chevron_left शल्य पर्व अध्याय ५३
वैशम्पाय़न उवाच:
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दाय़ांश्च सात्वतः |
१ क
वैशम्पाय़न उवाच:
आश्रमं सुमहद्दिव्यमगमज्जनमेजय़ ||
१ ख
वैशम्पाय़न उवाच:
मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसङ्कुलम् |
२ क
वैशम्पाय़न उवाच:
चिरिविल्वय़ुतं पुण्यं पनसार्जुनसङ्कुलम् ||
२ ख
वैशम्पाय़न उवाच:
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् |
३ क
वैशम्पाय़न उवाच:
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वय़म् ||
३ ख
वैशम्पाय़न उवाच:
ते तु सर्वे महात्मानमूचू राजन्हलाय़ुधम् |
४ क
वैशम्पाय़न उवाच:
शृणु विस्तरतो राम यस्याय़ं पूर्वमाश्रमः ||
४ ख
वैशम्पाय़न उवाच:
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् |
५ क
वैशम्पाय़न उवाच:
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ||
५ ख
वैशम्पाय़न उवाच:
अत्रैव व्राह्मणी सिद्धा कौमारव्रह्मचारिणी |
६ क
वैशम्पाय़न उवाच:
योगय़ुक्ता दिवं याता तपःसिद्धा तपस्विनी ||
६ ख
वैशम्पाय़न उवाच:
वभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः |
७ क
वैशम्पाय़न उवाच:
सुता धृतव्रता साध्वी निय़ता व्रह्मचारिणी ||
७ ख
वैशम्पाय़न उवाच:
सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् |
८ क
वैशम्पाय़न उवाच:
भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा |
८ ख
वैशम्पाय़न उवाच:
गता स्वर्गं महाभागा पूजिता निय़तात्मभिः ||
८ ग
वैशम्पाय़न उवाच:
अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुङ्गवः |
९ क
वैशम्पाय़न उवाच:
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः |
९ ख
वैशम्पाय़न उवाच:
स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम् ||
९ ग
वैशम्पाय़न उवाच:
नातिदूरं ततो गत्वा नगं तालध्वजो वली |
१० क
वैशम्पाय़न उवाच:
पुण्यं तीर्थवरं दृष्ट्वा विस्मय़ं परमं गतः ||
१० ख
वैशम्पाय़न उवाच:
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं वलः |
११ क
वैशम्पाय़न उवाच:
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ||
११ ख
वैशम्पाय़न उवाच:
हलाय़ुधस्तत्र चापि दत्त्वा दानं महावलः |
१२ क
वैशम्पाय़न उवाच:
आप्लुतः सलिले शीते तस्माच्चापि जगाम ह |
१२ ख
वैशम्पाय़न उवाच:
आश्रमं परमप्रीतो मित्रस्य वरुणस्य च ||
१२ ग
वैशम्पाय़न उवाच:
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् |
१३ क
वैशम्पाय़न उवाच:
तं देशं कारपचनाद्यमुनाय़ां जगाम ह ||
१३ ख
वैशम्पाय़न उवाच:
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च |
१४ क
वैशम्पाय़न उवाच:
ऋषिभिश्चैव सिद्धैश्च सहितो वै महावलः |
१४ ख
वैशम्पाय़न उवाच:
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ||
१४ ग
वैशम्पाय़न उवाच:
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः |
१५ क
वैशम्पाय़न उवाच:
आजगामाथ तं देशं यत्र रामो व्यवस्थितः ||
१५ ख
वैशम्पाय़न उवाच:
जटामण्डलसंवीतः स्वर्णचीरी महातपाः |
१६ क
वैशम्पाय़न उवाच:
हेमदण्डधरो राजन्कमण्डलुधरस्तथा ||
१६ ख
वैशम्पाय़न उवाच:
कच्छपीं सुखशव्दां तां गृह्य वीणां मनोरमाम् |
१७ क
वैशम्पाय़न उवाच:
नृत्ये गीते च कुशलो देवव्राह्मणपूजितः ||
१७ ख
वैशम्पाय़न उवाच:
प्रकर्ता कलहानां च नित्यं च कलहप्रिय़ः |
१८ क
वैशम्पाय़न उवाच:
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ||
१८ ख
