chevron_left शल्य पर्व अध्याय ५५
वैशम्पाय़न उवाच:
ततो वाग्युद्धमभवत्तुमुलं जनमेजय़ |
१ क
वैशम्पाय़न उवाच:
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽव्रवीदिदम् ||
१ ख
वैशम्पाय़न उवाच:
धिगस्तु खलु मानुष्यं यस्य निष्ठेय़मीदृशी |
२ क
वैशम्पाय़न उवाच:
एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः ||
२ ख
वैशम्पाय़न उवाच:
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् |
३ क
वैशम्पाय़न उवाच:
गदामादाय़ वेगेन पदातिः प्रस्थितो रणम् ||
३ ख
वैशम्पाय़न उवाच:
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः |
४ क
वैशम्पाय़न उवाच:
गदामुद्यम्य यो याति किमन्यद्भागधेय़तः ||
४ ख
वैशम्पाय़न उवाच:
अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय़ |
५ क
वैशम्पाय़न उवाच:
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ||
५ ख
सञ्जय़ उवाच:
स मेघनिनदो हर्षाद्विनदन्निव गोवृषः |
६ क
सञ्जय़ उवाच:
आजुहाव ततः पार्थं युद्धाय़ युधि वीर्यवान् ||
६ ख
सञ्जय़ उवाच:
भीममाह्वय़माने तु कुरुराजे महात्मनि |
७ क
सञ्जय़ उवाच:
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ||
७ ख
सञ्जय़ उवाच:
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च |
८ क
सञ्जय़ उवाच:
वभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ||
८ ख
सञ्जय़ उवाच:
महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः |
९ क
सञ्जय़ उवाच:
पेतुस्तथोल्काः शतशः स्फोटय़न्त्यो नभस्तलम् ||
९ ख
सञ्जय़ उवाच:
राहुश्चाग्रसदादित्यमपर्वणि विशां पते |
१० क
सञ्जय़ उवाच:
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ||
१० ख
सञ्जय़ उवाच:
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः |
११ क
सञ्जय़ उवाच:
गिरीणां शिखराण्येव न्यपतन्त महीतले ||
११ ख
सञ्जय़ उवाच:
मृगा वहुविधाकाराः सम्पतन्ति दिशो दश |
१२ क
सञ्जय़ उवाच:
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ||
१२ ख
सञ्जय़ उवाच:
निर्घाताश्च महाघोरा वभूवू रोमहर्षणाः |
१३ क
सञ्जय़ उवाच:
दीप्ताय़ां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ||
१३ ख
सञ्जय़ उवाच:
उदपानगताश्चापो व्यवर्धन्त समन्ततः |
१४ क
सञ्जय़ उवाच:
अशरीरा महानादाः श्रूय़न्ते स्म तदा नृप ||
१४ ख
सञ्जय़ उवाच:
एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः |
१५ क
सञ्जय़ उवाच:
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ||
१५ ख
सञ्जय़ उवाच:
नैष शक्तो रणे जेतुं मन्दात्मा मां सुय़ोधनः |
१६ क
सञ्जय़ उवाच:
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदय़े चिरम् |
१६ ख
सञ्जय़ उवाच:
सुय़ोधने कौरवेन्द्रे खाण्डवे पावको यथा ||
१६ ग
सञ्जय़ उवाच:
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छय़म् |
१७ क
सञ्जय़ उवाच:
निहत्य गदय़ा पापमिमं कुरुकुलाधमम् ||
१७ ख
सञ्जय़ उवाच:
अद्य कीर्तिमय़ीं मालां प्रतिमोक्ष्याम्यहं त्वय़ि |
१८ क
सञ्जय़ उवाच:
हत्वेमं पापकर्माणं गदय़ा रणमूर्धनि ||
१८ ख
सञ्जय़ उवाच:
अद्यास्य शतधा देहं भिनद्मि गदय़ानय़ा |
१९ क
सञ्जय़ उवाच:
नाय़ं प्रवेष्टा नगरं पुनर्वारणसाह्वय़म् ||
१९ ख
सञ्जय़ उवाच:
सर्पोत्सर्गस्य शय़ने विषदानस्य भोजने |
२० क
सञ्जय़ उवाच:
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ||
२० ख
सञ्जय़ उवाच:
सभाय़ामवहासस्य सर्वस्वहरणस्य च |
२१ क
सञ्जय़ उवाच:
वर्षमज्ञातवासस्य वनवासस्य चानघ ||
२१ ख
सञ्जय़ उवाच:
अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम |
२२ क
सञ्जय़ उवाच:
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ||
२२ ख
सञ्जय़ उवाच:
