सञ्जय़ उवाच:
अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली |
९९ क
सञ्जय़ उवाच:
उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम् ||
९९ ख
सञ्जय़ उवाच:
न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च |
१०० क
सञ्जय़ उवाच:
अन्तं करिष्यामि यथा कुरूणां; त्वय़ाहमिन्द्रानुज सम्प्रय़ुक्तः ||
१०० ख
सञ्जय़ उवाच:
ततः प्रतिज्ञां समय़ं च तस्मै; जनार्दनः प्रीतमना निशम्य |
१०१ क
सञ्जय़ उवाच:
स्थितः प्रिय़े कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह ||
१०१ ख
सञ्जय़ उवाच:
स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता |
१०२ क
सञ्जय़ उवाच:
विनादय़ामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः ||
१०२ ख
सञ्जय़ उवाच:
व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम् |
१०३ क
सञ्जय़ उवाच:
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ||
१०३ ख
सञ्जय़ उवाच:
मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च |
१०४ क
सञ्जय़ उवाच:
ससिंहनादाश्च वभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम् ||
१०४ ख
सञ्जय़ उवाच:
गाण्डीवघोषः स्तनय़ित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च |
१०५ क
सञ्जय़ उवाच:
जग्मुश्च वाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः ||
१०५ ख
सञ्जय़ उवाच:
तं कौरवाणामधिपो वलेन; भीष्मेण भूरिश्रवसा च सार्धम् |
१०६ क
सञ्जय़ उवाच:
अभ्युद्ययावुद्यतवाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः ||
१०६ ख
सञ्जय़ उवाच:
अथार्जुनाय़ प्रजहार भल्ला; न्भूरिश्रवाः सप्त सुवर्णपुङ्खान् |
१०७ क
सञ्जय़ उवाच:
दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शान्तनवश्च शक्तिम् ||
१०७ ख
सञ्जय़ उवाच:
स सप्तभिः सप्त शरप्रवेका; न्संवार्य भूरिश्रवसा विसृष्टान् |
१०८ क
सञ्जय़ उवाच:
शितेन दुर्योधनवाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ ||
१०८ ख
सञ्जय़ उवाच:
ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शान्तनवेन मुक्ताम् |
१०९ क
सञ्जय़ उवाच:
गदां च मद्राधिपवाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः ||
१०९ ख
सञ्जय़ उवाच:
ततो भुजाभ्यां वलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेय़म् |
११० क
सञ्जय़ उवाच:
माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे ||
११० ख
सञ्जय़ उवाच:
तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान् |
१११ क
सञ्जय़ उवाच:
शरौघजालैर्विमलाग्निवर्णै; र्निवारय़ामास किरीटमाली ||
१११ ख
सञ्जय़ उवाच:
शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि वाहून् |
११२ क
सञ्जय़ उवाच:
निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ||
११२ ख
सञ्जय़ उवाच:
ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य |
११३ क
सञ्जय़ उवाच:
गाण्डीवशव्देन मनांसि तेषां; किरीटमाली व्यथय़ां चकार ||
११३ ख
सञ्जय़ उवाच:
तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च |
११४ क
सञ्जय़ उवाच:
अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुरुग्राश्च रणप्रणादाः ||
११४ ख
सञ्जय़ उवाच:
गाण्डीवशव्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः |
११५ क
सञ्जय़ उवाच:
पाञ्चालराजो द्रुपदश्च वीर; स्तं देशमाजग्मुरदीनसत्त्वाः ||
११५ ख
सञ्जय़ उवाच:
सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः |
११६ क
सञ्जय़ उवाच:
ततस्ततः संनतिमेव जग्मु; र्न तं प्रतीपोऽभिससार कश्चित् ||
११६ ख
