सञ्जय़ उवाच:
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा |
१ क
सञ्जय़ उवाच:
वासुदेवो महावाहुर्धनञ्जय़मभाषत ||
१ ख
सञ्जय़ उवाच:
भ्रातॄणां मतमाज्ञाय़ त्वय़ा वाचा प्रतिश्रुतम् |
२ क
सञ्जय़ उवाच:
सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् ||
२ ख
सञ्जय़ उवाच:
असंमन्त्र्य मय़ा सार्धमतिभारोऽय़मुद्यतः |
३ क
सञ्जय़ उवाच:
कथं नु सर्वलोकस्य नावहास्या भवेमहि ||
३ ख
सञ्जय़ उवाच:
धार्तराष्ट्रस्य शिविरे मय़ा प्रणिहिताश्चराः |
४ क
सञ्जय़ उवाच:
त इमे शीघ्रमागम्य प्रवृत्तिं वेदय़न्ति नः ||
४ ख
सञ्जय़ उवाच:
त्वय़ा वै सम्प्रतिज्ञाते सिन्धुराजवधे तदा |
५ क
सञ्जय़ उवाच:
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ||
५ ख
सञ्जय़ उवाच:
तेन शव्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः |
६ क
सञ्जय़ उवाच:
नाकस्मात्सिंहनादोऽय़मिति मत्वा व्यवस्थिताः ||
६ ख
सञ्जय़ उवाच:
सुमहाञ्शव्दसम्पातः कौरवाणां महाभुज |
७ क
सञ्जय़ उवाच:
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ||
७ ख
सञ्जय़ उवाच:
अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनञ्जय़ः |
८ क
सञ्जय़ उवाच:
रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः ||
८ ख
सञ्जय़ उवाच:
तैर्यतद्भिरिय़ं सत्या श्रुता सत्यवतस्तव |
९ क
सञ्जय़ उवाच:
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ||
९ ख
सञ्जय़ उवाच:
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव |
१० क
सञ्जय़ उवाच:
आसन्सुय़ोधनामात्याः स च राजा जय़द्रथः ||
१० ख
सञ्जय़ उवाच:
अथोत्थाय़ सहामात्यैर्दीनः शिविरमात्मनः |
११ क
सञ्जय़ उवाच:
आय़ात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ||
११ ख
सञ्जय़ उवाच:
स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेय़सीः क्रिय़ाः |
१२ क
सञ्जय़ उवाच:
सुय़ोधनमिदं वाक्यमव्रवीद्राजसंसदि ||
१२ ख
सञ्जय़ उवाच:
मामसौ पुत्रहन्तेति श्वोऽभिय़ाता धनञ्जय़ः |
१३ क
सञ्जय़ उवाच:
प्रतिज्ञातो हि सेनाय़ा मध्ये तेन वधो मम ||
१३ ख
सञ्जय़ उवाच:
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः |
१४ क
सञ्जय़ उवाच:
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ||
१४ ख
सञ्जय़ उवाच:
ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जय़ः |
१५ क
सञ्जय़ उवाच:
पदं कृत्वाप्नुय़ाल्लक्ष्यं तस्मादत्र विधीय़ताम् ||
१५ ख
सञ्जय़ उवाच:
अथ रक्षा न मे सङ्ख्ये क्रिय़ते कुरुनन्दन |
१६ क
सञ्जय़ उवाच:
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ||
१६ ख
सञ्जय़ उवाच:
एवमुक्तस्त्ववाक्षीर्षो विमनाः स सुय़ोधनः |
१७ क
सञ्जय़ उवाच:
श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत ||
१७ ख
सञ्जय़ उवाच:
तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः |
१८ क
सञ्जय़ उवाच:
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ||
१८ ख
सञ्जय़ उवाच:
नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् |
१९ क
सञ्जय़ उवाच:
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ||
१९ ख
सञ्जय़ उवाच:
वासुदेवसहाय़स्य गाण्डीवं धुन्वतो धनुः |
२० क
सञ्जय़ उवाच:
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ||
२० ख
सञ्जय़ उवाच:
महेश्वरोऽपि पार्थेन श्रूय़ते योधितः पुरा |
२१ क
सञ्जय़ उवाच:
पदातिना महातेजा गिरौ हिमवति प्रभुः ||
२१ ख
सञ्जय़ उवाच:
दानवानां सहस्राणि हिरण्यपुरवासिनाम् |
२२ क
सञ्जय़ उवाच:
जघानेकरथेनैव देवराजप्रचोदितः ||
२२ ख
सञ्जय़ उवाच:
समाय़ुक्तो हि कौन्तेय़ो वासुदेवेन धीमता |
२३ क
सञ्जय़ उवाच:
सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः ||
२३ ख
सञ्जय़ उवाच:
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना |
२४ क
सञ्जय़ उवाच:
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ||
२४ ख
सञ्जय़ उवाच:
स राज्ञा स्वय़माचार्यो भृशमाक्रन्दितोऽर्जुन |
२५ क
सञ्जय़ उवाच:
संविधानं च विहितं रथाश्च किल सज्जिताः ||
२५ ख
सञ्जय़ उवाच:
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जय़ः |
२६ क
सञ्जय़ उवाच:
