chevron_left वन पर्व अध्याय ३९
जनमेजय़ उवाच:
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः |
१ क
जनमेजय़ उवाच:
विस्तरेण कथामेतां यथास्त्राण्युपलव्धवान् ||
१ ख
जनमेजय़ उवाच:
कथं स पुरुषव्याघ्रो दीर्घवाहुर्धनञ्जय़ः |
२ क
जनमेजय़ उवाच:
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ||
२ ख
जनमेजय़ उवाच:
किं च तेन कृतं तत्र वसता व्रह्मवित्तम |
३ क
जनमेजय़ उवाच:
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ||
३ ख
जनमेजय़ उवाच:
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम |
४ क
जनमेजय़ उवाच:
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ||
४ ख
जनमेजय़ उवाच:
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः |
५ क
जनमेजय़ उवाच:
भवेन सह सङ्ग्रामं चकाराप्रतिमं किल |
५ ख
जनमेजय़ उवाच:
पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः ||
५ ग
जनमेजय़ उवाच:
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मय़ात् |
६ क
जनमेजय़ उवाच:
शूराणामपि पार्थानां हृदय़ानि चकम्पिरे ||
६ ख
जनमेजय़ उवाच:
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद |
७ क
जनमेजय़ उवाच:
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षय़े |
७ ख
जनमेजय़ उवाच:
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय़ ||
७ ग
वैशम्पाय़न उवाच:
कथय़िष्यामि ते तात कथामेतां महात्मनः |
८ क
वैशम्पाय़न उवाच:
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ||
८ ख
वैशम्पाय़न उवाच:
गात्रसंस्पर्शसम्वन्धं त्र्यम्वकेण सहानघ |
९ क
वैशम्पाय़न उवाच:
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ||
९ ख
वैशम्पाय़न उवाच:
युधिष्ठिरनिय़ोगात्स जगामामितविक्रमः |
१० क
वैशम्पाय़न उवाच:
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम् ||
१० ख
वैशम्पाय़न उवाच:
दिव्यं तद्धनुरादाय़ खड्गं च पुरुषर्षभः |
११ क
वैशम्पाय़न उवाच:
महावलो महावाहुरर्जुनः कार्यसिद्धय़े |
११ ख
वैशम्पाय़न उवाच:
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ||
११ ग
वैशम्पाय़न उवाच:
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः |
१२ क
वैशम्पाय़न उवाच:
त्वरय़ा परय़ा युक्तस्तपसे धृतनिश्चय़ः |
१२ ख
वैशम्पाय़न उवाच:
वनं कण्टकितं घोरमेक एवान्वपद्यत ||
१२ ग
वैशम्पाय़न उवाच:
नानापुष्पफलोपेतं नानापक्षिनिषेवितम् |
१३ क
वैशम्पाय़न उवाच:
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ||
१३ ख
वैशम्पाय़न उवाच:
ततः प्रय़ाते कौन्तेय़े वनं मानुषवर्जितम् |
१४ क
वैशम्पाय़न उवाच:
शङ्खानां पटहानां च शव्दः समभवद्दिवि ||
१४ ख
वैशम्पाय़न उवाच:
पुष्पवर्षं च सुमहन्निपपात महीतले |
१५ क
वैशम्पाय़न उवाच:
मेघजालं च विततं छादय़ामास सर्वतः ||
१५ ख
वैशम्पाय़न उवाच:
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः |
१६ क
वैशम्पाय़न उवाच:
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ||
१६ ख
वैशम्पाय़न उवाच:
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् |
१७ क
वैशम्पाय़न उवाच:
नदीश्च वहुलावर्ता नीलवैडूर्यसंनिभाः ||
१७ ख
वैशम्पाय़न उवाच:
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा |
१८ क
वैशम्पाय़न उवाच:
पुंस्कोकिलरुताश्चैव क्रौञ्चवर्हिणनादिताः ||
१८ ख
वैशम्पाय़न उवाच:
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः |
१९ क
वैशम्पाय़न उवाच:
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ||
१९ ख
वैशम्पाय़न उवाच:
रमणीय़े वनोद्देशे रममाणोऽर्जुनस्तदा |
२० क
वैशम्पाय़न उवाच:
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ||
२० ख
वैशम्पाय़न उवाच:
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः |
२१ क
वैशम्पाय़न उवाच:
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः |
२१ ख
वैशम्पाय़न उवाच:
द्विगुणेनैव कालेन द्वितीय़ं मासमत्यगात् ||
२१ ग
वैशम्पाय़न उवाच:
तृतीय़मपि मासं स पक्षेणाहारमाचरन् |
२२ क
वैशम्पाय़न उवाच:
शीर्णं च पतितं भूमौ पर्णं समुपय़ुक्तवान् ||
२२ ख
वैशम्पाय़न उवाच:
चतुर्थे त्वथ सम्प्राप्ते मासि पूर्णे ततः परम् |
२३ क
वैशम्पाय़न उवाच:
वाय़ुभक्षो महावाहुरभवत्पाण्डुनन्दनः |
२३ ख
वैशम्पाय़न उवाच:
ऊर्ध्ववाहुर्निरालम्वः पादाङ्गुष्ठाग्रविष्ठितः ||
२३ ग
वैशम्पाय़न उवाच:
सदोपस्पर्शनाच्चास्य वभूवुरमितौजसः |
२४ क
वैशम्पाय़न उवाच:
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ||
२४ ख
वैशम्पाय़न उवाच:
ततो महर्षय़ः सर्वे जग्मुर्देवं पिनाकिनम् |
२५ क
वैशम्पाय़न उवाच:
शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च |
२५ ख
वैशम्पाय़न उवाच:
सर्वे निवेदय़ामासुः कर्म तत्फल्गुनस्य ह ||
२५ ग
वैशम्पाय़न उवाच:
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः |
२६ क
वैशम्पाय़न उवाच:
उग्रे तपसि दुष्पारे स्थितो धूमाय़यन्दिशः ||
२६ ख
वैशम्पाय़न उवाच:
तस्य देवेश न वय़ं विद्मः सर्वे चिकीर्षितम् |
२७ क
वैशम्पाय़न उवाच:
सन्तापय़ति नः सर्वानसौ साधु निवार्यताम् ||
२७ ख
महेश्वर उवाच:
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः |
२८ क
महेश्वर उवाच:
अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् ||
२८ ख
महेश्वर उवाच:
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चाय़ुषः |
२९ क
महेश्वर उवाच:
यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ||
२९ ख
वैशम्पाय़न उवाच:
ते श्रुत्व शर्ववचनमृषय़ः सत्यवादिनः |
३० क
वैशम्पाय़न उवाच:
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ||
३० ख