दुर्योधन उवाच:
अक्षौहिणीः सप्त लव्ध्वा राजभिः सह सञ्जय़ |
१ क
दुर्योधन उवाच:
किं स्विदिच्छति कौन्तेय़ो युद्धप्रेप्सुर्युधिष्ठिरः ||
१ ख
सञ्जय़ उवाच:
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः |
२ क
सञ्जय़ उवाच:
भीमसेनार्जुनौ चोभौ यमावपि न विभ्यतः ||
२ ख
सञ्जय़ उवाच:
रथं तु दिव्यं कौन्तेय़ः सर्वा विभ्राजय़न्दिशः |
३ क
सञ्जय़ उवाच:
मन्त्रं जिज्ञासमानः सन्वीभत्सुः समय़ोजय़त् ||
३ ख
सञ्जय़ उवाच:
तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा |
४ क
सञ्जय़ उवाच:
स मन्त्रान्समभिध्याय़ हृष्यमाणोऽभ्यभाषत ||
४ ख
सञ्जय़ उवाच:
पूर्वरूपमिदं पश्य वय़ं जेष्याम सञ्जय़ |
५ क
सञ्जय़ उवाच:
वीभत्सुर्मां यथोवाच तथावैम्यहमप्युत ||
५ ख
दुर्योधन उवाच:
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् |
६ क
दुर्योधन उवाच:
अर्जुनस्य रथे व्रूहि कथमश्वाः कथं ध्वजः ||
६ ख
सञ्जय़ उवाच:
भौवनः सह शक्रेण वहुचित्रं विशां पते |
७ क
सञ्जय़ उवाच:
रूपाणि कल्पय़ामास त्वष्टा धात्रा सहाभिभो ||
७ ख
सञ्जय़ उवाच:
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमाय़या |
८ क
सञ्जय़ उवाच:
महाधनानि दिव्यानि महान्ति च लघूनि च ||
८ ख
सञ्जय़ उवाच:
सर्वा दिशो योजनमात्रमन्तरं; स तिर्यगूर्ध्वं च रुरोध वै ध्वजः |
९ क
सञ्जय़ उवाच:
न संसज्जेत्तरुभिः संवृतोऽपि; तथा हि माय़ा विहिता भौवनेन ||
९ ख
सञ्जय़ उवाच:
यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत् |
१० क
सञ्जय़ उवाच:
तथा ध्वजो विहितो भौवनेन; वह्वाकारं दृश्यते रूपमस्य ||
१० ख
सञ्जय़ उवाच:
यथाग्निधूमो दिवमेति रुद्ध्वा; वर्णान्विभ्रत्तैजसं तच्छरीरम् |
११ क
सञ्जय़ उवाच:
तथा ध्वजो विहितो भौवनेन; न चेद्भारो भविता नोत रोधः ||
११ ख
सञ्जय़ उवाच:
श्वेतास्तस्मिन्वातवेगाः सदश्वा; दिव्या युक्ताश्चित्ररथेन दत्ताः |
१२ क
सञ्जय़ उवाच:
शतं यत्तत्पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात् ||
१२ ख
सञ्जय़ उवाच:
तथा राज्ञो दन्तवर्णा वृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः |
१३ क
सञ्जय़ उवाच:
ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वाय़ोस्तुल्यवेगा वभूवुः ||
१३ ख
सञ्जय़ उवाच:
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीय़ता फल्गुनेन |
१४ क
सञ्जय़ उवाच:
भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति ||
१४ ख
सञ्जय़ उवाच:
माद्रीपुत्रं नकुलं त्वाजमीढं; महेन्द्रदत्ता हरय़ो वाजिमुख्याः |
१५ क
सञ्जय़ उवाच:
समा वाय़ोर्वलवन्तस्तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ||
१५ ख
सञ्जय़ उवाच:
तुल्याश्चैभिर्वय़सा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः |
१६ क
सञ्जय़ उवाच:
सौभद्रादीन्द्रौपदेय़ान्कुमारा; न्वहन्त्यश्वा देवदत्ता वृहन्तः ||
१६ ख