वृहदश्व उवाच:
एवं स समय़ं कृत्वा द्वापरेण कलिः सह |
१ क
वृहदश्व उवाच:
आजगाम ततस्तत्र यत्र राजा स नैषधः ||
१ ख
वृहदश्व उवाच:
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् |
२ क
वृहदश्व उवाच:
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ||
२ ख
वृहदश्व उवाच:
कृत्वा मूत्रमुपस्पृश्य सन्ध्यामास्ते स्म नैषधः |
३ क
वृहदश्व उवाच:
अकृत्वा पादय़ोः शौचं तत्रैनं कलिराविशत् ||
३ ख
वृहदश्व उवाच:
स समाविश्य तु नलं समीपं पुष्करस्य ह |
४ क
वृहदश्व उवाच:
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ||
४ ख
वृहदश्व उवाच:
अक्षद्यूते नलं जेता भवान्हि सहितो मय़ा |
५ क
वृहदश्व उवाच:
निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् ||
५ ख
वृहदश्व उवाच:
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् |
६ क
वृहदश्व उवाच:
कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ||
६ ख
वृहदश्व उवाच:
आसाद्य तु नलं वीरं पुष्करः परवीरहा |
७ क
वृहदश्व उवाच:
दीव्यावेत्यव्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ||
७ ख
वृहदश्व उवाच:
न चक्षमे ततो राजा समाह्वानं महामनाः |
८ क
वृहदश्व उवाच:
वैदर्भ्याः प्रेक्षमाणाय़ाः पणकालममन्यत ||
८ ख
वृहदश्व उवाच:
हिरण्यस्य सुवर्णस्य यानय़ुग्यस्य वाससाम् |
९ क
वृहदश्व उवाच:
आविष्टः कलिना द्यूते जीय़ते स्म नलस्तदा ||
९ ख
वृहदश्व उवाच:
तमक्षमदसंमत्तं सुहृदां न तु कश्चन |
१० क
वृहदश्व उवाच:
निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् ||
१० ख
वृहदश्व उवाच:
ततः पौरजनः सर्वो मन्त्रिभिः सह भारत |
११ क
वृहदश्व उवाच:
राजानं द्रष्टुमागच्छन्निवारय़ितुमातुरम् ||
११ ख
वृहदश्व उवाच:
ततः सूत उपागम्य दमय़न्त्यै न्यवेदय़त् |
१२ क
वृहदश्व उवाच:
एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ||
१२ ख
वृहदश्व उवाच:
निवेद्यतां नैषधाय़ सर्वाः प्रकृतय़ः स्थिताः |
१३ क
वृहदश्व उवाच:
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ||
१३ ख
वृहदश्व उवाच:
ततः सा वाष्पकलय़ा वाचा दुःखेन कर्शिता |
१४ क
वृहदश्व उवाच:
उवाच नैषधं भैमी शोकोपहतचेतना ||
१४ ख
वृहदश्व उवाच:
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः |
१५ क
वृहदश्व उवाच:
मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः |
१५ ख
वृहदश्व उवाच:
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ||
१५ ग
वृहदश्व उवाच:
तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् |
१६ क
वृहदश्व उवाच:
आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ||
१६ ख
वृहदश्व उवाच:
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः |
१७ क
वृहदश्व उवाच:
नाय़मस्तीति दुःखार्ता व्रीडिता जग्मुरालय़ान् ||
१७ ख
वृहदश्व उवाच:
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च |
१८ क
वृहदश्व उवाच:
युधिष्ठिर वहून्मासान्पुण्यश्लोकस्त्वजीय़त ||
१८ ख