chevron_left द्रोण पर्व अध्याय ५४
सञ्जय़ उवाच:
तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ |
१ क
सञ्जय़ उवाच:
निद्रां नैवोपलेभाते वासुदेवधनञ्जय़ौ ||
१ ख
सञ्जय़ उवाच:
नरनाराय़णौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः |
२ क
सञ्जय़ उवाच:
व्यथिताश्चिन्तय़ामासुः किं स्विदेतद्भविष्यति ||
२ ख
सञ्जय़ उवाच:
ववुश्च दारुणा वाता रूक्षा गोराभिशंसिनः |
३ क
सञ्जय़ उवाच:
सकवन्धस्तथादित्ये परिघः समदृश्यत ||
३ ख
सञ्जय़ उवाच:
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः |
४ क
सञ्जय़ उवाच:
चचाल चापि पृथिवी सशैलवनकानना ||
४ ख
सञ्जय़ उवाच:
चुक्षुभुश्च महाराज सागरा मकरालय़ाः |
५ क
सञ्जय़ उवाच:
प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ||
५ ख
सञ्जय़ उवाच:
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् |
६ क
सञ्जय़ उवाच:
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धय़े ||
६ ख
सञ्जय़ उवाच:
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह |
७ क
सञ्जय़ उवाच:
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ||
७ ख
सञ्जय़ उवाच:
सर्वे ते व्यथिताः सैन्यास्त्वदीय़ा भरतर्षभ |
८ क
सञ्जय़ उवाच:
श्रुत्वा महावलस्योग्रां प्रतिज्ञां सव्यसाचिनः ||
८ ख
सञ्जय़ उवाच:
अथ कृष्णं महावाहुरव्रवीत्पाकशासनिः |
९ क
सञ्जय़ उवाच:
आश्वासय़ सुभद्रां त्वं भगिनीं स्नुषय़ा सह ||
९ ख
सञ्जय़ उवाच:
स्नुषा श्वश्व्रानघाय़स्ते विशोके कुरु माधव |
१० क
सञ्जय़ उवाच:
साम्ना सत्येन युक्तेन वचसाश्वासय़ प्रभो ||
१० ख
सञ्जय़ उवाच:
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः |
११ क
सञ्जय़ उवाच:
भगिनीं पुत्रशोकार्तामाश्वासय़त दुःखिताम् ||
११ ख
सञ्जय़ उवाच:
मा शोकं कुरु वार्ष्णेय़ि कुमारं प्रति सस्नुषा |
१२ क
सञ्जय़ उवाच:
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ||
१२ ख
सञ्जय़ उवाच:
कुले जतस्य वीरस्य क्षत्रिय़स्य विशेषतः |
१३ क
सञ्जय़ उवाच:
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ||
१३ ख
सञ्जय़ उवाच:
दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः |
१४ क
सञ्जय़ उवाच:
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ||
१४ ख
सञ्जय़ उवाच:
जित्वा सुवहुशः शत्रून्प्रेषय़ित्वा च मृत्यवे |
१५ क
सञ्जय़ उवाच:
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षय़ान् ||
१५ ख
सञ्जय़ उवाच:
तपसा व्रह्मचर्येण श्रुतेन प्रज्ञय़ापि च |
१६ क
सञ्जय़ उवाच:
सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ||
१६ ख
सञ्जय़ उवाच:
वीरसूर्वीरपत्नी त्वं वीरश्वशुरवान्धवा |
१७ क
सञ्जय़ उवाच:
मा शुचस्तनय़ं भद्रे गतः स परमां गतिम् ||
१७ ख
सञ्जय़ उवाच:
प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो वालघातकः |
१८ क
सञ्जय़ उवाच:
अस्यावलेपस्य फलं ससुहृद्गणवान्धवः ||
१८ ख
सञ्जय़ उवाच:
व्युष्टाय़ां तु वरारोहे रजन्यां पापकर्मकृत् |
१९ क
सञ्जय़ उवाच:
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ||
१९ ख
सञ्जय़ उवाच:
श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् |
२० क
सञ्जय़ उवाच:
समन्तपञ्चकाद्वाह्यं विशोका भव मा रुदः ||
२० ख
सञ्जय़ उवाच:
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् |
२१ क
सञ्जय़ उवाच:
यां वय़ं प्राप्नुय़ामेह ये चान्ये शस्त्रजीविनः ||
२१ ख
सञ्जय़ उवाच:
व्यूढोरस्को महावाहुरनिवर्ती वरप्रणुत् |
२२ क
सञ्जय़ उवाच:
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ||
२२ ख
सञ्जय़ उवाच:
अनु जातश्च पितरं मातृपक्षं च वीर्यवान् |
२३ क
सञ्जय़ उवाच:
सहस्रशो रिपून्हत्वा हतः शूरो महारथः ||
२३ ख
सञ्जय़ उवाच:
आश्वासय़ स्नुषां राज्ञि मा शुचः क्षत्रिय़े भृषम् |
२४ क
सञ्जय़ उवाच:
श्वः प्रिय़ं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ||
२४ ख
सञ्जय़ उवाच:
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा |
२५ क
सञ्जय़ उवाच:
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ||
२५ ख
सञ्जय़ उवाच:
यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च |
२६ क
सञ्जय़ उवाच:
रणगतमभिय़ान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते ||
२६ ख