chevron_left भीष्म पर्व अध्याय ५५
सञ्जय़ उवाच:
क्षणेन स रथस्तस्य सहय़ः सहसारथिः |
५० क
सञ्जय़ उवाच:
शरवर्षेण महता सञ्छन्नो न प्रकाशते ||
५० ख
सञ्जय़ उवाच:
वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय़ सत्त्ववान् |
५१ क
सञ्जय़ उवाच:
चोदय़ामास तानश्वान्वितुन्नान्भीष्मसाय़कैः ||
५१ ख
सञ्जय़ उवाच:
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् |
५२ क
सञ्जय़ उवाच:
पातय़ामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः ||
५२ ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः |
५३ क
सञ्जय़ उवाच:
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ||
५३ ख
सञ्जय़ उवाच:
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् |
५४ क
सञ्जय़ उवाच:
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ||
५४ ख
सञ्जय़ उवाच:
तस्य तत्पूजय़ामास लाघवं शन्तनोः सुतः |
५५ क
सञ्जय़ उवाच:
साधु पार्थ महावाहो साधु भो पाण्डुनन्दन ||
५५ ख
सञ्जय़ उवाच:
त्वय़्येवैतद्युक्तरूपं महत्कर्म धनञ्जय़ |
५६ क
सञ्जय़ उवाच:
प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मय़ा सह ||
५६ ख
सञ्जय़ उवाच:
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः |
५७ क
सञ्जय़ उवाच:
मुमोच समरे वीरः शरान्पार्थरथं प्रति ||
५७ ख
सञ्जय़ उवाच:
अदर्शय़द्वासुदेवो हय़याने परं वलम् |
५८ क
सञ्जय़ उवाच:
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु ||
५८ ख
सञ्जय़ उवाच:
तथापि भीष्मः सुदृढं वासुदेवधनञ्जय़ौ |
५९ क
सञ्जय़ उवाच:
विव्याध निशितैर्वाणैः सर्वगात्रेषु मारिष ||
५९ ख
सञ्जय़ उवाच:
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ |
६० क
सञ्जय़ उवाच:
गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ ||
६० ख
सञ्जय़ उवाच:
पुनश्चापि सुसङ्क्रुद्धः शरैः संनतपर्वभिः |
६१ क
सञ्जय़ उवाच:
कृष्णय़ोर्युधि संरव्धो भीष्मो व्यावारय़द्दिशः ||
६१ ख
सञ्जय़ उवाच:
वार्ष्णेय़ं च शरैस्तीक्ष्णैः कम्पय़ामास रोषितः |
६२ क
सञ्जय़ उवाच:
मुहुरभ्युत्स्मय़न्भीष्मः प्रहस्य स्वनवत्तदा ||
६२ ख
सञ्जय़ उवाच:
ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् |
६३ क
सञ्जय़ उवाच:
सम्प्रेक्ष्य च महावाहुः पार्थस्य मृदुय़ुद्धताम् ||
६३ ख
सञ्जय़ उवाच:
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि |
६४ क
सञ्जय़ उवाच:
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनय़ोः ||
६४ ख
सञ्जय़ उवाच:
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् |
६५ क
सञ्जय़ उवाच:
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे वले ||
६५ ख
सञ्जय़ उवाच:
अमृष्यमाणो भगवान्केशवः परवीरहा |
६६ क
सञ्जय़ उवाच:
अचिन्तय़दमेय़ात्मा नास्ति यौधिष्ठिरं वलम् ||
६६ ख
सञ्जय़ उवाच:
एकाह्ना हि रणे भीष्मो नाशय़ेद्देवदानवान् |
६७ क
सञ्जय़ उवाच:
किमु पाण्डुसुतान्युद्धे सवलान्सपदानुगान् ||
६७ ख
सञ्जय़ उवाच:
द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः |
६८ क
सञ्जय़ उवाच:
एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् |
६८ ख
सञ्जय़ उवाच:
आद्रवन्ति रणे हृष्टा हर्षय़न्तः पितामहम् ||
६८ ग
सञ्जय़ उवाच:
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय़ दंशितः |
६९ क
सञ्जय़ उवाच:
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ||
६९ ख
सञ्जय़ उवाच:
अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संय़ुगे |
७० क
सञ्जय़ उवाच:
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ||
७० ख
सञ्जय़ उवाच:
तथा चिन्तय़तस्तस्य भूय़ एव पितामहः |
७१ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धः शरान्पार्थरथं प्रति ||
७१ ख
सञ्जय़ उवाच:
तेषां वहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता वभूवुः |
७२ क
सञ्जय़ उवाच:
न चान्तरिक्षं न दिशो न भूमि; र्न भास्करोऽदृश्यत रश्मिमाली |
७२ ख
सञ्जय़ उवाच:
ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता वभूवुः ||
७२ ग
सञ्जय़ उवाच:
द्रोणो विकर्णोऽथ जय़द्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च |
७३ क
सञ्जय़ उवाच:
श्रुताय़ुरम्वष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च ||
७३ ख
सञ्जय़ उवाच:
प्राच्याश्च सौवीरगणाश्च सर्वे; वसातय़ः क्षुद्रकमालवाश्च |
७४ क
सञ्जय़ उवाच:
किरीटिनं त्वरमाणाभिसस्रु; र्निदेशगाः शान्तनवस्य राज्ञः ||
७४ ख
सञ्जय़ उवाच:
तं वाजिपादातरथौघजालै; रनेकसाहस्रशतैर्ददर्श |
७५ क