वैशम्पाय़न उवाच:
प्रत्युत्थाय़ तु ते सर्वे पूजय़ित्वा यतव्रतम् |
१९ क
वैशम्पाय़न उवाच:
देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति ||
१९ ख
वैशम्पाय़न उवाच:
ततोऽस्याकथय़द्राजन्नारदः सर्वधर्मवित् |
२० क
वैशम्पाय़न उवाच:
सर्वमेव यथावृत्तमतीतं कुरुसङ्क्षय़म् ||
२० ख
वैशम्पाय़न उवाच:
ततोऽव्रवीद्रौहिणेय़ो नारदं दीनय़ा गिरा |
२१ क
वैशम्पाय़न उवाच:
किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः ||
२१ ख
वैशम्पाय़न उवाच:
श्रुतमेतन्मय़ा पूर्वं सर्वमेव तपोधन |
२२ क
वैशम्पाय़न उवाच:
विस्तरश्रवणे जातं कौतूहलमतीव मे ||
२२ ख
नारद उवाच:
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा |
२३ क
नारद उवाच:
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ||
२३ ख
नारद उवाच:
भूरिश्रवा रौहिणेय़ मद्रराजश्च वीर्यवान् |
२४ क
नारद उवाच:
एते चान्ये च वहवस्तत्र तत्र महावलाः ||
२४ ख
नारद उवाच:
प्रिय़ान्प्राणान्परित्यज्य प्रिय़ार्थं कौरवस्य वै |
२५ क
नारद उवाच:
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ||
२५ ख
नारद उवाच:
अहतांस्तु महावाहो शृणु मे तत्र माधव |
२६ क
नारद उवाच:
धार्तराष्ट्रवले शेषाः कृपो भोजश्च वीर्यवान् |
२६ ख
नारद उवाच:
अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः ||
२६ ग
नारद उवाच:
दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु |
२७ क
नारद उवाच:
ह्रदं द्वैपाय़नं नाम विवेश भृशदुःखितः ||
२७ ख
नारद उवाच:
शय़ानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा |
२८ क
नारद उवाच:
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दय़न् ||
२८ ख
नारद उवाच:
स तुद्यमानो वलवान्वाग्भी राम समन्ततः |
२९ क
नारद उवाच:
उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम् ||
२९ ख
नारद उवाच:
स चाप्युपगतो युद्धं भीमेन सह साम्प्रतम् |
३० क
नारद उवाच:
भविष्यति च तत्सद्यस्तय़ो राम सुदारुणम् ||
३० ख
नारद उवाच:
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् |
३१ क
नारद उवाच:
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ||
३१ ख
वैशम्पाय़न उवाच:
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् |
३२ क
वैशम्पाय़न उवाच:
सर्वान्विसर्जय़ामास ये तेनाभ्यागताः सह |
३२ ख
वैशम्पाय़न उवाच:
गम्यतां द्वारकां चेति सोऽन्वशादनुय़ाय़िनः ||
३२ ग
वैशम्पाय़न उवाच:
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् |
३३ क
वैशम्पाय़न उवाच:
ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् |
३३ ख
वैशम्पाय़न उवाच:
विप्राणां संनिधौ श्लोकमगाय़दिदमच्युतः ||
३३ ग
वैशम्पाय़न उवाच:
सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः |
३४ क
वैशम्पाय़न उवाच:
सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम् ||
३४ ख
वैशम्पाय़न उवाच:
सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा |
३५ क
वैशम्पाय़न उवाच:
सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च ||
३५ ख
वैशम्पाय़न उवाच:
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् |
३६ क
वैशम्पाय़न उवाच:
हय़ैर्युक्तं रथं शुभ्रमातिष्ठत परन्तपः ||
३६ ख
वैशम्पाय़न उवाच:
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः |
३७ क
वैशम्पाय़न उवाच:
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्धमुपस्थितम् ||
३७ ख