च्यवन उवाच:
वरश्च गृह्यतां मत्तो यश्च ते संशय़ो हृदि |
१ क
च्यवन उवाच:
तं च व्रूहि नरश्रेष्ठ सर्वं सम्पादय़ामि ते ||
१ ख
कुशिक उवाच:
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव |
२ क
कुशिक उवाच:
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ||
२ ख
कुशिक उवाच:
शय़नं चैकपार्श्वेन दिवसानेकविंशतिम् |
३ क
कुशिक उवाच:
अकिञ्चिदुक्त्वा गमनं वहिश्च मुनिपुङ्गव ||
३ ख
कुशिक उवाच:
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् |
४ क
कुशिक उवाच:
पुनश्च शय़नं विप्र दिवसानेकविंशतिम् ||
४ ख
कुशिक उवाच:
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम |
५ क
कुशिक उवाच:
समुपानीय़ विविधं यद्दग्धं जातवेदसा |
५ ख
कुशिक उवाच:
निर्याणं च रथेनाशु सहसा यत्कृतं त्वय़ा ||
५ ग
कुशिक उवाच:
धनानां च विसर्गस्य वनस्यापि च दर्शनम् |
६ क
कुशिक उवाच:
प्रासादानां वहूनां च काञ्चनानां महामुने ||
६ ख
कुशिक उवाच:
मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् |
७ क
कुशिक उवाच:
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ||
७ ख
कुशिक उवाच:
अतीव ह्यत्र मुह्यामि चिन्तय़ानो दिवानिशम् |
८ क
कुशिक उवाच:
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चय़म् |
८ ख
कुशिक उवाच:
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ||
८ ग
च्यवन उवाच:
शृणु सर्वमशेषेण यदिदं येन हेतुना |
९ क
च्यवन उवाच:
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ||
९ ख
च्यवन उवाच:
पितामहस्य वदतः पुरा देवसमागमे |
१० क
च्यवन उवाच:
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ||
१० ख
च्यवन उवाच:
व्रह्मक्षत्रविरोधेन भविता कुलसङ्करः |
११ क
च्यवन उवाच:
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ||
११ ख
च्यवन उवाच:
ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् |
१२ क
च्यवन उवाच:
चिकीर्षन्कुशिकोच्छेदं सन्दिधक्षुः कुलं तव ||
१२ ख
च्यवन उवाच:
ततोऽहमागम्य पुरा त्वामवोचं महीपते |
१३ क
च्यवन उवाच:
निय़मं कञ्चिदारप्स्ये शुश्रूषा क्रिय़तामिति ||
१३ ख
च्यवन उवाच:
न च ते दुष्कृतं किञ्चिदहमासादय़ं गृहे |
१४ क
च्यवन उवाच:
तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ||
१४ ख
च्यवन उवाच:
एतां वुद्धिं समास्थाय़ दिवसानेकविंशतिम् |
१५ क
च्यवन उवाच:
सुप्तोऽस्मि यदि मां कश्चिद्वोधय़ेदिति पार्थिव ||
१५ ख
च्यवन उवाच:
यदा त्वय़ा सभार्येण संसुप्तो न प्रवोधितः |
१६ क
च्यवन उवाच:
अहं तदैव ते प्रीतो मनसा राजसत्तम ||
१६ ख
च्यवन उवाच:
उत्थाय़ चास्मि निष्क्रान्तो यदि मां त्वं महीपते |
१७ क
च्यवन उवाच:
पृच्छेः क्व यास्यसीत्येवं शपेय़ं त्वामिति प्रभो ||
१७ ख
च्यवन उवाच:
अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे |
१८ क
च्यवन उवाच:
योगमास्थाय़ संविष्टो दिवसानेकविंशतिम् ||
१८ ख
च्यवन उवाच:
क्षुधितो मामसूय़ेथाः श्रमाद्वेति नराधिप |
१९ क
च्यवन उवाच:
एतां वुद्धिं समास्थाय़ कर्शितौ वां मय़ा क्षुधा ||
१९ ख
च्यवन उवाच:
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव |
२० क
च्यवन उवाच:
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ||
२० ख
च्यवन उवाच:
भोजनं च समानाय़्य यत्तदादीपितं मय़ा |
२१ क
च्यवन उवाच:
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ||
२१ ख
च्यवन उवाच:
ततोऽहं रथमारुह्य त्वामवोचं नराधिप |
२२ क
च्यवन उवाच:
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ||
२२ ख
च्यवन उवाच:
अविशङ्को नरपते प्रीतोऽहं चापि तेन ते |
२३ क
च्यवन उवाच:
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षय़त् ||
२३ ख
च्यवन उवाच:
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव |
२४ क
च्यवन उवाच:
सभार्यस्य वनं भूय़स्तद्विद्धि मनुजाधिप ||
२४ ख
च्यवन उवाच:
प्रीत्यर्थं तव चैतन्मे स्वर्गसन्दर्शनं कृतम् |
२५ क
च्यवन उवाच:
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ||
२५ ख
च्यवन उवाच:
स्वर्गोद्देशस्त्वय़ा राजन्सशरीरेण पार्थिव |
२६ क
च्यवन उवाच:
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ||
२६ ख
च्यवन उवाच:
निदर्शनार्थं तपसो धर्मस्य च नराधिप |
२७ क
च्यवन उवाच:
तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ||
२७ ख
च्यवन उवाच:
व्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते |
२८ क
च्यवन उवाच:
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ||
२८ ख
च्यवन उवाच:
एवमेतद्यथात्थ त्वं व्राह्मण्यं तात दुर्लभम् |
२९ क
च्यवन उवाच:
व्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ||
२९ ख
च्यवन उवाच:
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः |
३० क
च्यवन उवाच:
तृतीय़ं पुरुषं प्राप्य व्राह्मणत्वं गमिष्यति ||
३० ख
च्यवन उवाच:
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा |
३१ क
च्यवन उवाच:
पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ||
३१ ख
च्यवन उवाच:
यः स देवमनुष्याणां भय़मुत्पादय़िष्यति |
३२ क
च्यवन उवाच:
त्रय़ाणां चैव लोकानां सत्यमेतद्व्रवीमि ते ||
३२ ख
च्यवन उवाच:
वरं गृहाण राजर्षे यस्ते मनसि वर्तते |
३३ क
च्यवन उवाच:
तीर्थय़ात्रां गमिष्यामि पुरा कालोऽतिवर्तते ||
३३ ख
कुशिक उवाच:
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने |
३४ क
कुशिक उवाच:
भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ |
३४ ख
कुशिक उवाच:
व्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ||
३४ ग
कुशिक उवाच:
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै |
३५ क
कुशिक उवाच:
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन |
३५ ख
कुशिक उवाच:
कश्चासौ भविता वन्धुर्मम कश्चापि संमतः ||
३५ ग