chevron_left आश्वमेधिक पर्व अध्याय ५५
जनमेजय़ उवाच:
उत्तङ्कः केन तपसा संय़ुक्तः सुमहातपाः |
१ क
जनमेजय़ उवाच:
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ||
१ ख
वैशम्पाय़न उवाच:
उत्तङ्को महता युक्तस्तपसा जनमेजय़ |
२ क
वैशम्पाय़न उवाच:
गुरुभक्तः स तेजस्वी नान्यं कञ्चिदपूजय़त् ||
२ ख
वैशम्पाय़न उवाच:
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः |
३ क
वैशम्पाय़न उवाच:
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुय़ामिति भारत ||
३ ख
वैशम्पाय़न उवाच:
गौतमस्य तु शिष्याणां वहूनां जनमेजय़ |
४ क
वैशम्पाय़न उवाच:
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ||
४ ख
वैशम्पाय़न उवाच:
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा |
५ क
वैशम्पाय़न उवाच:
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ||
५ ख
वैशम्पाय़न उवाच:
अथ शिष्यसहस्राणि समनुज्ञाय़ गौतमः |
६ क
वैशम्पाय़न उवाच:
उत्तङ्कं परय़ा प्रीत्या नाभ्यनुज्ञातुमैच्छत ||
६ ख
वैशम्पाय़न उवाच:
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् |
७ क
वैशम्पाय़न उवाच:
न चान्ववुध्यत तदा स मुनिर्गुरुवत्सलः ||
७ ख
वैशम्पाय़न उवाच:
ततः कदाचिद्राजेन्द्र काष्ठान्यानय़ितुं यय़ौ |
८ क
वैशम्पाय़न उवाच:
उत्तङ्कः काष्ठभारं च महान्तं समुपानय़त् ||
८ ख
वैशम्पाय़न उवाच:
स तु भाराभिभूतात्मा काष्ठभारमरिन्दम |
९ क
वैशम्पाय़न उवाच:
निष्पिपेष क्षितौ राजन्परिश्रान्तो वुभुक्षितः ||
९ ख
वैशम्पाय़न उवाच:
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा |
१० क
वैशम्पाय़न उवाच:
ततः काष्ठैः सह तदा पपात धरणीतले ||
१० ख
वैशम्पाय़न उवाच:
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः |
११ क
वैशम्पाय़न उवाच:
दृष्ट्वा तां वय़सोऽवस्थां रुरोदार्तस्वरं तदा ||
११ ख
वैशम्पाय़न उवाच:
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा |
१२ क
वैशम्पाय़न उवाच:
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना |
१२ ख
वैशम्पाय़न उवाच:
पितुर्निय़ोगाद्धर्मज्ञा शिरसावनता तदा ||
१२ ग
वैशम्पाय़न उवाच:
तस्या निपेततुर्दग्धौ करौ तैरश्रुविन्दुभिः |
१३ क
वैशम्पाय़न उवाच:
न हि तानश्रुपातान्वै शक्ता धारय़ितुं मही ||
१३ ख
वैशम्पाय़न उवाच:
गौतमस्त्वव्रवीद्विप्रमुत्तङ्कं प्रीतमानसः |
१४ क
वैशम्पाय़न उवाच:
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः |
१४ ख
वैशम्पाय़न उवाच:
स स्वैरं व्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ||
१४ ग
उत्तङ्क उवाच:
भवद्गतेन मनसा भवत्प्रिय़चिकीर्षय़ा |
१५ क
उत्तङ्क उवाच:
भवद्भक्तिगतेनेह भवद्भावानुगेन च ||
१५ ख
उत्तङ्क उवाच:
जरेय़ं नाववुद्धा मे नाभिज्ञातं सुखं च मे |
१६ क
उत्तङ्क उवाच:
शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ||
१६ ख
उत्तङ्क उवाच:
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मय़ा |
१७ क
उत्तङ्क उवाच:
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ||
१७ ख
गौतम उवाच:
त्वत्प्रीतिय़ुक्तेन मय़ा गुरुशुश्रूषय़ा तव |
१८ क
गौतम उवाच:
व्यतिक्रामन्महान्कालो नाववुद्धो द्विजर्षभ ||
१८ ख
गौतम उवाच:
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव |
१९ क
गौतम उवाच:
अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ||
१९ ख
उत्तङ्क उवाच:
गुर्वर्थं कं प्रय़च्छामि व्रूहि त्वं द्विजसत्तम |
२० क
उत्तङ्क उवाच:
तमुपाकृत्य गच्छेय़मनुज्ञातस्त्वय़ा विभो ||
२० ख
गौतम उवाच:
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते |
२१ क
गौतम उवाच:
तव ह्याचरतो व्रह्मंस्तुष्टोऽहं वै न संशय़ः ||
२१ ख
गौतम उवाच:
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह |
२२ क
गौतम उवाच:
युवा षोडशवर्षो हि यदद्य भविता भवान् ||
२२ ख
गौतम उवाच:
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज |
२३ क
गौतम उवाच:
एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ||
२३ ख
गौतम उवाच:
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् |
२४ क
गौतम उवाच:
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाव्रवीत् ||
२४ ख
गौतम उवाच:
किं भवत्यै प्रय़च्छामि गुर्वर्थं विनिय़ुङ्क्ष्व माम् |
२५ क
गौतम उवाच:
प्रिय़ं हि तव काङ्क्षामि प्राणैरपि धनैरपि ||
२५ ख
गौतम उवाच:
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् |
२६ क
गौतम उवाच:
तदानय़ेय़ं तपसा न हि मेऽत्रास्ति संशय़ः ||
२६ ख
अहल्यो उवाच:
परितुष्टास्मि ते पुत्र नित्यं भगवता सह |
२७ क
अहल्यो उवाच:
पर्याप्तय़े तद्भद्रं ते गच्छ तात यथेच्छकम् ||
२७ ख
वैशम्पाय़न उवाच:
उत्तङ्कस्तु महाराज पुनरेवाव्रवीद्वचः |
२८ क
वैशम्पाय़न उवाच:
आज्ञापय़स्व मां मातः कर्तव्यं हि प्रिय़ं तव ||
२८ ख
अहल्यो उवाच:
सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले |
२९ क
अहल्यो उवाच:
ते समानय़ भद्रं ते गुर्वर्थः सुकृतो भवेत् ||
२९ ख
अहल्यो उवाच:
स तथेति प्रतिश्रुत्य जगाम जनमेजय़ |
३० क
अहल्यो उवाच:
गुरुपत्नीप्रिय़ार्थं वै ते समानय़ितुं तदा ||
३० ख
अहल्यो उवाच:
स जगाम ततः शीघ्रमुत्तङ्को व्राह्मणर्षभः |
३१ क
अहल्यो उवाच:
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ||
३१ ख
अहल्यो उवाच:
गौतमस्त्वव्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते |
३२ क
अहल्यो उवाच:
इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ||
३२ ख
अहल्यो उवाच:
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् |
३३ क
अहल्यो उवाच:
शप्तः स पार्थिवो नूनं व्राह्मणं तं वधिष्यति ||
३३ ख
अहल्यो उवाच:
अजानन्त्या निय़ुक्तः स भगवन्व्राह्मणोऽद्य मे |
३४ क
अहल्यो उवाच:
भवत्प्रसादान्न भय़ं किञ्चित्तस्य भविष्यति ||
३४ ख
अहल्यो उवाच:
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः |
३५ क
अहल्यो उवाच:
उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ||
३५ ख