वृहदश्व उवाच:
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमव्रवीत् |
१ क
वृहदश्व उवाच:
प्रणय़स्व यथाश्रद्धं राजन्किं करवाणि ते ||
१ ख
वृहदश्व उवाच:
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन |
२ क
वृहदश्व उवाच:
सर्वं तत्तव विश्रव्धं कुरु प्रणय़मीश्वर ||
२ ख
वृहदश्व उवाच:
हंसानां वचनं यत्तत्तन्मां दहति पार्थिव |
३ क
वृहदश्व उवाच:
त्वत्कृते हि मय़ा वीर राजानः संनिपातिताः ||
३ ख
वृहदश्व उवाच:
यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद |
४ क
वृहदश्व उवाच:
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ||
४ ख
वृहदश्व उवाच:
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह |
५ क
वृहदश्व उवाच:
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ||
५ ख
वृहदश्व उवाच:
येषामहं लोककृतामीश्वराणां महात्मनाम् |
६ क
वृहदश्व उवाच:
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ||
६ ख
वृहदश्व उवाच:
विप्रिय़ं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति |
७ क
वृहदश्व उवाच:
त्राहि मामनवद्याङ्गि वरय़स्व सुरोत्तमान् ||
७ ख
वृहदश्व उवाच:
ततो वाष्पकलां वाचं दमय़न्ती शुचिस्मिता |
८ क
वृहदश्व उवाच:
प्रव्याहरन्ती शनकैर्नलं राजानमव्रवीत् ||
८ ख
वृहदश्व उवाच:
अस्त्युपाय़ो मय़ा दृष्टो निरपाय़ो नरेश्वर |
९ क
वृहदश्व उवाच:
येन दोषो न भविता तव राजन्कथञ्चन ||
९ ख
वृहदश्व उवाच:
त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः |
१० क
वृहदश्व उवाच:
आय़ान्तु सहिताः सर्वे मम यत्र स्वय़ंवरः ||
१० ख
वृहदश्व उवाच:
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर |
११ क
वृहदश्व उवाच:
वरय़िष्ये नरव्याघ्र नैवं दोषो भविष्यति ||
११ ख
वृहदश्व उवाच:
एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते |
१२ क
वृहदश्व उवाच:
आजगाम पुनस्तत्र यत्र देवाः समागताः ||
१२ ख
वृहदश्व उवाच:
तमपश्यंस्तथाय़ान्तं लोकपालाः सहेश्वराः |
१३ क
वृहदश्व उवाच:
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् ||
१३ ख
देवा ऊचुः:
कच्चिद्दृष्टा त्वय़ा राजन्दमय़न्ती शुचिस्मिता |
१४ क
देवा ऊचुः:
किमव्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ||
१४ ख
नल उवाच:
भवद्भिरहमादिष्टो दमय़न्त्या निवेशनम् |
१५ क
नल उवाच:
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ||
१५ ख
नल उवाच:
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः |
१६ क
नल उवाच:
ऋते तां पार्थिवसुतां भवतामेव तेजसा ||
१६ ख
नल उवाच:
सख्यश्चास्या मय़ा दृष्टास्ताभिश्चाप्युपलक्षितः |
१७ क
नल उवाच:
विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विवुधेश्वराः ||
१७ ख
नल उवाच:
वर्ण्यमानेषु च मय़ा भवत्सु रुचिरानना |
१८ क
नल उवाच:
मामेव गतसङ्कल्पा वृणीते सुरसत्तमाः ||
१८ ख
नल उवाच:
अव्रवीच्चैव मां वाला आय़ान्तु सहिताः सुराः |
१९ क
नल उवाच:
त्वय़ा सह नरश्रेष्ठ मम यत्र स्वय़ंवरः ||
१९ ख
नल उवाच:
तेषामहं संनिधौ त्वां वरय़िष्ये नरोत्तम |
२० क
नल उवाच:
एवं तव महावाहो दोषो न भवितेति ह ||
२० ख
नल उवाच:
एतावदेव विवुधा यथावृत्तमुदाहृतम् |
२१ क
नल उवाच:
मय़ाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ||
२१ ख