chevron_left कर्ण पर्व अध्याय ५५
सञ्जय़ उवाच:
सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् |
५० क
सञ्जय़ उवाच:
प्रेषय़ामास सहसा सौवलं प्रति भारत ||
५० ख
सञ्जय़ उवाच:
तमाय़ान्तं शरं घोरं शकुनिः शत्रुतापनः |
५१ क
सञ्जय़ उवाच:
चिच्छेद शतधा राजन्कृतहस्तो महावलः ||
५१ ख
सञ्जय़ उवाच:
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते |
५२ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन सौवलस्य हसन्निव ||
५२ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं सौवलेय़ः प्रतापवान् |
५३ क
सञ्जय़ उवाच:
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ||
५३ ख
सञ्जय़ उवाच:
तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः |
५४ क
सञ्जय़ उवाच:
चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च ||
५४ ख
सञ्जय़ उवाच:
ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते |
५५ क
सञ्जय़ उवाच:
चतुर्भिश्चतुरो वाहान्विव्याध सुवलात्मजः ||
५५ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् |
५६ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप समरे रुक्मदण्डामय़स्मय़ीम् ||
५६ ख
सञ्जय़ उवाच:
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला |
५७ क
सञ्जय़ उवाच:
निपपात रथे तूर्णं सौवलस्य महात्मनः ||
५७ ख
सञ्जय़ उवाच:
ततस्तामेव सङ्गृह्य शक्तिं कनकभूषणाम् |
५८ क
सञ्जय़ उवाच:
भीमसेनाय़ चिक्षेप क्रुद्धरूपो विशां पते ||
५८ ख
सञ्जय़ उवाच:
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः |
५९ क
सञ्जय़ उवाच:
पपात च ततो भूमौ यथा विद्युन्नभश्च्युता ||
५९ ख
सञ्जय़ उवाच:
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः |
६० क
सञ्जय़ उवाच:
न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ||
६० ख
सञ्जय़ उवाच:
स सङ्गृह्य धनुः सज्यं त्वरमाणो महारथः |
६१ क
सञ्जय़ उवाच:
मुहूर्तादिव राजेन्द्र छादय़ामास साय़कैः |
६१ ख
सञ्जय़ उवाच:
सौवलस्य वलं सङ्ख्ये त्यक्त्वात्मानं महावलः ||
६१ ग
सञ्जय़ उवाच:
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते |
६२ क
सञ्जय़ उवाच:
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ||
६२ ख
सञ्जय़ उवाच:
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः |
६३ क
सञ्जय़ उवाच:
तस्थौ विस्फारय़ंश्चापं क्रोधरक्तेक्षणः श्वसन् |
६३ ख
सञ्जय़ उवाच:
शरैश्च वहुधा राजन्भीममार्च्छत्समन्ततः ||
६३ ग
सञ्जय़ उवाच:
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् |
६४ क
सञ्जय़ उवाच:
धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः ||
६४ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता शत्रुणा शत्रुकर्शनः |
६५ क
सञ्जय़ उवाच:
निपपात ततो भूमौ किञ्चित्प्राणो नराधिप ||
६५ ख
सञ्जय़ उवाच:
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते |
६६ क
सञ्जय़ उवाच:
अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ||
६६ ख
सञ्जय़ उवाच:
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः |
६७ क
सञ्जय़ उवाच:
प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभय़े ||
६७ ख
सञ्जय़ उवाच:
सौवले निर्जिते राजन्भीमसेनेन धन्विना |
६८ क
सञ्जय़ उवाच:
भय़ेन महता भग्नः पुत्रो दुर्योधनस्तव |
६८ ख
सञ्जय़ उवाच:
अपाय़ाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ||
६८ ग
सञ्जय़ उवाच:
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत |
६९ क
सञ्जय़ उवाच:
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ||
६९ ख
सञ्जय़ उवाच:
तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |
७० क
सञ्जय़ उवाच:
जवेनाभ्यपतद्भीमः किरञ्शरशतान्वहून् ||
७० ख
सञ्जय़ उवाच:
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः |
७१ क
सञ्जय़ उवाच:
कर्णमासाद्य समरे स्थिता राजन्समन्ततः |
७१ ख
सञ्जय़ उवाच:
स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहावलः ||
७१ ग
सञ्जय़ उवाच:
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः |
७२ क
सञ्जय़ उवाच:
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ||
७२ ख
सञ्जय़ उवाच:
तथा कर्णं समासाद्य तावका भरतर्षभ |
७३ क
सञ्जय़ उवाच:
समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् |
७३ ख
सञ्जय़ उवाच:
समाजग्मुश्च युद्धाय़ मृत्युं कृत्वा निवर्तनम् ||
७३ ग