सञ्जय़ उवाच:
तस्मिन्सुघोरे नृपसम्प्रहारे; हताः प्रवीराः सरथाः ससूताः |
११७ क
सञ्जय़ उवाच:
गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः ||
११७ ख
सञ्जय़ उवाच:
परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकाय़ाः |
११८ क
सञ्जय़ उवाच:
दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः ||
११८ ख
सञ्जय़ उवाच:
निकृत्तय़न्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु |
११९ क
सञ्जय़ उवाच:
पदातिसङ्घाश्च रथाश्च सङ्ख्ये; हय़ाश्च नागाश्च धनञ्जय़ेन ||
११९ ख
सञ्जय़ उवाच:
वाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम् |
१२० क
सञ्जय़ उवाच:
ऐन्द्रेण तेनास्त्रवरेण राज; न्महाहवे भिन्नतनुत्रदेहाः ||
१२० ख
सञ्जय़ उवाच:
ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा |
१२१ क
सञ्जय़ उवाच:
नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै ||
१२१ ख
सञ्जय़ उवाच:
वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा |
१२२ क
सञ्जय़ उवाच:
परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का ||
१२२ ख
सञ्जय़ उवाच:
प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला |
१२३ क
सञ्जय़ उवाच:
शरीरसङ्घातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसङ्कुला ||
१२३ ख
सञ्जय़ उवाच:
नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भय़ावहा |
१२४ क
सञ्जय़ उवाच:
तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसङ्घैश्च तरक्षुभिश्च ||
१२४ ख
सञ्जय़ उवाच:
उपेतकूलां ददृशुः समन्ता; त्क्रूरां महावैतरणीप्रकाशाम् |
१२५ क
सञ्जय़ उवाच:
प्रवर्तितामर्जुनवाणसङ्घै; र्मेदोवसासृक्प्रवहां सुभीमाम् ||
१२५ ख
सञ्जय़ उवाच:
ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः |
१२६ क
सञ्जय़ उवाच:
वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसङ्घान् |
१२६ ख
सञ्जय़ उवाच:
विनेदतुस्तावतिहर्षय़ुक्तौ; गाण्डीवधन्वा च जनार्दनश्च ||
१२६ ग
सञ्जय़ उवाच:
ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः |
१२७ क
सञ्जय़ उवाच:
तदैन्द्रमस्त्रं विततं सुघोर; मसह्यमुद्वीक्ष्य युगान्तकल्पम् ||
१२७ ख
सञ्जय़ उवाच:
अथापय़ानं कुरवः सभीष्माः; सद्रोणदुर्योधनवाह्लिकाश्च |
१२८ क
सञ्जय़ उवाच:
चक्रुर्निशां सन्धिगतां समीक्ष्य; विभावसोर्लोहितराजिय़ुक्ताम् ||
१२८ ख
सञ्जय़ उवाच:
अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनञ्जय़ोऽपि |
१२९ क
सञ्जय़ उवाच:
यय़ौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिविरं निशाय़ाम् |
१२९ ख
सञ्जय़ उवाच:
ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः ||
१२९ ग
सञ्जय़ उवाच:
रणे रथानामय़ुतं निहत्य; हता गजाः सप्तशतार्जुनेन |
१३० क
सञ्जय़ उवाच:
प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च |
१३० ख
सञ्जय़ उवाच:
महत्कृतं कर्म धनञ्जय़ेन; कर्तुं यथा नार्हति कश्चिदन्यः ||
१३० ग
सञ्जय़ उवाच:
श्रुताय़ुरम्वष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ |
१३१ क
सञ्जय़ उवाच:
द्रोणः कृपः सैन्धववाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन् |
१३१ ख
सञ्जय़ उवाच:
स्ववाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन ||
१३१ ग
सञ्जय़ उवाच:
इति व्रुवन्तः शिविराणि जग्मुः; सर्वे गणा भारत ये त्वदीय़ाः |
१३२ क
सञ्जय़ उवाच:
उल्कासहस्रैश्च सुसम्प्रदीप्तै; र्विभ्राजमानैश्च तथा प्रदीपैः |
१३२ ख
सञ्जय़ उवाच:
किरीटिवित्रासितसर्वय़ोधा; चक्रे निवेशं ध्वजिनी कुरूणाम् ||
१३२ ग