chevron_left शान्ति पर्व अध्याय ५५
वैशम्पाय़न उवाच:
अथाव्रवीन्महातेजा वाक्यं कौरवनन्दनः |
१ क
वैशम्पाय़न उवाच:
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम |
१ ख
वैशम्पाय़न उवाच:
तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः ||
१ ग
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु |
२ क
वैशम्पाय़न उवाच:
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ ||
२ ख
वैशम्पाय़न उवाच:
यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि |
३ क
वैशम्पाय़न उवाच:
अहृष्यन्नृषय़ः सर्वे स मां पृच्छतु पाण्डवः ||
३ ख
वैशम्पाय़न उवाच:
सर्वेषां दीप्तय़शसां कुरूणां धर्मचारिणाम् |
४ क
वैशम्पाय़न उवाच:
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ||
४ ख
वैशम्पाय़न उवाच:
धृतिर्दमो व्रह्मचर्यं क्षमा धर्मश्च नित्यदा |
५ क
वैशम्पाय़न उवाच:
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः ||
५ ख
वैशम्पाय़न उवाच:
सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसम्भ्रमः |
६ क
वैशम्पाय़न उवाच:
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः ||
६ ख
वैशम्पाय़न उवाच:
यो न कामान्न संरम्भान्न भय़ान्नार्थकारणात् |
७ क
वैशम्पाय़न उवाच:
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः ||
७ ख
वैशम्पाय़न उवाच:
सम्वन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः |
८ क
वैशम्पाय़न उवाच:
संमानय़ति सत्कृत्य स मां पृच्छतु पाण्डवः ||
८ ख
वैशम्पाय़न उवाच:
सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रिय़ः |
९ क
वैशम्पाय़न उवाच:
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ||
९ ख
वैशम्पाय़न उवाच:
इज्याध्ययननित्यश्च धर्मे च निरतः सदा |
१० क
वैशम्पाय़न उवाच:
शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ||
१० ख
वासुदेव उवाच:
लज्जय़ा परय़ोपेतो धर्मात्मा स युधिष्ठिरः |
११ क
वासुदेव उवाच:
अभिशापभय़ाद्भीतो भवन्तं नोपसर्पति ||
११ ख
वासुदेव उवाच:
लोकस्य कदनं कृत्वा लोकनाथो विशां पते |
१२ क
वासुदेव उवाच:
अभिशापभय़ाद्भीतो भवन्तं नोपसर्पति ||
१२ ख
वासुदेव उवाच:
पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्वन्धिवान्धवान् |
१३ क
वासुदेव उवाच:
अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति ||
१३ ख
भीष्म उवाच:
व्राह्मणानां यथा धर्मो दानमध्ययनं तपः |
१४ क
भीष्म उवाच:
क्षत्रिय़ाणां तथा कृष्ण समरे देहपातनम् ||
१४ ख
भीष्म उवाच:
पितॄन्पितामहान्पुत्रान्गुरून्सम्वन्धिवान्धवान् |
१५ क
भीष्म उवाच:
मिथ्याप्रवृत्तान्यः सङ्ख्ये निहन्याद्धर्म एव सः ||
१५ ख
भीष्म उवाच:
समय़त्यागिनो लुव्धान्गुरूनपि च केशव |
१६ क
भीष्म उवाच:
निहन्ति समरे पापान्क्षत्रिय़ो यः स धर्मवित् ||
१६ ख
भीष्म उवाच:
आहूतेन रणे नित्यं योद्धव्यं क्षत्रवन्धुना |
१७ क
भीष्म उवाच:
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरव्रवीत् ||
१७ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः |
१८ क
वैशम्पाय़न उवाच:
विनीतवदुपागम्य तस्थौ सन्दर्शनेऽग्रतः ||
१८ ख
वैशम्पाय़न उवाच:
अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम् |
१९ क
वैशम्पाय़न उवाच:
मूर्ध्नि चैनमुपाघ्राय़ निषीदेत्यव्रवीत्तदा ||
१९ ख
वैशम्पाय़न उवाच:
तमुवाचाथ गाङ्गेय़ ऋषभः सर्वधन्विनाम् |
२० क
वैशम्पाय़न उवाच:
पृच्छ मां तात विस्रव्धं मा भैस्त्वं कुरुसत्तम ||
२० ख