वृहदश्व उवाच:
वृते तु नैषधे भैम्या लोकपाला महौजसः |
१ क
वृहदश्व उवाच:
यान्तो ददृशुराय़ान्तं द्वापरं कलिना सह ||
१ ख
वृहदश्व उवाच:
अथाव्रवीत्कलिं शक्रः सम्प्रेक्ष्य वलवृत्रहा |
२ क
वृहदश्व उवाच:
द्वापरेण सहाय़ेन कले व्रूहि क्व यास्यसि ||
२ ख
वृहदश्व उवाच:
ततोऽव्रवीत्कलिः शक्रं दमय़न्त्याः स्वय़ंवरम् |
३ क
वृहदश्व उवाच:
गत्वाहं वरय़िष्ये तां मनो हि मम तद्गतम् ||
३ ख
वृहदश्व उवाच:
तमव्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वय़ंवरः |
४ क
वृहदश्व उवाच:
वृतस्तय़ा नलो राजा पतिरस्मत्समीपतः ||
४ ख
वृहदश्व उवाच:
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः |
५ क
वृहदश्व उवाच:
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ||
५ ख
वृहदश्व उवाच:
देवानां मानुषं मध्ये यत्सा पतिमविन्दत |
६ क
वृहदश्व उवाच:
ननु तस्या भवेन्न्याय़्यं विपुलं दण्डधारणम् ||
६ ख
वृहदश्व उवाच:
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः |
७ क
वृहदश्व उवाच:
अस्माभिः समनुज्ञातो दमय़न्त्या नलो वृतः ||
७ ख
वृहदश्व उवाच:
कश्च सर्वगुणोपेतं नाश्रय़ेत नलं नृपम् |
८ क
वृहदश्व उवाच:
यो वेद धर्मानखिलान्यथावच्चरितव्रतः ||
८ ख
वृहदश्व उवाच:
यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः |
९ क
वृहदश्व उवाच:
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ||
९ ख
वृहदश्व उवाच:
आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना |
१० क
वृहदश्व उवाच:
एवङ्गुणं नलं यो वै कामय़ेच्छपितुं कले ||
१० ख
वृहदश्व उवाच:
कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे |
११ क
वृहदश्व उवाच:
एवमुक्त्वा कलिं देवा द्वापरं च दिवं यय़ुः ||
११ ख
वृहदश्व उवाच:
ततो गतेषु देवेषु कलिर्द्वापरमव्रवीत् |
१२ क
वृहदश्व उवाच:
संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ||
१२ ख
वृहदश्व उवाच:
भ्रंशय़िष्यामि तं राज्यान्न भैम्या सह रंस्यते |
१३ क
वृहदश्व उवाच:
त्वमप्यक्षान्समाविश्य कर्तुं साहाय़्यमर्हसि ||
१३ ख