chevron_left आदि पर्व अध्याय ५६
जनमेजय़ उवाच:
कथितं वै समासेन त्वय़ा सर्वं द्विजोत्तम |
१ क
जनमेजय़ उवाच:
महाभारतमाख्यानं कुरूणां चरितं महत् ||
१ ख
जनमेजय़ उवाच:
कथां त्वनघ चित्रार्थामिमां कथय़ति त्वय़ि |
२ क
जनमेजय़ उवाच:
विस्तरश्रवणे जातं कौतूहलमतीव मे ||
२ ख
जनमेजय़ उवाच:
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति |
३ क
जनमेजय़ उवाच:
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||
३ ख
जनमेजय़ उवाच:
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः |
४ क
जनमेजय़ उवाच:
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ||
४ ख
जनमेजय़ उवाच:
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः |
५ क
जनमेजय़ उवाच:
प्रय़ुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ||
५ ख
जनमेजय़ उवाच:
कथं नागाय़ुतप्राणो वाहुशाली वृकोदरः |
६ क
जनमेजय़ उवाच:
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ||
६ ख
जनमेजय़ उवाच:
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः |
७ क
जनमेजय़ उवाच:
शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ||
७ ख
जनमेजय़ उवाच:
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा |
८ क
जनमेजय़ उवाच:
अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ||
८ ख
जनमेजय़ उवाच:
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् |
९ क
जनमेजय़ उवाच:
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ||
९ ख
जनमेजय़ उवाच:
कथं च वहुलाः सेनाः पाण्डवः कृष्णसारथिः |
१० क
जनमेजय़ उवाच:
अस्यन्नेकोऽनय़त्सर्वाः पितृलोकं धनञ्जय़ः ||
१० ख
जनमेजय़ उवाच:
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन |
११ क
जनमेजय़ उवाच:
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ||
११ ख
वैशम्पाय़न उवाच:
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः |
१२ क
वैशम्पाय़न उवाच:
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||
१२ ख
वैशम्पाय़न उवाच:
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् |
१३ क
वैशम्पाय़न उवाच:
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ||
१३ ख
वैशम्पाय़न उवाच:
य इदं श्रावय़ेद्विद्वान्यश्चेदं शृणुय़ान्नरः |
१४ क
वैशम्पाय़न उवाच:
ते व्रह्मणः स्थानमेत्य प्राप्नुय़ुर्देवतुल्यताम् ||
१४ ख
वैशम्पाय़न उवाच:
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् |
१५ क
वैशम्पाय़न उवाच:
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ||
१५ ख
वैशम्पाय़न उवाच:
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते |
१६ क
वैशम्पाय़न उवाच:
इतिहासे महापुण्ये वुद्धिश्च परिनैष्ठिकी ||
१६ ख
वैशम्पाय़न उवाच:
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् |
१७ क
वैशम्पाय़न उवाच:
कार्ष्णं वेदमिमं विद्वाञ्श्रावय़ित्वार्थमश्नुते ||
१७ ख
वैशम्पाय़न उवाच:
भ्रूणहत्याकृतं चापि पापं जह्यादसंशय़म् |
१८ क
वैशम्पाय़न उवाच:
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ||
१८ ख
वैशम्पाय़न उवाच:
जय़ो नामेतिहासोऽय़ं श्रोतव्यो विजिगीषुणा |
१९ क
वैशम्पाय़न उवाच:
महीं विजय़ते सर्वां शत्रूंश्चापि पराजय़ेत् ||
१९ ख
वैशम्पाय़न उवाच:
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् |
२० क
वैशम्पाय़न उवाच:
महिषीय़ुवराजाभ्यां श्रोतव्यं वहुशस्तथा ||
२० ख
वैशम्पाय़न उवाच:
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् |
२१ क
वैशम्पाय़न उवाच:
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितवुद्धिना ||
२१ ख
वैशम्पाय़न उवाच:
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे |
२२ क
वैशम्पाय़न उवाच:
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रिय़कारिणः ||
२२ ख
वैशम्पाय़न उवाच:
शरीरेण कृतं पापं वाचा च मनसैव च |
२३ क
वैशम्पाय़न उवाच:
सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ||
२३ ख
वैशम्पाय़न उवाच:
भारतानां महज्जन्म शृण्वतामनसूय़ताम् |
२४ क
वैशम्पाय़न उवाच:
नास्ति व्याधिभय़ं तेषां परलोकभय़ं कुतः ||
२४ ख
वैशम्पाय़न उवाच:
धन्यं यशस्यमाय़ुष्यं स्वर्ग्यं पुण्यं तथैव च |
२५ क
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नेनेदं कृतं पुण्यचिकीर्षुणा ||
२५ ख
वैशम्पाय़न उवाच:
कीर्तिं प्रथय़ता लोके पाण्डवानां महात्मनाम् |
२६ क
वैशम्पाय़न उवाच:
अन्येषां क्षत्रिय़ाणां च भूरिद्रविणतेजसाम् ||
२६ ख
वैशम्पाय़न उवाच:
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः |
२७ क
वैशम्पाय़न उवाच:
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ||
२७ ख
वैशम्पाय़न उवाच:
य इदं श्रावय़ेद्विद्वान्व्राह्मणानिह पर्वसु |
२८ क
वैशम्पाय़न उवाच:
धूतपाप्मा जितस्वर्गो व्रह्मभूय़ं स गच्छति ||
२८ ख
वैशम्पाय़न उवाच:
यश्चेदं श्रावय़ेच्छ्राद्धे व्राह्मणान्पादमन्ततः |
२९ क
वैशम्पाय़न उवाच:
अक्षय़्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ||
२९ ख
वैशम्पाय़न उवाच:
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् |
३० क
वैशम्पाय़न उवाच:
तन्महाभारताख्यानं श्रुत्वैव प्रविलीय़ते ||
३० ख
वैशम्पाय़न उवाच:
भारतानां महज्जन्म महाभारतमुच्यते |
३१ क
वैशम्पाय़न उवाच:
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||
३१ ख
वैशम्पाय़न उवाच:
त्रिभिर्वर्षैः सदोत्थाय़ी कृष्णद्वैपाय़नो मुनिः |
३२ क
वैशम्पाय़न उवाच:
महाभारतमाख्यानं कृतवानिदमुत्तमम् ||
३२ ख
वैशम्पाय़न उवाच:
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ |
३३ क
वैशम्पाय़न उवाच:
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ||
३३ ख