chevron_left सभा पर्व अध्याय ५३
शकुनिरु उवाच:
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः |
१ क
शकुनिरु उवाच:
अक्षानुप्त्वा देवनस्य समय़ोऽस्तु युधिष्ठिर ||
१ ख
युधिष्ठिर उवाच:
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः |
२ क
युधिष्ठिर उवाच:
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ||
२ ख
युधिष्ठिर उवाच:
न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह |
३ क
युधिष्ठिर उवाच:
शकुने मैव नो जैषीरमार्गेण नृशंसवत् ||
३ ख
शकुनिरु उवाच:
योऽन्वेति सङ्ख्यां निकृतौ विधिज्ञ; श्चेष्टास्वखिन्नः कितवोऽक्षजासु |
४ क
शकुनिरु उवाच:
महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रिय़ासु ||
४ ख
शकुनिरु उवाच:
अक्षग्लहः सोऽभिभवेत्परं न; स्तेनैव कालो भवतीदमात्थ |
५ क
शकुनिरु उवाच:
दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः ||
५ ख
युधिष्ठिर उवाच:
एवमाहाय़मसितो देवलो मुनिसत्तमः |
६ क
युधिष्ठिर उवाच:
इमानि लोकद्वाराणि यो वै सञ्चरते सदा ||
६ ख
युधिष्ठिर उवाच:
इदं वै देवनं पापं माय़या कितवैः सह |
७ क
युधिष्ठिर उवाच:
धर्मेण तु जय़ो युद्धे तत्परं साधु देवनम् ||
७ ख
युधिष्ठिर उवाच:
नार्या म्लेच्छन्ति भाषाभिर्माय़या न चरन्त्युत |
८ क
युधिष्ठिर उवाच:
अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् ||
८ ख
युधिष्ठिर उवाच:
शक्तितो व्राह्मणान्वन्द्याञ्शिक्षितुं प्रय़तामहे |
९ क
युधिष्ठिर उवाच:
तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ||
९ ख
युधिष्ठिर उवाच:
नाहं निकृत्या कामय़े सुखान्युत धनानि वा |
१० क
युधिष्ठिर उवाच:
कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ||
१० ख
शकुनिरु उवाच:
श्रोत्रिय़ोऽश्रोत्रिय़मुत निकृत्यैव युधिष्ठिर |
११ क
शकुनिरु उवाच:
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ||
११ ख
शकुनिरु उवाच:
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे |
१२ क
शकुनिरु उवाच:
देवनाद्विनिवर्तस्व यदि ते विद्यते भय़म् ||
१२ ख
युधिष्ठिर उवाच:
आहूतो न निवर्तेय़मिति मे व्रतमाहितम् |
१३ क
युधिष्ठिर उवाच:
विधिश्च वलवान्राजन्दिष्टस्यास्मि वशे स्थितः ||
१३ ख
युधिष्ठिर उवाच:
अस्मिन्समागमे केन देवनं मे भविष्यति |
१४ क
युधिष्ठिर उवाच:
प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ||
१४ ख
दुर्योधन उवाच:
अहं दातास्मि रत्नानां धनानां च विशां पते |
१५ क
दुर्योधन उवाच:
मदर्थे देविता चाय़ं शकुनिर्मातुलो मम ||
१५ ख
युधिष्ठिर उवाच:
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे |
१६ क
युधिष्ठिर उवाच:
एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ||
१६ ख
वैशम्पाय़न उवाच:
उपोह्यमाने द्यूते तु राजानः सर्व एव ते |
१७ क
वैशम्पाय़न उवाच:
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ||
१७ ख
वैशम्पाय़न उवाच:
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः |
१८ क
वैशम्पाय़न उवाच:
नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ||
१८ ख
वैशम्पाय़न उवाच:
ते द्वन्द्वशः पृथक्चैव सिंहग्रीवा महौजसः |
१९ क
वैशम्पाय़न उवाच:
सिंहासनानि भूरीणि विचित्राणि च भेजिरे ||
१९ ख
वैशम्पाय़न उवाच:
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः |
२० क
वैशम्पाय़न उवाच:
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ||
२० ख
वैशम्पाय़न उवाच:
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तय़ः |
२१ क
वैशम्पाय़न उवाच:
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ||
२१ ख
युधिष्ठिर उवाच:
अय़ं वहुधनो राजन्सागरावर्तसम्भवः |
२२ क
युधिष्ठिर उवाच:
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ||
२२ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव |
२३ क
युधिष्ठिर उवाच:
भवत्वेष क्रमस्तात जय़ाम्येनं दुरोदरम् ||
२३ ख
दुर्योधन उवाच:
सन्ति मे मणय़श्चैव धनानि विविधानि च |
२४ क
दुर्योधन उवाच:
मत्सरश्च न मेऽर्थेषु जय़ाम्येनं दुरोदरम् ||
२४ ख
वैशम्पाय़न उवाच:
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् |
२५ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२५ ख