अर्जुन उवाच:
यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा |
१ क
अर्जुन उवाच:
उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता |
१ ख
अर्जुन उवाच:
तत्र मां वह भद्रं ते द्रोणानीकाय़ मारिष ||
१ ग
अर्जुन उवाच:
अश्वाः शोणाः प्रकाशन्ते वृहन्तश्चारुवाहिनः |
२ क
अर्जुन उवाच:
स्निग्धविद्रुमसङ्काशास्ताम्रास्याः प्रिय़दर्शनाः |
२ ख
अर्जुन उवाच:
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ||
२ ग
अर्जुन उवाच:
दीर्घवाहुर्महातेजा वलरूपसमन्वितः |
३ क
अर्जुन उवाच:
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ||
३ ख
अर्जुन उवाच:
वुद्ध्या तुल्यो ह्युशनसा वृहस्पतिसमो नय़े |
४ क
अर्जुन उवाच:
वेदास्तथैव चत्वारो व्रह्मचर्यं तथैव च ||
४ ख
अर्जुन उवाच:
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष |
५ क
अर्जुन उवाच:
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ||
५ ख
अर्जुन उवाच:
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् |
६ क
अर्जुन उवाच:
एते चान्ये च वहवो गुणा यस्मिन्द्विजोत्तमे ||
६ ख
अर्जुन उवाच:
तेनाहं योद्धुमिच्छामि महाभागेन संय़ुगे |
७ क
अर्जुन उवाच:
तस्मात्त्वं प्रापय़ाचार्यं क्षिप्रमुत्तर वाहय़ ||
७ ख
वैशम्पाय़न उवाच:
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् |
८ क
वैशम्पाय़न उवाच:
चोदय़ामास तानश्वान्भारद्वाजरथं प्रति ||
८ ख
वैशम्पाय़न उवाच:
तमापतन्तं वेगेन पाण्डवं रथिनां वरम् |
९ क
वैशम्पाय़न उवाच:
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ||
९ ख
वैशम्पाय़न उवाच:
ततः प्राध्मापय़च्छङ्खं भेरीशतनिनादितम् |
१० क
वैशम्पाय़न उवाच:
प्रचुक्षुभे वलं सर्वमुद्धूत इव सागरः ||
१० ख
वैशम्पाय़न उवाच:
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः |
११ क
वैशम्पाय़न उवाच:
मिश्रितान्समरे दृष्ट्वा व्यस्मय़न्त रणे जनाः ||
११ ख
वैशम्पाय़न उवाच:
तौ रथौ वीर्यसम्पन्नौ दृष्ट्वा सङ्ग्राममूर्धनि |
१२ क
वैशम्पाय़न उवाच:
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ||
१२ ख
वैशम्पाय़न उवाच:
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महावलौ |
१३ क
वैशम्पाय़न उवाच:
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्वलम् ||
१३ ख
वैशम्पाय़न उवाच:
हर्षय़ुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् |
१४ क
वैशम्पाय़न उवाच:
रथं रथेन द्रोणस्य समासाद्य महारथः ||
१४ ख
वैशम्पाय़न उवाच:
अभिवाद्य महावाहुः सान्त्वपूर्वमिदं वचः |
१५ क
वैशम्पाय़न उवाच:
उवाच श्लक्ष्णय़ा वाचा कौन्तेय़ः परवीरहा ||
१५ ख
वैशम्पाय़न उवाच:
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः |
१६ क
वैशम्पाय़न उवाच:
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय़ ||
१६ ख
वैशम्पाय़न उवाच:
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ |
१७ क
वैशम्पाय़न उवाच:
इति मे वर्तते वुद्धिस्तद्भवान्कर्तुमर्हति ||
१७ ख
वैशम्पाय़न उवाच:
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् |
१८ क
वैशम्पाय़न उवाच:
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ||
१८ ख
वैशम्पाय़न उवाच:
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् |
१९ क
वैशम्पाय़न उवाच:
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शय़न् ||
१९ ख
वैशम्पाय़न उवाच:
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः |
२० क
वैशम्पाय़न उवाच:
समं विमुञ्चतोः सङ्ख्ये विशिखान्दीप्ततेजसः ||
२० ख
वैशम्पाय़न उवाच:
तावुभौ ख्यातकर्माणावुभौ वाय़ुसमौ जवे |
२१ क
वैशम्पाय़न उवाच:
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ |
२१ ख
वैशम्पाय़न उवाच:
क्षिपन्तौ शरजालानि मोहय़ामासतुर्नृपान् ||
२१ ग
वैशम्पाय़न उवाच:
व्यस्मय़न्त ततो योधाः सर्वे तत्र समागताः |
२२ क
वैशम्पाय़न उवाच:
शरान्विसृजतोस्तूर्णं साधु साध्विति पूजय़न् ||
२२ ख
वैशम्पाय़न उवाच:
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् |
२३ क
वैशम्पाय़न उवाच:
रौद्रः क्षत्रिय़धर्मोऽय़ं गुरुणा यदय़ुध्यत |
२३ ख
वैशम्पाय़न उवाच:
इत्यव्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः ||
२३ ग
वैशम्पाय़न उवाच:
