chevron_left वन पर्व अध्याय २५२
वैशम्पाय़न उवाच:
सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा |
१ क
वैशम्पाय़न उवाच:
मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽव्रवीत्तं द्रुपदात्मजा पुनः ||
१ ख
वैशम्पाय़न उवाच:
यशस्विनस्तीक्ष्णविषान्महारथा; नधिक्षिपन्मूढ न लज्जसे कथम् |
२ क
वैशम्पाय़न उवाच:
महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम् ||
२ ख
वैशम्पाय़न उवाच:
न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा |
३ क
वैशम्पाय़न उवाच:
तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर ||
३ ख
वैशम्पाय़न उवाच:
अहं तु मन्ये तव नास्ति कश्चि; देतादृशे क्षत्रिय़संनिवेशे |
४ क
वैशम्पाय़न उवाच:
यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत ||
४ ख
वैशम्पाय़न उवाच:
नागं प्रभिन्नं गिरिकूटकल्प; मुपत्यकां हैमवतीं चरन्तम् |
५ क
वैशम्पाय़न उवाच:
दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम् ||
५ ख
वैशम्पाय़न उवाच:
वाल्यात्प्रसुप्तस्य महावलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि |
६ क
वैशम्पाय़न उवाच:
पदा समाहत्य पलाय़मानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ||
६ ख
वैशम्पाय़न उवाच:
महावलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु |
७ क
वैशम्पाय़न उवाच:
प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ||
७ ख
वैशम्पाय़न उवाच:
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे |
८ क
वैशम्पाय़न उवाच:
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रय़ुय़ुत्ससे त्वम् ||
८ ख
वैशम्पाय़न उवाच:
यथा च वेणुः कदली नलो वा; फलन्त्यभावाय़ न भूतय़ेऽऽत्मनः |
९ क
वैशम्पाय़न उवाच:
तथैव मां तैः परिरक्ष्यमाणा; मादास्यसे कर्कटकीव गर्भम् ||
९ ख
जय़द्रथ उवाच:
जानामि कृष्णे विदितं ममैत; द्यथाविधास्ते नरदेवपुत्राः |
१० क
जय़द्रथ उवाच:
न त्वेवमेतेन विभीषणेन; शक्या वय़ं त्रासय़ितुं त्वय़ाद्य ||
१० ख
जय़द्रथ उवाच:
वय़ं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः |
११ क
जय़द्रथ उवाच:
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना; न्मन्यामहे द्रौपदि पाण्डुपुत्रान् ||
११ ख
जय़द्रथ उवाच:
सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वय़ं हि शक्याः |
१२ क
जय़द्रथ उवाच:
आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् ||
१२ ख
द्रौपद्यु उवाच:
महावला किं त्विह दुर्वलेव; सौवीरराजस्य मताहमस्मि |
१३ क
द्रौपद्यु उवाच:
याहं प्रमाथादिह सम्प्रतीता; सौवीरराजं कृपणं वदेय़म् ||
१३ ख
द्रौपद्यु उवाच:
यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहाय़ौ |
१४ क
द्रौपद्यु उवाच:
इन्द्रोऽपि तां नापहरेत्कथं चि; न्मनुष्यमात्रः कृपणः कुतोऽन्यः ||
१४ ख
द्रौपद्यु उवाच:
यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि |
१५ क
द्रौपद्यु उवाच:
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु ||
१५ ख
द्रौपद्यु उवाच:
जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकय़ाश्चापि सर्वे |
१६ क
द्रौपद्यु उवाच:
एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेय़ुः ||
१६ ख
द्रौपद्यु उवाच:
मौर्वीविसृष्टाः स्तनय़ित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः |
१७ क
द्रौपद्यु उवाच:
हस्तं समाहत्य धनञ्जय़स्य; भीमाः शव्दं घोरतरं नदन्ति ||
१७ ख
द्रौपद्यु उवाच:
गाण्डीवमुक्तांश्च महाशरौघा; न्पतङ्गसङ्घानिव शीघ्रवेगान् |
१८ क
द्रौपद्यु उवाच:
सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च |
१८ ख
द्रौपद्यु उवाच:
यदा शरानर्पय़िता तवोरसि; तदा मनस्ते किमिवाभविष्यत् ||
१८ ग
द्रौपद्यु उवाच:
गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ सम्पतन्तौ दिशश्च |
१९ क
द्रौपद्यु उवाच:
अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम ||
१९ ख
द्रौपद्यु उवाच:
यथा चाहं नातिचरे कथं चि; त्पतीन्महार्हान्मनसापि जातु |
२० क
द्रौपद्यु उवाच:
तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् ||
२० ख
द्रौपद्यु उवाच:
न सम्भ्रमं गन्तुमहं हि शक्ष्ये; त्वय़ा नृशंसेन विकृष्यमाणा |
२१ क
द्रौपद्यु उवाच:
समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च ||
२१ ख
वैशम्पाय़न उवाच:
सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सय़न्ती |
२२ क
वैशम्पाय़न उवाच:
प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा ||
२२ ख
वैशम्पाय़न उवाच:
जग्राह तामुत्तरवस्त्रदेशे; जय़द्रथस्तं समवाक्षिपत्सा |
२३ क
वैशम्पाय़न उवाच:
तय़ा समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः ||
२३ ख
वैशम्पाय़न उवाच:
प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री |
२४ क
वैशम्पाय़न उवाच:
सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा ||
२४ ख
धौम्य उवाच:
नेय़ं शक्या त्वय़ा नेतुमविजित्य महारथान् |
२५ क
धौम्य उवाच:
धर्मं क्षत्रस्य पौराणमवेक्षस्व जय़द्रथ ||
२५ ख
धौम्य उवाच:
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशय़म् |
२६ क
धौम्य उवाच:
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ||
२६ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा ह्रिय़माणां तां राजपुत्रीं यशस्विनीम् |
२७ क
वैशम्पाय़न उवाच:
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ||
२७ ख