सञ्जय़ उवाच:
ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च |
१ क
सञ्जय़ उवाच:
धनञ्जय़ो रथानीकमवधीत्तव भारत |
१ ख
सञ्जय़ उवाच:
शरैरतिरथो युद्धे पातय़न्रथय़ूथपान् ||
१ ग
सञ्जय़ उवाच:
ते वध्यमानाः पार्थेन कालेनेव युगक्षय़े |
२ क
सञ्जय़ उवाच:
धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधय़न् |
२ ख
सञ्जय़ उवाच:
प्रार्थय़ाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ||
२ ग
सञ्जय़ उवाच:
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् |
३ क
सञ्जय़ उवाच:
वभञ्जुर्वहुशो राजंस्ते चाभज्यन्त संय़ुगे ||
३ ख
सञ्जय़ उवाच:
द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च |
४ क
सञ्जय़ उवाच:
पाण्डवैः कौरवैश्चैव न प्रज्ञाय़त किञ्चन ||
४ ख
सञ्जय़ उवाच:
उदतिष्ठद्रजो भौमं छादय़ानं दिवाकरम् |
५ क
सञ्जय़ उवाच:
दिशः प्रतिदिशो वापि तत्र जज्ञुः कथञ्चन ||
५ ख
सञ्जय़ उवाच:
अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संय़ुगे |
६ क
सञ्जय़ उवाच:
वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ||
६ ख
सञ्जय़ उवाच:
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन |
७ क
सञ्जय़ उवाच:
रक्षितः सत्यसन्धेन भारद्वाजेन धीमता ||
७ ख
सञ्जय़ उवाच:
तथैव पाण्डवेय़ानां रक्षितः सव्यसाचिना |
८ क
सञ्जय़ उवाच:
नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः ||
८ ख
सञ्जय़ उवाच:
सेनाग्रादभिनिष्पत्य प्राय़ुध्यंस्तत्र मानवाः |
९ क
सञ्जय़ उवाच:
उभय़ोः सेनय़ो राजन्व्यतिषक्तरथद्विपाः ||
९ ख
सञ्जय़ उवाच:
हय़ारोहैर्हय़ारोहाः पात्यन्ते स्म महाहवे |
१० क
सञ्जय़ उवाच:
ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संय़ुगे ||
१० ख
सञ्जय़ उवाच:
रथी रथिनमासाद्य शरैः कनकभूषणैः |
११ क
सञ्जय़ उवाच:
पातय़ामास समरे तस्मिन्नतिभय़ङ्करे ||
११ ख
सञ्जय़ उवाच:
गजारोहा गजारोहान्नाराचशरतोमरैः |
१२ क
सञ्जय़ उवाच:
संसक्ताः पातय़ामासुस्तव तेषां च सङ्घशः ||
१२ ख
सञ्जय़ उवाच:
पत्तिसङ्घा रणे पत्तीन्भिण्डिपालपरश्वधैः |
१३ क
सञ्जय़ उवाच:
न्यपातय़न्त संहृष्टाः परस्परकृतागसः ||
१३ ख
सञ्जय़ उवाच:
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् |
१४ क
सञ्जय़ उवाच:
न्यपातय़च्छितैः शस्त्रैः सेनय़ोरुभय़ोरपि ||
१४ ख
सञ्जय़ उवाच:
गजारोहा हय़ारोहान्पातय़ां चक्रिरे तदा |
१५ क
सञ्जय़ उवाच:
हय़ारोहा गजस्थांश्च तदद्भुतमिवाभवत् ||
१५ ख
सञ्जय़ उवाच:
गजारोहवरैश्चापि तत्र तत्र पदातय़ः |
१६ क
सञ्जय़ उवाच:
पातिताः समदृश्यन्त तैश्चापि गजय़ोधिनः ||
१६ ख
सञ्जय़ उवाच:
पत्तिसङ्घा हय़ारोहैः सादिसङ्घाश्च पत्तिभिः |
१७ क
सञ्जय़ उवाच:
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ||
१७ ख
सञ्जय़ उवाच:
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा |
१८ क
सञ्जय़ उवाच:
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ||
१८ ख
सञ्जय़ उवाच:
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि |
१९ क
सञ्जय़ उवाच:
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ||
१९ ख
सञ्जय़ उवाच:
परिस्तोमैः कुथाभिश्च कम्वलैश्च महाधनैः |
२० क
सञ्जय़ उवाच:
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ||
२० ख
सञ्जय़ उवाच:
नराश्वकाय़ैः पतितैर्दन्तिभिश्च महाहवे |
२१ क
सञ्जय़ उवाच:
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||
२१ ख
सञ्जय़ उवाच:
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः |
२२ क
सञ्जय़ उवाच:
दिशश्च विमलाः सर्वाः सम्वभूवुर्जनेश्वर ||
२२ ख
सञ्जय़ उवाच:
उत्थितान्यगणेय़ानि कवन्धानि समन्ततः |
२३ क
सञ्जय़ उवाच:
चिह्नभूतानि जगतो विनाशार्थाय़ भारत ||
२३ ख
सञ्जय़ उवाच:
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे |
२४ क
सञ्जय़ उवाच:
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ||
२४ ख
सञ्जय़ उवाच:
ततो द्रोणश्च भीष्मश्च सैन्धवश्च जय़द्रथः |
२५ क
सञ्जय़ उवाच:
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौवलः ||
२५ ख
सञ्जय़ उवाच:
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः |
२६ क
सञ्जय़ उवाच:
पाण्डवानामनीकानि वभञ्जुः स्म पुनः पुनः ||
२६ ख
सञ्जय़ उवाच:
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः |
२७ क
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च द्रौपदेय़ाश्च भारत ||
२७ ख
सञ्जय़ उवाच:
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः |
२८ क
सञ्जय़ उवाच:
द्रावय़ामासुराजौ ते त्रिदशा दानवानिव ||
२८ ख
सञ्जय़ उवाच:
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रिय़र्षभाः |
२९ क
सञ्जय़ उवाच:
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ||
२९ ख
सञ्जय़ उवाच:
विनिर्जित्य रिपून्वीराः सेनय़ोरुभय़ोरपि |
३० क
सञ्जय़ उवाच:
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ||
३० ख
सञ्जय़ उवाच:
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव |
३१ क
सञ्जय़ उवाच:
अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ||
३१ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः सर्वे महत्या सेनय़ा सह |
३२ क
सञ्जय़ उवाच:
द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिन्दमौ ||
३२ ख
सञ्जय़ उवाच:
किरीटी तु यय़ौ क्रुद्धः समर्थान्पार्थिवोत्तमान् |
३३ क
सञ्जय़ उवाच:
आर्जुनिः सात्यकिश्चैव यय़तुः सौवलं वलम् ||
३३ ख
सञ्जय़ उवाच:
ततः प्रववृते भूय़ः सङ्ग्रामो लोमहर्षणः |
३४ क
सञ्जय़ उवाच:
तावकानां परेषां च समरे विजिगीषताम् ||
३४ ख