वीरौ तावपि संरव्धौ संनिकृष्टौ महारथौ |
२४ क
वैशम्पाय़न उवाच:
छादय़ेतां शरव्रातैरन्योन्यमपराजितौ ||
२४ ख
वैशम्पाय़न उवाच:
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् |
२५ क
वैशम्पाय़न उवाच:
संरव्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ||
२५ ख
वैशम्पाय़न उवाच:
स साय़कमय़ैर्जालैरर्जुनस्य रथं प्रति |
२६ क
वैशम्पाय़न उवाच:
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादय़त्प्रभाम् ||
२६ ख
वैशम्पाय़न उवाच:
पार्थं च स महावाहुर्महावेगैर्महारथः |
२७ क
वैशम्पाय़न उवाच:
विव्याध निशितैर्वाणैर्मेघो वृष्ट्येव पर्वतम् ||
२७ ख
वैशम्पाय़न उवाच:
तथैव दिव्यं गाण्डीवं धनुरादाय़ पाण्डवः |
२८ क
वैशम्पाय़न उवाच:
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् |
२८ ख
वैशम्पाय़न उवाच:
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्वहून् ||
२८ ग
वैशम्पाय़न उवाच:
नाशय़ञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् |
२९ क
वैशम्पाय़न उवाच:
तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ||
२९ ख
वैशम्पाय़न उवाच:
स रथेन चरन्पार्थः प्रेक्षणीय़ो धनञ्जय़ः |
३० क
वैशम्पाय़न उवाच:
युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शय़त् ||
३० ख
वैशम्पाय़न उवाच:
एकच्छाय़मिवाकाशं वाणैश्चक्रे समन्ततः |
३१ क
वैशम्पाय़न उवाच:
नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ||
३१ ख
वैशम्पाय़न उवाच:
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः |
३२ क
वैशम्पाय़न उवाच:
जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ||
३२ ख
वैशम्पाय़न उवाच:
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् |
३३ क
वैशम्पाय़न उवाच:
स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ||
३३ ख
वैशम्पाय़न उवाच:
अग्निचक्रोपमं घोरं विकर्षन्परमाय़ुधम् |
३४ क
वैशम्पाय़न उवाच:
व्यशातय़च्छरांस्तांस्तु द्रोणः समितिशोभनः |
३४ ख
वैशम्पाय़न उवाच:
महानभूत्ततः शव्दो वंशानामिव दह्यताम् ||
३४ ग
वैशम्पाय़न उवाच:
जाम्वूनदमय़ैः पुङ्खैश्चित्रचापवरातिगैः |
३५ क
वैशम्पाय़न उवाच:
प्राच्छादय़दमेय़ात्मा दिशः सूर्यस्य च प्रभाम् ||
३५ ख
वैशम्पाय़न उवाच:
ततः कनकपुङ्खानां शराणां नतपर्वणाम् |
३६ क
वैशम्पाय़न उवाच:
विय़च्चराणां विय़ति दृश्यन्ते वहुशः प्रजाः ||
३६ ख
वैशम्पाय़न उवाच:
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् |
३७ क
वैशम्पाय़न उवाच:
एको दीर्घ इवादृश्यदाकाशे संहतः शरः ||
३७ ख
वैशम्पाय़न उवाच:
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् |
३८ क
वैशम्पाय़न उवाच:
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ||
३८ ख
वैशम्पाय़न उवाच:
शरास्तय़ोश्च विवभुः कङ्कवर्हिणवाससः |
३९ क
वैशम्पाय़न उवाच:
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ||
३९ ख
वैशम्पाय़न उवाच:
युद्धं समभवत्तत्र सुसंरव्धं महात्मनोः |
४० क
वैशम्पाय़न उवाच:
द्रोणपाण्डवय़ोर्घोरं वृत्रवासवय़ोरिव ||
४० ख
वैशम्पाय़न उवाच:
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् |
४१ क
वैशम्पाय़न उवाच:
शरैः पूर्णाय़तोत्सृष्टैरन्योन्यमभिजघ्नतुः ||
४१ ख
वैशम्पाय़न उवाच:
तौ व्यवाहरतां शूरौ संरव्धौ रणशोभिनौ |
४२ क
वैशम्पाय़न उवाच:
उदीरय़न्तौ समरे दिव्यान्यस्त्राणि भागशः ||
४२ ख
वैशम्पाय़न उवाच:
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् |
४३ क
वैशम्पाय़न उवाच:
न्यवारय़च्छितैर्वाणैरर्जुनो जय़तां वरः ||
४३ ख
वैशम्पाय़न उवाच:
दर्शय़न्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः |
४४ क
वैशम्पाय़न उवाच:
इषुभिस्तूर्णमाकाशं वहुभिश्च समावृणोत् ||
४४ ख
वैशम्पाय़न उवाच:
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् |
४५ क
वैशम्पाय़न उवाच:
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः |
४५ ख
वैशम्पाय़न उवाच:
अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ||
४५ ग
वैशम्पाय़न उवाच:
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे |
४६ क
वैशम्पाय़न उवाच:
अस्त्रैरस्त्राणि संवार्य फल्गुनः समय़ोधय़त् ||
४६ ख
वैशम्पाय़न उवाच:
तय़ोरासीत्सम्प्रहारः क्रुद्धय़ोर्नरसिंहय़ोः |
४७ क