भीम उवाच:
पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः |
१ क
भीम उवाच:
विशालां वदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ||
१ ख
भीम उवाच:
अपश्यत्तत्र पञ्चाली सौगन्धिकमनुत्तमम् |
२ क
भीम उवाच:
अनिलोढमितो नूनं सा वहूनि परीप्सति ||
२ ख
भीम उवाच:
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिय़े स्थितम् |
३ क
भीम उवाच:
पुष्पाहारमिह प्राप्तं निवोधत निशाचराः ||
३ ख
राक्षसा ऊचुः:
आक्रीडोऽय़ं कुवेरस्य दय़ितः पुरुषर्षभ |
४ क
राक्षसा ऊचुः:
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ||
४ ख
राक्षसा ऊचुः:
देवर्षय़स्तथा यक्षा देवाश्चात्र वृकोदर |
५ क
राक्षसा ऊचुः:
आमन्त्र्य यक्षप्रवरं पिवन्ति विहरन्ति च |
५ ख
राक्षसा ऊचुः:
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ||
५ ग
राक्षसा ऊचुः:
अन्याय़ेनेह यः कश्चिदवमन्य धनेश्वरम् |
६ क
राक्षसा ऊचुः:
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशय़म् ||
६ ख
राक्षसा ऊचुः:
तमनादृत्य पद्मानि जिहीर्षसि वलादितः |
७ क
राक्षसा ऊचुः:
धर्मराजस्य चात्मानं व्रवीषि भ्रातरं कथम् ||
७ ख
भीम उवाच:
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके |
८ क
भीम उवाच:
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ||
८ ख
भीम उवाच:
न हि याचन्ति राजान एष धर्मः सनातनः |
९ क
भीम उवाच:
न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन ||
९ ख
भीम उवाच:
इय़ं च नलिनी रम्या जाता पर्वतनिर्झरे |
१० क
भीम उवाच:
नेय़ं भवनमासाद्य कुवेरस्य महात्मनः ||
१० ख
भीम उवाच:
तुल्या हि सर्वभूतानामिय़ं वैश्रवणस्य च |
११ क
भीम उवाच:
एवङ्गतेषु द्रव्येषु कः कं याचितुमर्हति ||
११ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत |
१२ क
वैशम्पाय़न उवाच:
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् |
१२ ख
वैशम्पाय़न उवाच:
मा मैवमिति सक्रोधैर्भर्त्सय़द्भिः समन्ततः ||
१२ ग
वैशम्पाय़न उवाच:
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः |
१३ क
वैशम्पाय़न उवाच:
व्यगाहत महातेजास्ते तं सर्वे न्यवारय़न् ||
१३ ख
वैशम्पाय़न उवाच:
गृह्णीत वध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् |
१४ क
वैशम्पाय़न उवाच:
क्रुद्धा व्रुवन्तोऽनुय़युर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः ||
१४ ख
वैशम्पाय़न उवाच:
ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् |
१५ क
वैशम्पाय़न उवाच:
प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽव्रवीत्तिष्ठत तिष्ठतेति ||
१५ ख
वैशम्पाय़न उवाच:
ते तं तदा तोमरपट्टिशाद्यै; र्व्याविध्य शस्त्रैः सहसाभिपेतुः |
१६ क
वैशम्पाय़न उवाच:
जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः ||
१६ ख
वैशम्पाय़न उवाच:
वातेन कुन्त्यां वलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता |
१७ क
वैशम्पाय़न उवाच:
सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः ||
१७ ख
वैशम्पाय़न उवाच:
तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् |
१८ क
वैशम्पाय़न उवाच:
यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे ||
१८ ख
वैशम्पाय़न उवाच:
ते तस्य वीर्यं च वलं च दृष्ट्वा; विद्यावलं वाहुवलं तथैव |
१९ क
वैशम्पाय़न उवाच:
अशक्नुवन्तः सहिताः समन्ता; द्धतप्रवीराः सहसा निवृत्ताः ||
१९ ख
वैशम्पाय़न उवाच:
विदीर्यमाणास्तत एव तूर्ण; माकाशमास्थाय़ विमूढसञ्ज्ञाः |
२० क
वैशम्पाय़न उवाच:
कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः ||
२० ख
वैशम्पाय़न उवाच:
स शक्रवद्दानवदैत्यसङ्घा; न्विक्रम्य जित्वा च रणेऽरिसङ्घान् |
२१ क
वैशम्पाय़न उवाच:
विगाह्य तां पुष्करिणीं जितारिः; कामाय़ जग्राह ततोऽम्वुजानि ||
२१ ख
वैशम्पाय़न उवाच:
ततः स पीत्वामृतकल्पमम्भो; भूय़ो वभूवोत्तमवीर्यतेजाः |
२२ क
वैशम्पाय़न उवाच:
उत्पाट्य जग्राह ततोऽम्वुजानि; सौगन्धिकान्युत्तमगन्धवन्ति ||
२२ ख
वैशम्पाय़न उवाच:
ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमवलप्रणुन्नाः |
२३ क
वैशम्पाय़न उवाच:
भीमस्य वीर्यं च वलं च सङ्ख्ये; यथावदाचख्युरतीव दीनाः ||
२३ ख
वैशम्पाय़न उवाच:
तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच |
२४ क
वैशम्पाय़न उवाच:
गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् ||
२४ ख
वैशम्पाय़न उवाच:
ततोऽभ्यनुज्ञाय़ धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः |
२५ क
वैशम्पाय़न उवाच:
भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम् ||
२५ ख