chevron_left कर्ण पर्व अध्याय ५५
सञ्जय़ उवाच:
श्रुत्वा च रथनिर्घोषं सिंहनादं च संय़ुगे |
१ क
सञ्जय़ उवाच:
अर्जुनः प्राह गोविन्दं शीघ्रं चोदय़ वाजिनः ||
१ ख
सञ्जय़ उवाच:
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमव्रवीत् |
२ क
सञ्जय़ उवाच:
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ||
२ ख
सञ्जय़ उवाच:
आय़ान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः |
३ क
सञ्जय़ उवाच:
जम्भं जिघांसुं प्रगृहीतवज्रं; जय़ाय़ देवेन्द्रमिवोग्रमन्युम् ||
३ ख
सञ्जय़ उवाच:
रथाश्वमातङ्गपदातिसङ्घा; वाणस्वनैर्नेमिखुरस्वनैश्च |
४ क
सञ्जय़ उवाच:
संनादय़न्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जय़मभ्युदीय़ुः ||
४ ख
सञ्जय़ उवाच:
तेषां च पार्थस्य महत्तदासी; द्देहासुपाप्मक्षपणं सुय़ुद्धम् |
५ क
सञ्जय़ उवाच:
त्रैलोक्यहेतोरसुरैर्यथासी; द्देवस्य विष्णोर्जय़तां वरस्य ||
५ ख
सञ्जय़ उवाच:
तैरस्तमुच्चावचमाय़ुधौघ; मेकः प्रचिच्छेद किरीटमाली |
६ क
सञ्जय़ उवाच:
क्षुरार्धचन्द्रैर्निशितैश्च वाणैः; शिरांसि तेषां वहुधा च वाहून् ||
६ ख
सञ्जय़ उवाच:
छत्राणि वालव्यजनानि केतू; नश्वान्रथान्पत्तिगणान्द्विपांश्च |
७ क
सञ्जय़ उवाच:
ते पेतुरुर्व्यां वहुधा विरूपा; वातप्रभग्नानि यथा वनानि ||
७ ख
सञ्जय़ उवाच:
सुवर्णजालावतता महागजाः; सवैजय़न्तीध्वजय़ोधकल्पिताः |
८ क
सञ्जय़ उवाच:
सुवर्णपुङ्खैरिषुभिः समाचिता; श्चकाशिरे प्रज्वलिता यथाचलाः ||
८ ख
सञ्जय़ उवाच:
विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैः |
९ क
सञ्जय़ उवाच:
द्रुतं यय़ौ कर्णजिघांसय़ा तथा; यथा मरुत्वान्वलभेदने पुरा ||
९ ख
सञ्जय़ उवाच:
ततः स पुरुषव्याघ्रः सूतसैन्यमरिन्दम |
१० क
सञ्जय़ उवाच:
प्रविवेश महावाहुर्मकरः सागरं यथा ||
१० ख
सञ्जय़ उवाच:
तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः |
११ क
सञ्जय़ उवाच:
गजाश्वसादिवहुलाः पाण्डवं समुपाद्रवन् ||
११ ख
सञ्जय़ उवाच:
तत्राभिद्रवतां पार्थमारावः सुमहानभूत् |
१२ क
सञ्जय़ उवाच:
सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ||
१२ ख
सञ्जय़ उवाच:
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः |
१३ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भय़म् ||
१३ ख
सञ्जय़ उवाच:
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् |
१४ क
सञ्जय़ उवाच:
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ||
१४ ख
सञ्जय़ उवाच:
तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः |
१५ क
सञ्जय़ उवाच:
अभिय़ाय़ महेष्वासा विव्यधुर्निशितैः शरैः ||
१५ ख
सञ्जय़ उवाच:
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् |
१६ क
सञ्जय़ उवाच:
प्रेषय़ामास विशिखैर्यमस्य सदनं प्रति ||
१६ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः |
१७ क
सञ्जय़ उवाच:
तत्र तत्र स्म लीय़न्ते भय़े जाते महारथाः ||
१७ ख
सञ्जय़ उवाच:
तेषां चतुःशतान्वीरान्यतमानान्महारथान् |
१८ क
सञ्जय़ उवाच:
अर्जुनो निशितैर्वाणैरनय़द्यमसादनम् ||
१८ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः |
१९ क
सञ्जय़ उवाच:
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भय़ात् ||
१९ ख
सञ्जय़ उवाच:
तेषां शव्दो महानासीद्द्रवतां वाहिनीमुखे |
२० क
सञ्जय़ उवाच:
महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ||
२० ख
सञ्जय़ उवाच:
तां तु सेनां भृशं विद्ध्वा द्रावय़ित्वार्जुनः शरैः |
२१ क
सञ्जय़ उवाच:
प्राय़ादभिमुखः पार्थः सूतानीकानि मारिष ||
२१ ख
सञ्जय़ उवाच:
तस्य शव्दो महानासीत्परानभिमुखस्य वै |
२२ क
सञ्जय़ उवाच:
गरुडस्येव पततः पन्नगार्थे यथा पुरा ||
२२ ख
सञ्जय़ उवाच:
तं तु शव्दमभिश्रुत्य भीमसेनो महावलः |
२३ क
सञ्जय़ उवाच:
वभूव परमप्रीतः पार्थदर्शनलालसः ||
२३ ख
सञ्जय़ उवाच:
श्रुत्वैव पार्थमाय़ान्तं भीमसेनः प्रतापवान् |
२४ क
सञ्जय़ उवाच:
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ||
२४ ख
सञ्जय़ उवाच:
स वाय़ुवेगप्रतिमो वाय़ुवेगसमो जवे |
