वैशम्पाय़न उवाच:
नकुलस्य तु वक्ष्यामि कर्माणि विजय़ं तथा |
१ क
वैशम्पाय़न उवाच:
वासुदेवजितामाशां यथासौ व्यजय़त्प्रभुः ||
१ ख
वैशम्पाय़न उवाच:
निर्याय़ खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् |
२ क
वैशम्पाय़न उवाच:
उद्दिश्य मतिमान्प्राय़ान्महत्या सेनय़ा सह ||
२ ख
वैशम्पाय़न उवाच:
सिंहनादेन महता योधानां गर्जितेन च |
३ क
वैशम्पाय़न उवाच:
रथनेमिनिनादैश्च कम्पय़न्वसुधामिमाम् ||
३ ख
वैशम्पाय़न उवाच:
ततो वहुधनं रम्यं गवाश्वधनधान्यवत् |
४ क
वैशम्पाय़न उवाच:
कार्त्तिकेय़स्य दय़ितं रोहीतकमुपाद्रवत् ||
४ ख
वैशम्पाय़न उवाच:
तत्र युद्धं महद्वृत्तं शूरैर्मत्तमय़ूरकैः |
५ क
वैशम्पाय़न उवाच:
मरुभूमिं च कार्त्स्न्येन तथैव वहुधान्यकम् ||
५ ख
वैशम्पाय़न उवाच:
शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः |
६ क
वैशम्पाय़न उवाच:
शिवींस्त्रिगर्तानम्वष्ठान्मालवान्पञ्चकर्पटान् ||
६ ख
वैशम्पाय़न उवाच:
तथा मध्यमिकाय़ांश्च वाटधानान्द्विजानथ |
७ क
वैशम्पाय़न उवाच:
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ||
७ ख
वैशम्पाय़न उवाच:
गणानुत्सवसङ्केतान्व्यजय़त्पुरुषर्षभः |
८ क
वैशम्पाय़न उवाच:
सिन्धुकूलाश्रिता ये च ग्रामणेय़ा महावलाः ||
८ ख
वैशम्पाय़न उवाच:
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् |
९ क
वैशम्पाय़न उवाच:
वर्तय़न्ति च ये मत्स्यैर्ये च पर्वतवासिनः ||
९ ख
वैशम्पाय़न उवाच:
कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् |
१० क
वैशम्पाय़न उवाच:
उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् |
१० ख
वैशम्पाय़न उवाच:
द्वारपालं च तरसा वशे चक्रे महाद्युतिः ||
१० ग
वैशम्पाय़न उवाच:
रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः |
११ क
वैशम्पाय़न उवाच:
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ||
११ ख
वैशम्पाय़न उवाच:
तत्रस्थः प्रेषय़ामास वासुदेवाय़ चाभिभुः |
१२ क
वैशम्पाय़न उवाच:
स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ||
१२ ख
वैशम्पाय़न उवाच:
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् |
१३ क
वैशम्पाय़न उवाच:
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे वली ||
१३ ख
वैशम्पाय़न उवाच:
स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते |
१४ क
वैशम्पाय़न उवाच:
रत्नानि भूरीण्यादाय़ सम्प्रतस्थे युधां पतिः ||
१४ ख
वैशम्पाय़न उवाच:
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् |
१५ क
वैशम्पाय़न उवाच:
पह्लवान्वर्वरांश्चैव तान्सर्वाननय़द्वशम् ||
१५ ख
वैशम्पाय़न उवाच:
ततो रत्नान्युपादाय़ वशे कृत्वा च पार्थिवान् |
१६ क
वैशम्पाय़न उवाच:
न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ||
१६ ख
वैशम्पाय़न उवाच:
करभाणां सहस्राणि कोशं तस्य महात्मनः |
१७ क
वैशम्पाय़न उवाच:
ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ||
१७ ख
वैशम्पाय़न उवाच:
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् |
१८ क
वैशम्पाय़न उवाच:
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदय़त् ||
१८ ख
वैशम्पाय़न उवाच:
एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् |
१९ क
वैशम्पाय़न उवाच:
विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ||
१९ ख