धृतराष्ट्र उवाच:
प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे |
१ क
धृतराष्ट्र उवाच:
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ||
१ ख
धृतराष्ट्र उवाच:
भीष्मः किमकरोत्तत्र पाण्डवेय़ेषु सञ्जय़ |
२ क
धृतराष्ट्र उवाच:
पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
गतपूर्वाह्णभूय़िष्ठे तस्मिन्नहनि भारत |
३ क
सञ्जय़ उवाच:
जय़ं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ||
३ ख
सञ्जय़ उवाच:
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव |
४ क
सञ्जय़ उवाच:
अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् |
४ ख
सञ्जय़ उवाच:
महत्या सेनय़ा गुप्तस्तव पुत्रैश्च सर्वशः ||
४ ग
सञ्जय़ उवाच:
प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् |
५ क
सञ्जय़ उवाच:
अस्माकं पाण्डवैः सार्धमनय़ात्तव भारत ||
५ ख
सञ्जय़ उवाच:
धनुषां कूजतां तत्र तलानां चाभिहन्यताम् |
६ क
सञ्जय़ उवाच:
महान्समभवच्छव्दो गिरीणामिव दीर्यताम् ||
६ ख
सञ्जय़ उवाच:
तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव |
७ क
सञ्जय़ उवाच:
स्थितोऽस्मि प्रहरस्वेति शव्दाः श्रूय़न्त सर्वशः ||
७ ख
सञ्जय़ उवाच:
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च |
८ क
सञ्जय़ उवाच:
शिलानामिव शैलेषु पतितानामभूत्स्वनः ||
८ ख
सञ्जय़ उवाच:
पतितान्युत्तमाङ्गानि वाहवश्च विभूषिताः |
९ क
सञ्जय़ उवाच:
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ||
९ ख
सञ्जय़ उवाच:
हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः |
१० क
सञ्जय़ उवाच:
प्रगृहीताय़ुधाश्चापि तस्थुः पुरुषसत्तमाः ||
१० ख
सञ्जय़ उवाच:
प्रावर्तत महावेगा नदी रुधिरवाहिनी |
११ क
सञ्जय़ उवाच:
मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा ||
११ ख
सञ्जय़ उवाच:
वराश्वनरनागानां शरीरप्रभवा तदा |
१२ क
सञ्जय़ उवाच:
परलोकार्णवमुखी गृध्रगोमाय़ुमोदिनी ||
१२ ख
सञ्जय़ उवाच:
न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप |
१३ क
सञ्जय़ उवाच:
यथा तव सुतानां च पाण्डवानां च भारत ||
१३ ख
सञ्जय़ उवाच:
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः |
१४ क
सञ्जय़ उवाच:
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् ||
१४ ख
सञ्जय़ उवाच:
विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष |
१५ क
सञ्जय़ उवाच:
शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ||
१५ ख
सञ्जय़ उवाच:
विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः |
१६ क
सञ्जय़ उवाच:
अभीताः समरे शत्रूनभ्यधावन्त दंशिताः ||
१६ ख
सञ्जय़ उवाच:
तात भ्रातः सखे वन्धो वय़स्य मम मातुल |
१७ क
सञ्जय़ उवाच:
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ||
१७ ख
सञ्जय़ उवाच:
आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि |
१८ क
सञ्जय़ उवाच:
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ||
१८ ख
सञ्जय़ उवाच:
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः |
१९ क
सञ्जय़ उवाच:
मुमोच वाणान्दीप्ताग्रानहीनाशीविषानिव ||
१९ ख
सञ्जय़ उवाच:
शरैरेकाय़नीकुर्वन्दिशः सर्वा यतव्रतः |
२० क
सञ्जय़ उवाच:
जघान पाण्डवरथानादिश्यादिश्य भारत ||
२० ख
सञ्जय़ उवाच:
स नृत्यन्वै रथोपस्थे दर्शय़न्पाणिलाघवम् |
२१ क
सञ्जय़ उवाच:
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ||
२१ ख
सञ्जय़ उवाच:
तमेकं समरे शूरं पाण्डवाः सृञ्जय़ास्तथा |
२२ क
सञ्जय़ उवाच:
अनेकशतसाहस्रं समपश्यन्त लाघवात् ||
२२ ख
सञ्जय़ उवाच:
माय़ाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे |
२३ क
सञ्जय़ उवाच:
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ||
२३ ख
सञ्जय़ उवाच:
उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो |
२४ क
सञ्जय़ उवाच:
एवं स समरे वीरो गाङ्गेय़ः प्रत्यदृश्यत ||
२४ ख
सञ्जय़ उवाच:
न चैनं पाण्डवेय़ानां कश्चिच्छक्नोति वीक्षितुम् |
२५ क
सञ्जय़ उवाच:
विशिखानेव पश्यन्ति भीष्मचापच्युतान्वहून् ||
२५ ख
सञ्जय़ उवाच:
कुर्वाणं समरे कर्म सूदय़ानं च वाहिनीम् |
२६ क
सञ्जय़ उवाच:
व्याक्रोशन्त रणे तत्र वीरा वहुविधं वहु |
२६ ख
सञ्जय़ उवाच:
अमानुषेण रूपेण चरन्तं पितरं तव ||
२६ ग
सञ्जय़ उवाच:
शलभा इव राजानः पतन्ति विधिचोदिताः |
२७ क
सञ्जय़ उवाच:
भीष्माग्निमभि सङ्क्रुद्धं विनाशाय़ सहस्रशः ||
२७ ख
सञ्जय़ उवाच:
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संय़ुगे |
२८ क
सञ्जय़ उवाच:
नरनागाश्वकाय़ेषु वहुत्वाल्लघुवेधिनः ||
२८ ख
सञ्जय़ उवाच:
भिनत्त्येकेन वाणेन सुमुक्तेन पतत्रिणा |
२९ क
सञ्जय़ उवाच:
गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् ||
२९ ख
सञ्जय़ उवाच:
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि |
३० क
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन निजघान पिता तव ||
३० ख
सञ्जय़ उवाच:
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन |
३१ क
सञ्जय़ उवाच:
मुहूर्तदृष्टः स मय़ा पातितो भुवि दृश्यते ||
३१ ख
सञ्जय़ उवाच:
एवं सा धर्मराजस्य वध्यमाना महाचमूः |
३२ क
सञ्जय़ उवाच:
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ||
३२ ख
सञ्जय़ उवाच:
प्रकीर्यत महासेना शरवर्षाभितापिता |
३३ क
सञ्जय़ उवाच:
पश्यतो वासुदेवस्य पार्थस्य च महात्मनः ||
३३ ख
सञ्जय़ उवाच:
यतमानापि ते वीरा द्रवमाणान्महारथान् |
३४ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं भीष्मवाणप्रपीडिताः ||
३४ ख
सञ्जय़ उवाच:
महेन्द्रसमवीर्येण वध्यमाना महाचमूः |
३५ क
सञ्जय़ उवाच:
अभज्यत महाराज न च द्वौ सह धावतः ||
३५ ख
सञ्जय़ उवाच:
आविद्धनरनागाश्वं पतितध्वजकूवरम् |
३६ क
सञ्जय़ उवाच:
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ||
३६ ख
सञ्जय़ उवाच:
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |
३७ क
सञ्जय़ उवाच:
प्रिय़ं सखाय़ं चाक्रन्दे सखा दैववलात्कृतः ||
३७ ख
सञ्जय़ उवाच:
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः |
३८ क
सञ्जय़ उवाच:
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ||
३८ ख
सञ्जय़ उवाच:
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथय़ूथपम् |
३९ क
सञ्जय़ उवाच:
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ||
३९ ख
सञ्जय़ उवाच:
प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः |
४० क
सञ्जय़ उवाच:
उवाच पार्थं वीभत्सुं निगृह्य रथमुत्तमम् ||
४० ख
सञ्जय़ उवाच:
अय़ं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वय़ा |
४१ क
सञ्जय़ उवाच:
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे ||
४१ ख
सञ्जय़ उवाच:
यत्त्वय़ा कथितं वीर पुरा राज्ञां समागमे |
४२ क
सञ्जय़ उवाच:
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ||
४२ ख
सञ्जय़ उवाच:
सानुवन्धान्हनिष्यामि ये मां योत्स्यन्ति संय़ुगे |
४३ क
सञ्जय़ उवाच:
इति तत्कुरु कौन्तेय़ सत्यं वाक्यमरिन्दम ||
४३ ख
सञ्जय़ उवाच:
वीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः |
४४ क
सञ्जय़ उवाच:
द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे वले ||
४४ ख
सञ्जय़ उवाच:
दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् |
४५ क
सञ्जय़ उवाच:
भय़ार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव ||
४५ ख
सञ्जय़ उवाच:
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जय़ः |
४६ क
सञ्जय़ उवाच:
चोदय़ाश्वान्यतो भीष्मो विगाह्यैतद्वलार्णवम् ||
४६ ख
सञ्जय़ उवाच:
ततोऽश्वान्रजतप्रख्यांश्चोदय़ामास माधवः |
४७ क
सञ्जय़ उवाच:
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ||
४७ ख
सञ्जय़ उवाच:
ततस्तत्पुनरावृत्तं युधिष्ठिरवलं महत् |
४८ क
सञ्जय़ उवाच:
दृष्ट्वा पार्थं महावाहुं भीष्माय़ोद्यन्तमाहवे ||
४८ ख
सञ्जय़ उवाच:
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः |
४९ क
सञ्जय़ उवाच:
धनञ्जय़रथं तूर्णं शरवर्षैरवाकिरत् ||
४९ ख