सञ्जय़ उवाच:
किरीटिनं सम्परिवार्यमाणं; शिनेर्नप्ता वारणय़ूथपैश्च ||
७५ ख
सञ्जय़ उवाच:
ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात् |
७६ क
सञ्जय़ उवाच:
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम् ||
७६ ख
सञ्जय़ उवाच:
स तान्यनीकानि महाधनुष्मा; ञ्शिनिप्रवीरः सहसाभिपत्य |
७७ क
सञ्जय़ उवाच:
चकार साहाय़्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य ||
७७ ख
सञ्जय़ उवाच:
विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वय़ोधम् |
७८ क
सञ्जय़ उवाच:
युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच सन्दृश्य शिनिप्रवीरः ||
७८ ख
सञ्जय़ उवाच:
क्व क्षत्रिय़ा यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः |
७९ क
सञ्जय़ उवाच:
मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालय़ध्वम् ||
७९ ख
सञ्जय़ उवाच:
तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात् |
८० क
सञ्जय़ उवाच:
पार्थस्य दृष्ट्वा मृदुय़ुद्धतां च; भीष्मं च सङ्ख्ये समुदीर्यमाणम् ||
८० ख
सञ्जय़ उवाच:
अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता |
८१ क
सञ्जय़ उवाच:
उवाच शैनेय़मभिप्रशंस; न्दृष्ट्वा कुरूनापततः समन्तात् ||
८१ ख
सञ्जय़ उवाच:
ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु |
८२ क
सञ्जय़ उवाच:
भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च सङ्ख्ये सगणं मय़ाद्य ||
८२ ख
सञ्जय़ उवाच:
नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् |
८३ क
सञ्जय़ उवाच:
तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य ||
८३ ख
सञ्जय़ उवाच:
निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय़ रथप्रवीरम् |
८४ क
सञ्जय़ उवाच:
प्रीतिं करिष्यामि धनञ्जय़स्य; राज्ञश्च भीमस्य तथाश्विनोश्च ||
८४ ख
सञ्जय़ उवाच:
निहत्य सर्वान्धृतराष्ट्रपुत्रां; स्तत्पक्षिणो ये च नरेन्द्रमुख्याः |
८५ क
सञ्जय़ उवाच:
राज्येन राजानमजातशत्रुं; सम्पादय़िष्याम्यहमद्य हृष्टः ||
८५ ख
सञ्जय़ उवाच:
ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम् |
८६ क
सञ्जय़ उवाच:
क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान् ||
८६ ख
सञ्जय़ उवाच:
सङ्कम्पय़न्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम् |
८७ क
सञ्जय़ उवाच:
मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम् ||
८७ ख
सञ्जय़ उवाच:
सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी |
८८ क
सञ्जय़ उवाच:
व्यालम्विपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः ||
८८ ख
सञ्जय़ उवाच:
सुदर्शनं चास्य रराज शौरे; स्तच्चक्रपद्मं सुभुजोरुनालम् |
८९ क
सञ्जय़ उवाच:
यथादिपद्मं तरुणार्कवर्णं; रराज नाराय़णनाभिजातम् ||
८९ ख
सञ्जय़ उवाच:
तत्कृष्णकोपोदय़सूर्यवुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् |
९० क
सञ्जय़ उवाच:
तस्यैव देहोरुसरःप्ररूढं; रराज नाराय़णवाहुनालम् ||
९० ख
सञ्जय़ उवाच:
तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य |
९१ क
सञ्जय़ उवाच:
सर्वाणि भूतानि भृशं विनेदुः; क्षय़ं कुरूणामिति चिन्तय़ित्वा ||
९१ ख
सञ्जय़ उवाच:
स वासुदेवः प्रगृहीतचक्रः; संवर्तय़िष्यन्निव जीवलोकम् |
९२ क
सञ्जय़ उवाच:
अभ्युत्पतँल्लोकगुरुर्वभासे; भूतानि धक्ष्यन्निव कालवह्निः ||
९२ ख
सञ्जय़ उवाच:
तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम् |
९३ क
सञ्जय़ उवाच:
असम्भ्रमात्कार्मुकवाणपाणी; रथे स्थितः शान्तनवोऽभ्युवाच ||
९३ ख
सञ्जय़ उवाच:
एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे |
९४ क
सञ्जय़ उवाच:
प्रसह्य मां पातय़ लोकनाथ; रथोत्तमाद्भूतशरण्य सङ्ख्ये ||
९४ ख
सञ्जय़ उवाच:
त्वय़ा हतस्येह ममाद्य कृष्ण; श्रेय़ः परस्मिन्निह चैव लोके |
९५ क
सञ्जय़ उवाच:
सम्भावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभिय़ानात् ||
९५ ख
सञ्जय़ उवाच:
रथादवप्लुत्य ततस्त्वरावा; न्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् |
९६ क
सञ्जय़ उवाच:
जग्राह पीनोत्तमलम्ववाहुं; वाह्वोर्हरिं व्याय़तपीनवाहुः ||
९६ ख
सञ्जय़ उवाच:
निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी |
९७ क
सञ्जय़ उवाच:
आदाय़ वेगेन जगाम विष्णु; र्जिष्णुं महावात इवैकवृक्षम् ||
९७ ख
सञ्जय़ उवाच:
पार्थस्तु विष्टभ्य वलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम् |
९८ क
सञ्जय़ उवाच:
वलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथञ्चित् ||
९८ ख