋषीनभ्यर्चय़ामासुः करानुद्यम्य दक्षिणान् ||
२५ ग
वैशम्पाय़न उवाच:
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः |
२६ क
वैशम्पाय़न उवाच:
अभ्याजगाम गाङ्गेय़ं व्रह्माणमिव वासवः ||
२६ ख
वैशम्पाय़न उवाच:
शरतल्पे शय़ानं तमादित्यं पतितं यथा |
२७ क
वैशम्पाय़न उवाच:
ददर्श स महावाहुर्भय़ादागतसाध्वसः ||
२७ ख