उत्तङ्क उवाच:
व्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् |
१ क
उत्तङ्क उवाच:
श्रुत्वा श्रेय़ोऽभिधास्यामि शापं वा ते जनार्दन ||
१ ख
वासुदेव उवाच:
तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रय़ान् |
२ क
वासुदेव उवाच:
तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ||
२ ख
वासुदेव उवाच:
मय़ि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् |
३ क
वासुदेव उवाच:
स्थित इत्यभिजानीहि मा तेऽभूदत्र संशय़ः ||
३ ख
वासुदेव उवाच:
तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् |
४ क
वासुदेव उवाच:
गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ||
४ ख
वासुदेव उवाच:
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च |
५ क
वासुदेव उवाच:
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ||
५ ख
वासुदेव उवाच:
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने |
६ क
वासुदेव उवाच:
दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ||
६ ख
वासुदेव उवाच:
असच्च सदसच्चैव यद्विश्वं सदसतः परम् |
७ क
वासुदेव उवाच:
ततः परं नास्ति चैव देवदेवात्सनातनात् ||
७ ख
वासुदेव उवाच:
ओङ्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह |
८ क
वासुदेव उवाच:
यूपं सोमं तथैवेह त्रिदशाप्याय़नं मखे ||
८ ख
वासुदेव उवाच:
होतारमपि हव्यं च विद्धि मां भृगुनन्दन |
९ क
वासुदेव उवाच:
अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ||
९ ख
वासुदेव उवाच:
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे |
१० क
वासुदेव उवाच:
प्राय़श्चित्तेषु मां व्रह्मञ्शान्तिमङ्गलवाचकाः |
१० ख
वासुदेव उवाच:
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ||
१० ग
वासुदेव उवाच:
विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम |
११ क
वासुदेव उवाच:
मानसं दय़ितं विप्र सर्वभूतदय़ात्मकम् ||
११ ख
वासुदेव उवाच:
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः |
१२ क
वासुदेव उवाच:
वह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ||
१२ ख
वासुदेव उवाच:
धर्मसंरक्षणार्थाय़ धर्मसंस्थापनाय़ च |
१३ क
वासुदेव उवाच:
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ||
१३ ख
वासुदेव उवाच:
अहं विष्णुरहं व्रह्मा शक्रोऽथ प्रभवाप्ययः |
१४ क
वासुदेव उवाच:
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ||
१४ ख
वासुदेव उवाच:
अधर्मे वर्तमानानां सर्वेषामहमप्युत |
१५ क
वासुदेव उवाच:
धर्मस्य सेतुं वध्नामि चलिते चलिते युगे |
१५ ख
वासुदेव उवाच:
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ||
१५ ग
वासुदेव उवाच:
यदा त्वहं देवय़ोनौ वर्तामि भृगुनन्दन |
१६ क
वासुदेव उवाच:
तदाहं देववत्सर्वमाचरामि न संशय़ः ||
१६ ख
वासुदेव उवाच:
यदा गन्धर्वय़ोनौ तु वर्तामि भृगुनन्दन |
१७ क
वासुदेव उवाच:
तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ||
१७ ख
वासुदेव उवाच:
नागय़ोनौ यदा चैव तदा वर्तामि नागवत् |
१८ क
वासुदेव उवाच:
यक्षराक्षसय़ोनीश्च यथावद्विचराम्यहम् ||
१८ ख
वासुदेव उवाच:
मानुष्ये वर्तमाने तु कृपणं याचिता मय़ा |
१९ क
वासुदेव उवाच:
न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् ||
१९ ख
वासुदेव उवाच:
भय़ं च महदुद्दिश्य त्रासिताः कुरवो मय़ा |
२० क
वासुदेव उवाच:
क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ||
२० ख
वासुदेव उवाच:
तेऽधर्मेणेह संय़ुक्ताः परीताः कालधर्मणा |
२१ क
वासुदेव उवाच:
धर्मेण निहता युद्धे गताः स्वर्गं न संशय़ः ||
२१ ख
वासुदेव उवाच:
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम |
२२ क
वासुदेव उवाच:
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||
२२ ख