वैशम्पाय़न उवाच:
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् |
१ क
वैशम्पाय़न उवाच:
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ||
१ ख
वैशम्पाय़न उवाच:
चकार न व्यथां विप्रो राजा त्वेनमथाव्रवीत् |
२ क
वैशम्पाय़न उवाच:
प्रत्युत्थाय़ महातेजा भय़कर्ता यमोपमः ||
२ ख
वैशम्पाय़न उवाच:
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् |
३ क
वैशम्पाय़न उवाच:
भक्षं मृगय़माणस्य सम्प्राप्तो द्विजसत्तम ||
३ ख
उत्तङ्क उवाच:
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् |
४ क
उत्तङ्क उवाच:
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ||
४ ख
राजो उवाच:
षष्ठे काले ममाहारो विहितो द्विजसत्तम |
५ क
राजो उवाच:
न च शक्यः समुत्स्रष्टुं क्षुधितेन मय़ाद्य वै ||
५ ख
उत्तङ्क उवाच:
एवमस्तु महाराज समय़ः क्रिय़तां तु मे |
६ क
उत्तङ्क उवाच:
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ||
६ ख
उत्तङ्क उवाच:
संश्रुतश्च मय़ा योऽर्थो गुरवे राजसत्तम |
७ क
उत्तङ्क उवाच:
त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ||
७ ख
उत्तङ्क उवाच:
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः |
८ क
उत्तङ्क उवाच:
दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह |
८ ख
उत्तङ्क उवाच:
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ||
८ ग
उत्तङ्क उवाच:
उपाकृत्य गुरोरर्थं त्वदाय़त्तमरिन्दम |
९ क
उत्तङ्क उवाच:
समय़ेनेह राजेन्द्र पुनरेष्यामि ते वशम् ||
९ ख
उत्तङ्क उवाच:
सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किञ्चन |
१० क
उत्तङ्क उवाच:
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||
१० ख
सौदास उवाच:
यदि मत्तस्त्वदाय़त्तो गुर्वर्थः कृत एव सः |
११ क
सौदास उवाच:
यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद्व्रवीहि मे ||
११ ख
उत्तङ्क उवाच:
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ |
१२ क
उत्तङ्क उवाच:
सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ||
१२ ख
सौदास उवाच:
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले |
१३ क
सौदास उवाच:
वरय़ार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ||
१३ ख
उत्तङ्क उवाच:
अलं ते व्यपदेशेन प्रमाणं यदि ते वय़म् |
१४ क
उत्तङ्क उवाच:
प्रय़च्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ||
१४ ख
वैशम्पाय़न उवाच:
इत्युक्तस्त्वव्रवीद्राजा तमुत्तङ्कं पुनर्वचः |
१५ क
वैशम्पाय़न उवाच:
गच्छ मद्वचनाद्देवीं व्रूहि देहीति सत्तम ||
१५ ख
वैशम्पाय़न उवाच:
सैवमुक्ता त्वय़ा नूनं मद्वाक्येन शुचिस्मिता |
१६ क
वैशम्पाय़न उवाच:
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशय़ः ||
१६ ख
उत्तङ्क उवाच:
क्व पत्नी भवतः शक्या मय़ा द्रष्टुं नरेश्वर |
१७ क
उत्तङ्क उवाच:
स्वय़ं वापि भवान्पत्नीं किमर्थं नोपसर्पति ||
१७ ख
सौदास उवाच:
द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे |
१८ क
सौदास उवाच:
षष्ठे काले न हि मय़ा सा शक्या द्रष्टुमद्य वै ||
१८ ख
सौदास उवाच:
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ |
१९ क
सौदास उवाच:
मदय़न्तीं च दृष्ट्वा सोऽज्ञापय़त्स्वं प्रय़ोजनम् ||
१९ ख
सौदास उवाच:
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना |
२० क
सौदास उवाच:
प्रत्युवाच महावुद्धिमुत्तङ्कं जनमेजय़ ||
२० ख
सौदास उवाच:
एवमेतन्महाव्रह्मन्नानृतं वदसेऽनघ |
२१ क
सौदास उवाच:
अभिज्ञानं तु किञ्चित्त्वं समानेतुमिहार्हसि ||
२१ ख
सौदास उवाच:
इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च |
२२ क
सौदास उवाच:
तैस्तैरुपाय़ैः परिहर्तुकामा; श्छिद्रेषु नित्यं परितर्कय़न्ति ||
२२ ख
सौदास उवाच:
निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेय़ुः |
२३ क
सौदास उवाच:
यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षय़ेय़ुः ||
२३ ख
सौदास उवाच:
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ |
२४ क
सौदास उवाच:
देवराक्षसनागानामप्रमत्तेन धार्यते ||
२४ ख
सौदास उवाच:
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम |
२५ क
सौदास उवाच:
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ||
२५ ख
सौदास उवाच:
एते ह्यामुच्य भगवन्क्षुत्पिपासाभय़ं कुतः |
२६ क
सौदास उवाच:
विषाग्निश्वापदेभ्यश्च भय़ं जातु न विद्यते ||
२६ ख
सौदास उवाच:
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा |
२७ क
सौदास उवाच:
अनुरूपेण चामुक्ते तत्प्रमाणे हि जाय़तः ||
२७ ख
सौदास उवाच:
एवंविधे ममैते वै कुण्डले परमार्चिते |
२८ क
सौदास उवाच:
त्रिषु लोकेषु विख्याते तदभिज्ञानमानय़ ||
२८ ख