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ||
२६ ख
सञ्जय़ उवाच:
शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः |
२७ क
सञ्जय़ उवाच:
पद्मकर्णिकमध्यस्थः सूचीपाशे जय़द्रथः |
२७ ख
सञ्जय़ उवाच:
स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः ||
२७ ग
सञ्जय़ उवाच:
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि |
२८ क
सञ्जय़ उवाच:
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः |
२८ ख
सञ्जय़ उवाच:
एतानजित्वा सगणान्नैव प्राप्यो जय़द्रथः ||
२८ ग
सञ्जय़ उवाच:
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय़ |
२९ क
सञ्जय़ उवाच:
सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा ||
२९ ख
सञ्जय़ उवाच:
भूय़श्च चिन्तय़िष्यामि नीतिमात्महिताय़ वै |
३० क
सञ्जय़ उवाच:
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धय़े ||
३० ख
अर्जुन उवाच:
षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्वलाधिकान् |
३१ क
अर्जुन उवाच:
तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षय़े ||
३१ ख
अर्जुन उवाच:
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन |
३२ क
अर्जुन उवाच:
मय़ा द्रक्ष्यसि निर्भिन्नं जय़द्रथवधैषिणा ||
३२ ख
अर्जुन उवाच:
द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः |
३३ क
अर्जुन उवाच:
मूर्धानं सिन्धुराजस्य पातय़िष्यामि भूतले ||
३३ ख
अर्जुन उवाच:
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः |
३४ क
अर्जुन उवाच:
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः ||
३४ ख
अर्जुन उवाच:
पितरः सहगन्धर्वाः सुपर्णाः सागराद्रय़ः |
३५ क
अर्जुन उवाच:
द्यौर्विय़त्पृथिवी चेय़ं दिशश्च सदिगीश्वराः ||
३५ ख
अर्जुन उवाच:
ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च |
३६ क
अर्जुन उवाच:
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ||
३६ ख
अर्जुन उवाच:
तथापि वाणैर्निहतं श्वो द्रष्टासि रणे मय़ा |
३७ क
अर्जुन उवाच:
सत्येन ते शपे कृष्ण तथैवाय़ुधमालभे ||
३७ ख
अर्जुन उवाच:
यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः |
३८ क
अर्जुन उवाच:
तमेव प्रथमं द्रोणमभिय़ास्यामि केशव ||
३८ ख
अर्जुन उवाच:
तस्मिन्द्यूतमिदं वद्धं मन्यते स्म सुय़ोधनः |
३९ क
अर्जुन उवाच:
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ||
३९ ख
अर्जुन उवाच:
द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः |
४० क
अर्जुन उवाच:
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मय़ा युधि ||
४० ख
अर्जुन उवाच:
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् |
४१ क
अर्जुन उवाच:
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ||
४१ ख
अर्जुन उवाच:
गाण्डीवप्रेषिता वाणा मनोनिलसमा जवे |
४२ क
अर्जुन उवाच:
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ||
४२ ख
अर्जुन उवाच:
यमात्कुवेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मय़ा |
४३ क
अर्जुन उवाच:
उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि ||
४३ ख
अर्जुन उवाच:
व्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संय़ुगे |
४४ क
अर्जुन उवाच:
मय़ा द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् ||
४४ ख
अर्जुन उवाच:
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः |
४५ क
अर्जुन उवाच:
आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मय़ा युधि ||
४५ ख
अर्जुन उवाच:
क्रव्यादांस्तर्पय़िष्यामि द्रावय़िष्यामि शात्रवान् |
४६ क
अर्जुन उवाच:
सुहृदो नन्दय़िष्यामि पातय़िष्यामि सैन्धवम् ||
४६ ख
अर्जुन उवाच:
वह्वागस्कृत्कुसम्वन्धी पापदेशसमुद्भवः |
४७ क
अर्जुन उवाच:
मय़ा सैन्धवको राजा हतः स्वाञ्शोचय़िष्यति ||
४७ ख
अर्जुन उवाच:
सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे |
४८ क
अर्जुन उवाच:
मय़ा सराजका वाणैर्नुन्ना नङ्क्ष्यन्ति सैन्धवाः ||
४८ ख
अर्जुन उवाच:
तथा प्रभाते कर्तास्मि यथा कृष्ण सुय़ोधनः |
४९ क
अर्जुन उवाच:
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ||
४९ ख