२५ क
सञ्जय़ उवाच:
वाय़ुवद्व्यचरद्भीमो वाय़ुपुत्रः प्रतापवान् ||
२५ ख
सञ्जय़ उवाच:
तेनार्द्यमाना राजेन्द्र सेना तव विशां पते |
२६ क
सञ्जय़ उवाच:
व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ||
२६ ख
सञ्जय़ उवाच:
तां तु सेनां तदा भीमो दर्शय़न्पाणिलाघवम् |
२७ क
सञ्जय़ उवाच:
शरैरवचकर्तोग्रैः प्रेषय़िष्यन्यमक्षय़म् ||
२७ ख
सञ्जय़ उवाच:
तत्र भारत भीमस्य वलं दृष्ट्वातिमानुषम् |
२८ क
सञ्जय़ उवाच:
व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षय़े ||
२८ ख
सञ्जय़ उवाच:
तथार्दितान्भीमवलान्भीमसेनेन भारत |
२९ क
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनो राजा इदं वचनमव्रवीत् ||
२९ ख
सञ्जय़ उवाच:
सैनिकान्स महेष्वासो योधांश्च भरतर्षभ |
३० क
सञ्जय़ उवाच:
समादिशद्रणे सर्वान्हत भीममिति स्म ह |
३० ख
सञ्जय़ उवाच:
तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ||
३० ग
सञ्जय़ उवाच:
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः |
३१ क
सञ्जय़ उवाच:
भीमं प्रच्छादय़ामासुः शरवर्षैः समन्ततः ||
३१ ख
सञ्जय़ उवाच:
गजाश्च वहुला राजन्नराश्च जय़गृद्धिनः |
३२ क
सञ्जय़ उवाच:
रथा हय़ाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ||
३२ ख
सञ्जय़ उवाच:
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः |
३३ क
सञ्जय़ उवाच:
शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ||
३३ ख
सञ्जय़ उवाच:
स रराज तथा सङ्ख्ये दर्शनीय़ो नरोत्तमः |
३४ क
सञ्जय़ उवाच:
निर्विशेषं महाराज यथा हि विजय़स्तथा ||
३४ ख
सञ्जय़ उवाच:
तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् |
३५ क
सञ्जय़ उवाच:
क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ||
३५ ख
सञ्जय़ उवाच:
स विदार्य महासेनां शरैः संनतपर्वभिः |
३६ क
सञ्जय़ उवाच:
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ||
३६ ख
सञ्जय़ उवाच:
हत्वा दश सहस्राणि गजानामनिवर्तिनाम् |
३७ क
सञ्जय़ उवाच:
नृणां शतसहस्रे द्वे द्वे शते चैव भारत ||
३७ ख
सञ्जय़ उवाच:
पञ्च चाश्वसहस्राणि रथानां शतमेव च |
३८ क
सञ्जय़ उवाच:
हत्वा प्रास्यन्दय़द्भीमो नदीं शोणितकर्दमाम् ||
३८ ख
सञ्जय़ उवाच:
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् |
३९ क
सञ्जय़ उवाच:
नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ||
३९ ख
सञ्जय़ उवाच:
सञ्छिन्नभुजनागेन्द्रां वहुरत्नापहारिणीम् |
४० क
सञ्जय़ उवाच:
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ||
४० ख
सञ्जय़ उवाच:
धनुष्काशां शरावापां गदापरिघकेतनाम् |
४१ क
सञ्जय़ उवाच:
योधव्रातवतीं सङ्ख्ये वहन्तीं यमसादनम् ||
४१ ख
सञ्जय़ उवाच:
क्षणेन पुरुषव्याघ्रः प्रावर्तय़त निम्नगाम् |
४२ क
सञ्जय़ उवाच:
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ||
४२ ख
सञ्जय़ उवाच:
यतो यतः पाण्डवेय़ः प्रवृत्तो रथसत्तमः |
४३ क
सञ्जय़ उवाच:
ततस्ततोऽपातय़त योधाञ्शतसहस्रशः ||
४३ ख
सञ्जय़ उवाच:
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संय़ुगे |
४४ क
सञ्जय़ उवाच:
दुर्योधनो महाराज शकुनिं वाक्यमव्रवीत् ||
४४ ख
सञ्जय़ उवाच:
जय़ मातुल सङ्ग्रामे भीमसेनं महावलम् |
४५ क
सञ्जय़ उवाच:
अस्मिञ्जिते जितं मन्ये पाण्डवेय़ं महावलम् ||
४५ ख
सञ्जय़ उवाच:
ततः प्राय़ान्महाराज सौवलेय़ः प्रतापवान् |
४६ क
सञ्जय़ उवाच:
रणाय़ महते युक्तो भ्रातृभिः परिवारितः ||
४६ ख
सञ्जय़ उवाच:
स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् |
४७ क
सञ्जय़ उवाच:
वारय़ामास तं वीरो वेलेव मकरालय़म् |
४७ ख
सञ्जय़ उवाच:
स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ||
४७ ग
सञ्जय़ उवाच:
शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे |
४८ क
सञ्जय़ उवाच:
प्रेषय़ामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ||
४८ ख
सञ्जय़ उवाच:
वर्म भित्त्वा तु सौवर्णं वाणास्तस्य महात्मनः |
४९ क
सञ्जय़ उवाच:
न्यमज्जन्त महाराज कङ्कवर्हिणवाससः ||
४९ ख