सञ्जय़ उवाच:
तेषामनीकानि वृहद्ध्वजानि; रणे समृद्धानि समागतानि |
१ क
सञ्जय़ उवाच:
गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर्यथा मेघगणास्तपान्ते ||
१ ख
सञ्जय़ उवाच:
महागजाभ्राकुलमस्त्रतोय़ं; वादित्रनेमीतलशव्दवच्च |
२ क
सञ्जय़ उवाच:
हिरण्यचित्राय़ुधवैद्युतं च; महारथैरावृतशव्दवच्च ||
२ ख
सञ्जय़ उवाच:
तद्भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रिय़जीववाहि |
३ क
सञ्जय़ उवाच:
अनार्तवं क्रूरमनिष्टवर्षं; वभूव तत्संहरणं प्रजानाम् ||
३ ख
सञ्जय़ उवाच:
रथान्ससूतान्सहय़ान्गजांश्च; सर्वानरीन्मृत्युवशं शरौघैः |
४ क
सञ्जय़ उवाच:
निन्ये हय़ांश्चैव तथा ससादी; न्पदातिसङ्घांश्च तथैव पार्थः ||
४ ख
सञ्जय़ उवाच:
कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिरभ्यगच्छत |
५ क
सञ्जय़ उवाच:
श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश्चित्रसेनेन चापि ||
५ ख
सञ्जय़ उवाच:
कर्णस्य पुत्रस्तु रथी सुषेणं; समागतः सृञ्जय़ांश्चोत्तमौजाः |
६ क
सञ्जय़ उवाच:
गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत् ||
६ ख
सञ्जय़ उवाच:
शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः |
७ क
सञ्जय़ उवाच:
समार्दय़त्कर्णसुतश्च वीरः; पाञ्चालेय़ं शरवर्षैरनेकैः ||
७ ख
सञ्जय़ उवाच:
रथर्षभः कृतवर्माणमार्च्छ; न्माद्रीपुत्रो नकुलश्चित्रय़ोधी |
८ क
सञ्जय़ उवाच:
पाञ्चालानामधिपो याज्ञसेनिः; सेनापतिं कर्णमार्च्छत्ससैन्यम् ||
८ ख
सञ्जय़ उवाच:
दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा |
९ क
सञ्जय़ उवाच:
भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत्तमसह्यवेगम् ||
९ ख
सञ्जय़ उवाच:
कर्णात्मजं तत्र जघान शूर; स्तथाच्छिनच्चोत्तमौजाः प्रसह्य |
१० क
सञ्जय़ उवाच:
तस्योत्तमाङ्गं निपपात भूमौ; निनादय़द्गां निनदेन खं च ||
१० ख
सञ्जय़ उवाच:
सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णोऽथ तदार्तरूपः |
११ क
सञ्जय़ उवाच:
क्रोधाद्धय़ांस्तस्य रथं ध्वजं च; वाणैः सुधारैर्निशितैर्न्यकृन्तत् ||
११ ख
सञ्जय़ उवाच:
स तूत्तमौजा निशितैः पृषत्कै; र्विव्याध खड्गेन च भास्वरेण |
१२ क
सञ्जय़ उवाच:
पार्ष्णिं हय़ांश्चैव कृपस्य हत्वा; शिखण्डिवाहं स ततोऽभ्यरोहत् ||
१२ ख
सञ्जय़ उवाच:
कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच्छरैस्ताडय़ितुं शिखण्डी |
१३ क
सञ्जय़ उवाच:
तं द्रौणिरावार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम् ||
१३ ख
सञ्जय़ उवाच:
हिरण्यवर्मा निशितैः पृषत्कै; स्तवात्मजानामनिलात्मजो वै |
१४ क
सञ्जय़ उवाच:
अतापय़त्सैन्यमतीव भीमः; काले शुचौ मध्यगतो यथार्कः ||
१४ ख