chevron_left उद्योग पर्व अध्याय ५३
सञ्जय़ उवाच:
एवमेतन्महाराज यथा वदसि भारत |
१ क
सञ्जय़ उवाच:
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ||
१ ख
सञ्जय़ उवाच:
इदं तु नाभिजानामि तव धीरस्य नित्यशः |
२ क
सञ्जय़ उवाच:
यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः ||
२ ख
सञ्जय़ उवाच:
नैष कालो महाराज तव शश्वत्कृतागसः |
३ क
सञ्जय़ उवाच:
त्वय़ा ह्येवादितः पार्था निकृता भरतर्षभ ||
३ ख
सञ्जय़ उवाच:
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् |
४ क
सञ्जय़ उवाच:
आस्थेय़ं हि हितं तेन न द्रोग्धा गुरुरुच्यते ||
४ ख
सञ्जय़ उवाच:
इदं जितमिदं लव्धमिति श्रुत्वा पराजितान् |
५ क
सञ्जय़ उवाच:
द्यूतकाले महाराज स्मय़से स्म कुमारवत् ||
५ ख
सञ्जय़ उवाच:
परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे |
६ क
सञ्जय़ उवाच:
कृत्स्नं राज्यं जय़न्तीति प्रपातं नानुपश्यसि ||
६ ख
सञ्जय़ उवाच:
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः |
७ क
सञ्जय़ उवाच:
अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः ||
७ ख
सञ्जय़ उवाच:
वाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता |
८ क
सञ्जय़ उवाच:
मय़ेदं कृतमित्येव मन्यसे राजसत्तम ||
८ ख
सञ्जय़ उवाच:
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि |
९ क
सञ्जय़ उवाच:
आनिनाय़ पुनः पार्थः पुत्रांस्ते राजसत्तम ||
९ ख
सञ्जय़ उवाच:
कुमारवच्च स्मय़से द्यूते विनिकृतेषु यत् |
१० क
सञ्जय़ उवाच:
पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः ||
१० ख
सञ्जय़ उवाच:
प्रवर्षतः शरव्रातानर्जुनस्य शितान्वहून् |
११ क
सञ्जय़ उवाच:
अप्यर्णवा विशुष्येय़ुः किं पुनर्मांसय़ोनय़ः ||
११ ख
सञ्जय़ उवाच:
अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् |
१२ क
सञ्जय़ उवाच:
केशवः सर्वभूतानां चक्राणां च सुदर्शनम् ||
१२ ख
सञ्जय़ उवाच:
वानरो रोचमानश्च केतुः केतुमतां वरः |
१३ क
सञ्जय़ उवाच:
एवमेतानि सरथो वहञ्श्वेतहय़ो रणे |
१३ ख
सञ्जय़ उवाच:
क्षपय़िष्यति नो राजन्कालचक्रमिवोद्यतम् ||
१३ ग
सञ्जय़ उवाच:
तस्याद्य वसुधा राजन्निखिला भरतर्षभ |
१४ क
सञ्जय़ उवाच:
यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ||
१४ ख
सञ्जय़ उवाच:
तथा भीमहतप्राय़ां मज्जन्तीं तव वाहिनीम् |
१५ क
सञ्जय़ उवाच:
दुर्योधनमुखा दृष्ट्वा क्षय़ं यास्यन्ति कौरवाः ||
१५ ख
सञ्जय़ उवाच:
न हि भीमभय़ाद्भीता लप्स्यन्ते विजय़ं विभो |
१६ क
सञ्जय़ उवाच:
तव पुत्रा महाराज राजानश्चानुसारिणः ||
१६ ख
सञ्जय़ उवाच:
मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकय़ाः |
१७ क
सञ्जय़ उवाच:
शाल्वेय़ाः शूरसेनाश्च सर्वे त्वामवजानते |
१७ ख
सञ्जय़ उवाच:
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ||
१७ ग
सञ्जय़ उवाच:
अनर्हानेव तु वधे धर्मय़ुक्तान्विकर्मणा |
१८ क
सञ्जय़ उवाच:
सर्वोपाय़ैर्निय़न्तव्यः सानुगः पापपूरुषः |
१८ ख
सञ्जय़ उवाच:
तव पुत्रो महाराज नात्र शोचितुमर्हसि ||
१८ ग
सञ्जय़ उवाच:
द्यूतकाले मय़ा चोक्तं विदुरेण च धीमता |
१९ क
सञ्जय़ उवाच:
यदिदं ते विलपितं पाण्डवान्प्रति भारत |
१९ ख
सञ्जय़ उवाच:
अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ||
१९ ग