सञ्जय़ उवाच:
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संय़ुगे |
१ क
सञ्जय़ उवाच:
रथैरनेकसाहस्रैः समन्तात्पर्यवारय़न् ||
१ ख
सञ्जय़ उवाच:
अथैनं रथवृन्देन कोष्टकीकृत्य भारत |
२ क
सञ्जय़ उवाच:
शरैः सुवहुसाहस्रैः समन्तादभ्यवारय़न् ||
२ ख
सञ्जय़ उवाच:
शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह |
३ क
सञ्जय़ उवाच:
प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि |
३ ख
सञ्जय़ उवाच:
चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ||
३ ग
सञ्जय़ उवाच:
शस्त्राणामथ तां वृष्टिं शलभानामिवाय़तिम् |
४ क
सञ्जय़ उवाच:
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ||
४ ख
सञ्जय़ उवाच:
तत्र तल्लाघवं दृष्ट्वा वीभत्सोरतिमानुषम् |
५ क
सञ्जय़ उवाच:
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः |
५ ख
सञ्जय़ उवाच:
साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजय़न् ||
५ ग
सञ्जय़ उवाच:
सात्यकिं चाभिमन्युं च महत्या सेनय़ा सह |
६ क
सञ्जय़ उवाच:
गान्धाराः समरे शूरा रुरुधुः सहसौवलाः ||
६ ख
सञ्जय़ उवाच:
तत्र सौवलकाः क्रुद्धा वार्ष्णेय़स्य रथोत्तमम् |
७ क
सञ्जय़ उवाच:
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ||
७ ख
सञ्जय़ उवाच:
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभय़े |
८ क
सञ्जय़ उवाच:
अभिमन्यो रथं तूर्णमारुरोह परन्तपः ||
८ ख
सञ्जय़ उवाच:
तावेकरथसंय़ुक्तौ सौवलेय़स्य वाहिनीम् |
९ क
सञ्जय़ उवाच:
व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः ||
९ ख
सञ्जय़ उवाच:
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् |
१० क
सञ्जय़ उवाच:
नाशय़ेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ||
१० ख
सञ्जय़ उवाच:
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ |
११ क
सञ्जय़ उवाच:
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ||
११ ख
सञ्जय़ उवाच:
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् |
१२ क
सञ्जय़ उवाच:
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ||
१२ ख
सञ्जय़ उवाच:
कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ |
१३ क
सञ्जय़ उवाच:
दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारय़त् ||
१३ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम हैडिम्वस्य पराक्रमम् |
१४ क
सञ्जय़ उवाच:
अतीत्य पितरं युद्धे यदय़ुध्यत भारत ||
१४ ख
सञ्जय़ उवाच:
भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् |
१५ क
सञ्जय़ उवाच:
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ||
१५ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा प्रहारवरमोहितः |
१६ क
सञ्जय़ उवाच:
निषसाद रथोपस्थे कश्मलं च जगाम ह ||
१६ ख
सञ्जय़ उवाच:
तं विसञ्ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः |
१७ क
सञ्जय़ उवाच:
अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत ||
१७ ख
सञ्जय़ उवाच:
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः |
१८ क
सञ्जय़ उवाच:
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ||
१८ ख
सञ्जय़ उवाच:
पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः |
१९ क
सञ्जय़ उवाच:
द्रोणस्य पश्यतः सैन्यं गाङ्गेय़स्य च पश्यतः |
१९ ख
सञ्जय़ उवाच:
जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः ||
१९ ग
सञ्जय़ उवाच:
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संय़ुगे |
२० क
सञ्जय़ उवाच:
नाशक्नुतां वारय़ितुं भीष्मद्रोणौ महारथौ ||
२० ख
सञ्जय़ उवाच:
वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते |
२१ क
सञ्जय़ उवाच:
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मय़ोः ||
