सञ्जय़ उवाच:
अथ त्विदानीं तुमुले विमर्दे; द्विषद्भिरेको वहुभिः समावृतः |
१ क
सञ्जय़ उवाच:
महाभय़े सारथिमित्युवाच; भीमश्चमूं वारय़न्धार्तराष्ट्रीम् |
१ ख
सञ्जय़ उवाच:
त्वं सारथे याहि जवेन वाहै; र्नय़ाम्येतान्धार्तराष्ट्रान्यमाय़ ||
१ ग
सञ्जय़ उवाच:
सञ्चोदितो भीमसेनेन चैवं; स सारथिः पुत्रवलं त्वदीय़म् |
२ क
सञ्जय़ उवाच:
प्राय़ात्ततः सारथिरुग्रवेगो; यतो भीमस्तद्वलं गन्तुमैच्छत् ||
२ ख
सञ्जय़ उवाच:
ततोऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस्तं समन्तात् |
३ क
सञ्जय़ उवाच:
भीमस्य वाहाग्र्यमुदारवेगं; समन्ततो वाणगणैर्निजघ्नुः ||
३ ख
सञ्जय़ उवाच:
ततः शरानापततो महात्मा; चिच्छेद वाणैस्तपनीय़पुङ्खैः |
४ क
सञ्जय़ उवाच:
ते वै निपेतुस्तपनीय़पुङ्खा; द्विधा त्रिधा भीमशरैर्निकृत्ताः ||
४ ख
सञ्जय़ उवाच:
ततो राजन्नागरथाश्वय़ूनां; भीमाहतानां तव राजमध्ये |
५ क
सञ्जय़ उवाच:
घोरो निनादः प्रवभौ नरेन्द्र; वज्राहतानामिव पर्वतानाम् ||
५ ख
सञ्जय़ उवाच:
ते वध्यमानाश्च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः |
६ क
सञ्जय़ उवाच:
भीमं समन्तात्समरेऽध्यरोह; न्वृक्षं शकुन्ता इव पुष्पहेतोः ||
६ ख
सञ्जय़ उवाच:
ततोऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगमिवात्तवेगः |
७ क
सञ्जय़ उवाच:
यथान्तकाले क्षपय़न्दिधक्षु; र्भूतान्तकृत्काल इवात्तदण्डः ||
७ ख
सञ्जय़ उवाच:
तस्यातिवेगस्य रणेऽतिवेगं; नाशक्नुवन्धारय़ितुं त्वदीय़ाः |
८ क
सञ्जय़ उवाच:
व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै ||
८ ख
सञ्जय़ उवाच:
ततो वलं भारत भारतानां; प्रदह्यमानं समरे महात्मन् |
९ क
सञ्जय़ उवाच:
भीतं दिशोऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव ||
९ ख
सञ्जय़ उवाच:
ततो धीमान्सारथिमव्रवीद्वली; स भीमसेनः पुनरेव हृष्टः |
१० क
सञ्जय़ उवाच:
सूताभिजानीहि परान्स्वकान्वा; रथान्ध्वजांश्चापततः समेतान् |
१० ख
सञ्जय़ उवाच:
युध्यन्नहं नाभिजानामि किं चि; न्मा सैन्यं स्वं छादय़िष्ये पृषत्कैः ||
१० ग
सञ्जय़ उवाच:
अरीन्विशोकाभिनिरीक्ष्य सर्वतो; मनस्तु चिन्ता प्रदुनोति मे भृशम् |
११ क
सञ्जय़ उवाच:
राजातुरो नागमद्यत्किरीटी; वहूनि दुःखान्यभिजातोऽस्मि सूत ||
११ ख
सञ्जय़ उवाच:
एतद्दुःखं सारथे धर्मराजो; यन्मां हित्वा यातवाञ्शत्रुमध्ये |
१२ क
सञ्जय़ उवाच:
नैनं जीवन्नापि जानाम्यजीव; न्वीभत्सुं वा तन्ममाद्यातिदुःखम् ||
१२ ख
सञ्जय़ उवाच:
सोऽहं द्विषत्सैन्यमुदग्रकल्पं; विनाशय़िष्ये परमप्रतीतः |
१३ क
सञ्जय़ उवाच:
एतान्निहत्याजिमध्ये समेता; न्प्रीतो भविष्यामि सह त्वय़ाद्य ||
१३ ख
सञ्जय़ उवाच:
सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य; किं शिष्टं स्यात्साय़कानां रथे मे |
१४ क
सञ्जय़ उवाच:
का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत ||
१४ ख
विशोक उवाच:
षण्मार्गणानामय़ुतानि वीर; क्षुराश्च भल्लाश्च तथाय़ुताख्याः |
१५ क
विशोक उवाच:
नाराचानां द्वे सहस्रे तु वीर; त्रीण्येव च प्रदराणां च पार्थ ||
१५ ख
विशोक उवाच:
अस्त्याय़ुधं पाण्डवेय़ावशिष्टं; न यद्वहेच्छकटं षड्गवीय़म् |
१६ क
विशोक उवाच:
एतद्विद्वन्मुञ्च सहस्रशोऽपि; गदासिवाहुद्रविणं च तेऽस्ति ||
१६ ख
भीम उवाच:
सूताद्येमं पश्य भीमप्रमुक्तैः; सम्भिन्दद्भिः पार्थिवानाशुवेगैः |
१७ क
भीम उवाच:
उग्रैर्वाणैराहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम् ||
१७ ख
भीम उवाच:
अद्यैव तद्विदितं पार्थिवानां; भविष्यति आकुमारं च सूत |
१८ क
भीम उवाच:
निमग्नो वा समरे भीमसेन; एकः कुरून्वा समरे विजेता ||
१८ ख
भीम उवाच:
सर्वे सङ्ख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तय़न्त्वाकुमारम् |
१९ क
भीम उवाच:
सर्वानेकस्तानहं पातय़िष्ये; ते वा सर्वे भीमसेनं तुदन्तु ||
१९ ख
भीम उवाच:
आशास्तारः कर्म चाप्युत्तमं वा; तन्मे देवाः केवलं साधय़न्तु |
२० क
भीम उवाच:
आय़ात्विहाद्यार्जुनः शत्रुघाती; शक्रस्तूर्णं यज्ञ इवोपहूतः ||
२० ख
भीम उवाच:
ईक्षस्वैतां भारतीं दीर्यमाणा; मेते कस्माद्विद्रवन्ते नरेन्द्राः |
२१ क
भीम उवाच:
व्यक्तं धीमान्सव्यसाची नराग्र्यः; सैन्यं ह्येतच्छादय़त्याशु वाणैः ||
२१ ख
भीम उवाच:
पश्य ध्वजांश्च द्रवतो विशोक; नागान्हय़ान्पत्तिसङ्घांश्च सङ्ख्ये |
२२ क
भीम उवाच:
रथान्विशीर्णाञ्शरशक्तिताडिता; न्पश्यस्वैतान्रथिनश्चैव सूत ||
२२ ख
भीम उवाच:
आपूर्यते कौरवी चाप्यभीक्ष्णं; सेना ह्यसौ सुभृशं हन्यमाना |
२३ क
भीम उवाच:
धनञ्जय़स्याशनितुल्यवेगै; र्ग्रस्ता शरैर्वर्हिसुवर्णवाजैः ||
२३ ख
भीम उवाच:
एते द्रवन्ति स्म रथाश्वनागाः; पदातिसङ्घानवमर्दय़न्तः |
२४ क
भीम उवाच:
संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः |
२४ ख
भीम उवाच:
हाहाकृताश्चैव रणे विशोक; मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ||
२४ ग
विशोक उवाच:
सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये |
२५ क
विशोक उवाच:
नीलाद्धनाद्विद्युतमुच्चरन्तीं; तथापश्यं विस्फुरद्वै धनुस्तत् ||
२५ ख
विशोक उवाच:
कपिर्ह्यसौ वीक्ष्यते सर्वतो वै; ध्वजाग्रमारुह्य धनञ्जय़स्य |
२६ क
विशोक उवाच:
दिवाकराभो मणिरेष दिव्यो; विभ्राजते चैव किरीटसंस्थः ||
२६ ख
विशोक उवाच:
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम् |
२७ क
विशोक उवाच:
अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम् ||
२७ ख
विशोक उवाच:
रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य |
२८ क
विशोक उवाच:
चक्रं यशो वर्धय़त्केशवस्य; सदार्चितं यदुभिः पश्य वीर ||
२८ ख
भीम उवाच:
ददामि ते ग्रामवरांश्चतुर्दश; प्रिय़ाख्याने सारथे सुप्रसन्नः |
२९ क
भीम उवाच:
दसीशतं चापि रथांश्च विंशतिं; यदर्जुनं वेदय़से विशोक ||
२९ ख