अद्याय़ुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः |
२३ क
सञ्जय़ उवाच:
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ||
२३ ख
सञ्जय़ उवाच:
अद्याय़ं कुरुराजस्य शन्तनोः कुलपांसनः |
२४ क
सञ्जय़ उवाच:
प्राणाञ्श्रिय़ं च राज्यं च त्यक्त्वा शेष्यति भूतले ||
२४ ख
सञ्जय़ उवाच:
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मय़ा हतम् |
२५ क
सञ्जय़ उवाच:
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिवुद्धिजम् ||
२५ ख
सञ्जय़ उवाच:
इत्युक्त्वा राजशार्दूल गदामादाय़ वीर्यवान् |
२६ क
सञ्जय़ उवाच:
अवातिष्ठत युद्धाय़ शक्रो वृत्रमिवाह्वय़न् ||
२६ ख
सञ्जय़ उवाच:
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
२७ क
सञ्जय़ उवाच:
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ||
२७ ख
सञ्जय़ उवाच:
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः |
२८ क
सञ्जय़ उवाच:
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ||
२८ ख
सञ्जय़ उवाच:
द्रौपदी च परिक्लिष्टा सभाय़ां यद्रजस्वला |
२९ क
सञ्जय़ उवाच:
द्यूते च वञ्चितो राजा यत्त्वय़ा सौवलेन च ||
२९ ख
सञ्जय़ उवाच:
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् |
३० क
सञ्जय़ उवाच:
विराटनगरे चैव योन्यन्तरगतैरिव |
३० ख
सञ्जय़ उवाच:
तत्सर्वं यातय़ाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ||
३० ग
सञ्जय़ उवाच:
त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् |
३१ क
सञ्जय़ उवाच:
गाङ्गेय़ो रथिनां श्रेष्ठो निहतो याज्ञसेनिना ||
३१ ख
सञ्जय़ उवाच:
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् |
३२ क
सञ्जय़ उवाच:
वैराग्नेरादिकर्ता च शकुनिः सौवलो हतः ||
३२ ख
सञ्जय़ उवाच:
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः |
३३ क
सञ्जय़ उवाच:
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तय़ोधिनः ||
३३ ख
सञ्जय़ उवाच:
एते चान्ये च वहवो निहतास्त्वत्कृते नृपाः |
३४ क
सञ्जय़ उवाच:
त्वामद्य निहनिष्यामि गदय़ा नात्र संशय़ः ||
३४ ख
सञ्जय़ उवाच:
इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् |
३५ क
सञ्जय़ उवाच:
उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः ||
३५ ख
सञ्जय़ उवाच:
किं कत्थितेन वहुधा युध्यस्व त्वं वृकोदर |
३६ क
सञ्जय़ उवाच:
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ||
३६ ख
सञ्जय़ उवाच:
नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै |
३७ क
सञ्जय़ उवाच:
शक्यस्त्रासय़ितुं वाचा यथान्यः प्राकृतो नरः ||
३७ ख
सञ्जय़ उवाच:
चिरकालेप्सितं दिष्ट्या हृदय़स्थमिदं मम |
३८ क
सञ्जय़ उवाच:
त्वय़ा सह गदाय़ुद्धं त्रिदशैरुपपादितम् ||
३८ ख
सञ्जय़ उवाच:
किं वाचा वहुनोक्तेन कत्थितेन च दुर्मते |
३९ क
सञ्जय़ उवाच:
वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः ||
३९ ख
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजय़न् |
४० क
सञ्जय़ उवाच:
राजानः सोमकाश्चैव ये तत्रासन्समागताः ||
४० ख
सञ्जय़ उवाच:
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः |
४१ क
सञ्जय़ उवाच:
भूय़ो धीरं मनश्चक्रे युद्धाय़ कुरुनन्दनः ||
४१ ख
सञ्जय़ उवाच:
तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः |
४२ क
सञ्जय़ उवाच:
भूय़ः संहर्षय़ां चक्रुर्दुर्योधनममर्षणम् ||
४२ ख
सञ्जय़ उवाच:
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः |
४३ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ||
४३ ख
सञ्जय़ उवाच:
वृंहन्ति कुञ्जरास्तत्र हय़ा हेषन्ति चासकृत् |
४४ क
सञ्जय़ उवाच:
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जय़ैषिणाम् ||
४४ ख