२१ ख
सञ्जय़ उवाच:
ततो रथसहस्रेषु विद्रवत्सु ततस्ततः |
२२ क
सञ्जय़ उवाच:
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ |
२२ ख
सञ्जय़ उवाच:
सौवलीं समरे सेनां शातय़ेतां समन्ततः ||
२२ ग
सञ्जय़ उवाच:
शुशुभाते तदा तौ तु शैनेय़कुरुपुङ्गवौ |
२३ क
सञ्जय़ उवाच:
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ||
२३ ख
सञ्जय़ उवाच:
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते |
२४ क
सञ्जय़ उवाच:
ववर्ष शरवर्षेण धाराभिरिव तोय़दः ||
२४ ख
सञ्जय़ उवाच:
वध्यमानं ततस्तत्तु शरैः पार्थस्य संय़ुगे |
२५ क
सञ्जय़ उवाच:
दुद्राव कौरवं सैन्यं विषादभय़कम्पितम् ||
२५ ख
सञ्जय़ उवाच:
द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ |
२६ क
सञ्जय़ उवाच:
न्यवारय़ेतां संरव्धौ दुर्योधनहितैषिणौ ||
२६ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा समाश्वस्य विशां पते |
२७ क
सञ्जय़ उवाच:
न्यवर्तय़त तत्सैन्यं द्रवमाणं समन्ततः ||
२७ ख
सञ्जय़ उवाच:
यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत |
२८ क
सञ्जय़ उवाच:
तत्र तत्र न्यवर्तन्त क्षत्रिय़ाणां महारथाः ||
२८ ख
सञ्जय़ उवाच:
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः |
२९ क
सञ्जय़ उवाच:
अन्योन्यस्पर्धय़ा राजँल्लज्जय़ान्येऽवतस्थिरे ||
२९ ख
सञ्जय़ उवाच:
पुनरावर्ततां तेषां वेग आसीद्विशां पते |
३० क
सञ्जय़ उवाच:
पूर्यतः सागरस्येव चन्द्रस्योदय़नं प्रति ||
३० ख
सञ्जय़ उवाच:
संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुय़ोधनः |
३१ क
सञ्जय़ उवाच:
अव्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ||
३१ ख
सञ्जय़ उवाच:
पितामह निवोधेदं यत्त्वा वक्ष्यामि भारत |
३२ क
सञ्जय़ उवाच:
नानुरूपमहं मन्ये त्वय़ि जीवति कौरव ||
३२ ख
सञ्जय़ उवाच:
द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने |
३३ क
सञ्जय़ उवाच:
कृपे चैव महेष्वासे द्रवतीय़ं वरूथिनी ||
३३ ख
सञ्जय़ उवाच:
न पाण्डवाः प्रतिवलास्तव राजन्कथञ्चन |
३४ क
सञ्जय़ उवाच:
तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च ||
३४ ख
सञ्जय़ उवाच:
अनुग्राह्याः पाण्डुसुता नूनं तव पितामह |
३५ क
सञ्जय़ उवाच:
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ||
३५ ख
सञ्जय़ उवाच:
सोऽस्मि वाच्यस्त्वय़ा राजन्पूर्वमेव समागमे |
३६ क
सञ्जय़ उवाच:
न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ||
३६ ख
सञ्जय़ उवाच:
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च |
३७ क
सञ्जय़ उवाच:
कर्णेन सहितः कृत्यं चिन्तय़ानस्तदैव हि ||
३७ ख
सञ्जय़ उवाच:
यदि नाहं परित्याज्यो युवाभ्यामिह संय़ुगे |
३८ क
सञ्जय़ उवाच:
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ||
३८ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः |
३९ क
सञ्जय़ उवाच:
अव्रवीत्तनय़ं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ||
३९ ख
सञ्जय़ उवाच:
वहुशो हि मय़ा राजंस्तथ्यमुक्तं हितं वचः |
४० क
सञ्जय़ उवाच:
अजेय़ाः पाण्डवा युद्धे देवैरपि सवासवैः ||
४० ख
सञ्जय़ उवाच:
यत्तु शक्यं मय़ा कर्तुं वृद्धेनाद्य नृपोत्तम |
४१ क
सञ्जय़ उवाच:
करिष्यामि यथाशक्ति प्रेक्षेदानीं सवान्धवः ||
४१ ख
सञ्जय़ उवाच:
अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह वन्धुभिः |
४२ क
सञ्जय़ उवाच:
मिषतो वारय़िष्यामि सर्वलोकस्य पश्यतः ||
४२ ख
सञ्जय़ उवाच:
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर |
४३ क
सञ्जय़ उवाच:
दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् ||
४३ ख
सञ्जय़ उवाच:
पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् |
४४ क
सञ्जय़ उवाच:
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादय़न् ||
४४ ख