जनमेजय़ उवाच:
धर्मात्मनि महासत्त्वे सत्यसन्धे जितात्मनि |
१ क
जनमेजय़ उवाच:
देवव्रते महाभागे शरतल्पगतेऽच्युते ||
१ ख
जनमेजय़ उवाच:
शय़ाने वीरशय़ने भीष्मे शन्तनुनन्दने |
२ क
जनमेजय़ उवाच:
गाङ्गेय़े पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते ||
२ ख
जनमेजय़ उवाच:
काः कथाः समवर्तन्त तस्मिन्वीरसमागमे |
३ क
जनमेजय़ उवाच:
हतेषु सर्वसैन्येषु तन्मे शंस महामुने ||
३ ख
वैशम्पाय़न उवाच:
शरतल्पगते भीष्मे कौरवाणां धुरन्धरे |
४ क
वैशम्पाय़न उवाच:
आजग्मुरृषय़ः सिद्धा नारदप्रमुखा नृप ||
४ ख
वैशम्पाय़न उवाच:
हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः |
५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च कृष्णश्च भीमार्जुनय़मास्तथा ||
५ ख
वैशम्पाय़न उवाच:
तेऽभिगम्य महात्मानो भरतानां पितामहम् |
६ क
वैशम्पाय़न उवाच:
अन्वशोचन्त गाङ्गेय़मादित्यं पतितं यथा ||
६ ख
वैशम्पाय़न उवाच:
मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः |
७ क
वैशम्पाय़न उवाच:
उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् ||
७ ख
वैशम्पाय़न उवाच:
प्राप्तकालं च आचक्षे भीष्मोऽय़मनुय़ुज्यताम् |
८ क
वैशम्पाय़न उवाच:
अस्तमेति हि गाङ्गेय़ो भानुमानिव भारत ||
८ ख
वैशम्पाय़न उवाच:
अय़ं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत |
९ क
वैशम्पाय़न उवाच:
कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् ||
९ ख
वैशम्पाय़न उवाच:
एष वृद्धः पुरा लोकान्सम्प्राप्नोति तनुत्यजाम् |
१० क
वैशम्पाय़न उवाच:
तं शीघ्रमनुय़ुञ्जध्वं संशय़ान्मनसि स्थितान् ||
१० ख
वैशम्पाय़न उवाच:
एवमुक्ता नारदेन भीष्ममीय़ुर्नराधिपाः |
११ क
वैशम्पाय़न उवाच:
प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम् ||
११ ख
वैशम्पाय़न उवाच:
अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः |
१२ क
वैशम्पाय़न उवाच:
नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् ||
१२ ख
वैशम्पाय़न उवाच:
प्रव्याहारय़ दुर्धर्ष त्वमग्रे मधुसूदन |
१३ क
वैशम्पाय़न उवाच:
त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः ||
१३ ख
वैशम्पाय़न उवाच:
एवमुक्तः पाण्डवेन भगवान्केशवस्तदा |
१४ क
वैशम्पाय़न उवाच:
अभिगम्य दुराधर्षं प्रव्याहारय़दच्युतः ||
१४ ख
वासुदेव उवाच:
कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम |
१५ क
वासुदेव उवाच:
विस्पष्टलक्षणा वुद्धिः कच्चिच्चोपस्थिता तव ||
१५ ख
वासुदेव उवाच:
कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ |
१६ क
वासुदेव उवाच:
न ग्लाय़ते च हृदय़ं न च ते व्याकुलं मनः ||
१६ ख
भीष्म उवाच:
दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा |
१७ क
भीष्म उवाच:
तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ ||
१७ ख
भीष्म उवाच:
यच्च भूतं भविष्यच्च भवच्च परमद्युते |
१८ क
भीष्म उवाच:
तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् ||
१८ ख
भीष्म उवाच:
वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये |
१९ क
भीष्म उवाच:
तान्सर्वान्सम्प्रपश्यामि वरदानात्तवाच्युत ||
१९ ख
भीष्म उवाच:
शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते |
२० क
भीष्म उवाच:
देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन ||
२० ख
भीष्म उवाच:
चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः |
२१ क
भीष्म उवाच:
राजधर्मांश्च सकलानवगच्छामि केशव ||
२१ ख
भीष्म उवाच:
यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन |
२२ क
भीष्म उवाच:
तव प्रसादाद्धि शुभा मनो मे वुद्धिराविशत् ||
२२ ख
भीष्म उवाच:
युवेव चास्मि संवृत्तस्त्वदनुध्यानवृंहितः |
२३ क
भीष्म उवाच:
वक्तुं श्रेय़ः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन ||
२३ ख
भीष्म उवाच:
स्वय़ं किमर्थं तु भवाञ्श्रेय़ो न प्राह पाण्डवम् |
२४ क
भीष्म उवाच:
किं ते विवक्षितं चात्र तदाशु वद माधव ||
२४ ख
वासुदेव उवाच:
यशसः श्रेय़सश्चैव मूलं मां विद्धि कौरव |
२५ क
वासुदेव उवाच:
मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः ||
२५ ख
वासुदेव उवाच:
शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मय़िष्यति |
२६ क
वासुदेव उवाच:
तथैव यशसा पूर्णे मय़ि को विस्मय़िष्यति ||
२६ ख
वासुदेव उवाच:
आधेय़ं तु मय़ा भूय़ो यशस्तव महाद्युते |
२७ क
वासुदेव उवाच:
ततो मे विपुला वुद्धिस्त्वय़ि भीष्म समाहिता ||
२७ ख
वासुदेव उवाच:
यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा |
२८ क
वासुदेव उवाच:
तावत्तवाक्षय़ा कीर्तिर्लोकाननु चरिष्यति ||
२८ ख
वासुदेव उवाच:
यच्च त्वं वक्ष्यसे भीष्म पाण्डवाय़ानुपृच्छते |
२९ क
वासुदेव उवाच:
वेदप्रवादा इव ते स्थास्यन्ति वसुधातले ||
२९ ख
वासुदेव उवाच:
यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना |
३० क
वासुदेव उवाच:
स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति ||
३० ख
वासुदेव उवाच:
एतस्मात्कारणाद्भीष्म मतिर्दिव्या मय़ा हि ते |
३१ क
वासुदेव उवाच:
दत्ता यशो विप्रथेत कथं भूय़स्तवेति ह ||
३१ ख
वासुदेव उवाच:
यावद्धि प्रथते लोके पुरुषस्य यशो भुवि |
३२ क
वासुदेव उवाच:
तावत्तस्याक्षय़ं स्थानं भवतीति विनिश्चितम् ||
३२ ख
वासुदेव उवाच:
राजानो हतशिष्टास्त्वां राजन्नभित आसते |
३३ क
वासुदेव उवाच:
धर्माननुय़ुय़ुक्षन्तस्तेभ्यः प्रव्रूहि भारत ||
३३ ख
वासुदेव उवाच:
भवान्हि वय़सा वृद्धः श्रुताचारसमन्वितः |
३४ क
वासुदेव उवाच:
कुशलो राजधर्माणां पूर्वेषामपराश्च ये ||
३४ ख
वासुदेव उवाच:
जन्मप्रभृति ते कश्चिद्वृजिनं न ददर्श ह |
३५ क
वासुदेव उवाच:
ज्ञातारमनुधर्माणां त्वां विदुः सर्वपार्थिवाः ||
३५ ख
वासुदेव उवाच:
तेभ्यः पितेव पुत्रेभ्यो राजन्व्रूहि परं नय़म् |
३६ क
वासुदेव उवाच:
ऋषय़श्च हि देवाश्च त्वय़ा नित्यमुपासिताः ||
३६ ख
वासुदेव उवाच:
तस्माद्वक्तव्यमेवेह त्वय़ा पश्याम्यशेषतः |
३७ क
वासुदेव उवाच:
धर्माञ्शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः ||
३७ ख
वासुदेव उवाच:
वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः |
३८ क
वासुदेव उवाच:
अप्रतिव्रुवतः कष्टो दोषो हि भवति प्रभो ||
३८ ख
वासुदेव उवाच:
तस्मात्पुत्रैश्च पौत्रैश्च धर्मान्पृष्टः सनातनान् |
३९ क
वासुदेव उवाच:
विद्वाञ्जिज्ञासमानैस्त्वं प्रव्रूहि भरतर्षभ ||
३९ ख